________________
आप्तमीमांसा |
३१
दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्वित्युत्पत्तिव्ययात्मकं सुधटमेतदनेकांते जैनमते इति स्थितम् ॥ ६० ॥
अष्टसती- लोकोत्तरदृष्टांतेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति । दधिपयोगोरसव्रतानां क्षीरदध्युभयवर्जनात् क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति । तस्मात्तत्त्वं त्रयात्मकं ॥ ६० ॥
इति आप्तमीमांसाभाष्ये तृतीयः परिच्छेदः ।
वृत्ति - द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशैषिकमतमाशङ्कय दूषयितुव.. म: प्राहकार्यकारणनानात्वं गुणगुण्यन्यताऽपि च ।
सामान्यतद्वदन्यत्वं चैकांतेन यदीष्यते ॥ ६१ ॥
वृत्तिः - कार्य घटादिरूपं कारणं मृत्पिण्डादिकं तयोर्नानात्वं भेद इष्यते चेत् ? गुणो रूपादिर्गुणी द्रव्धं तयोरपि यद्यन्यतेष्यते सर्वथा भेद इष्यते ? सामान्यं बुद्ध्यभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत् व्यक्तयः, तयोश्च यद्यन्यतेष्यते सर्वथैकांतेन ? ॥ ६१ ॥
तदानीं किं स्यादत आह
अष्टशती - अवयवगुणसामान्यतद्वतो व्यतिरेकैकांतमाशक्य प्रतिविधन्ते ॥ ६१ ॥
एकस्यानेकत्रृत्तिर्न भागाभावाद्बहूनि वा ।
भागित्वाद्वाऽस्य नैकत्वं दोषां वृत्तेरनाईते ॥ ६२ ॥
वृत्तिः--एकस्यावयव्यादेः कार्यस्य घटादेरनेकेषु स्वारंभकावयवेषु वृत्तिर्वर्तनं सा न स्यात् । कुतः ? भागाभावात् निरवयवत्वात् । अवयविनो अर्थे वर्तन्ते अवयवबहुत्वं स्यादनिष्टं चैतत् । यथास्य भागाः परि कल्प्यते, एवं सति नैकत्वमस्य भागित्वात् । तस्मादनार्हते मते वृत्तिविकल्पस्य सर्वात्मनैकदेशन दोष एव । आर्हते पुनर्मते सर्व युक्तमनेकांतात् ॥ ६२ ॥
पुनरपि भेदपक्षे दूषणमाह-
अष्टशती - एकमनेकत्र वर्तमानं प्रत्यधिकरणं । न तावदेकदेशेन निष्प्रदेशत्वात् । नापि सर्वात्मना अवयव्यादिबहुत्वप्रसंगात् । अथापि कथंचित्प्रदेशवत्त्वं तत्रापि वृत्तिविकल्पोऽनवस्था च । तदेकत्वमेव न स्यात् । नायं प्रसंगो ऽनेकांते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् ॥ ६२ ॥ देशकालविशेषेऽपि स्यावृत्तिर्युतसिद्धवत् ।
समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३ ॥
वृत्तिः - देशः क्षेत्रं कालः समयादिकः तयोर्विशेषो भेदस्तस्मिन्नपि तयोरवयवावयविनोर्या वृत्तिर्वर्तनं स्यात् युतसिद्धानामिव पृथग्भिन्नानामिव युतसिद्धवत् घटपटादिवत् इत्यर्थः । अन्यच्च समानदेशता न स्यात् तयोरवयवावयविनोरेकस्मिन्नवस्थानं न स्यात् मूर्तिमत्त्वात् यथा खरकरभयोः ॥ ६३॥
पुनरपि भेदवादिनं प्रति दूषणमाह-
अष्टशती - तस्मादंगांग्यादेरत्यंतभेदादेशकालविशेषेणापि वृत्तिः प्रसज्येत । घटवृक्षवद्वर्णादिभिरनैकांतिकत्वमित्ययुक्तं तद् व्यतिरेकैकांतानभ्युपगमात् । अवयवावयविनोः समानदेशवृत्तिर्न भवेत् मूर्तिमत्वात् खरकरभवत् ॥ ६३ ॥ ..