________________
सनातनजैनग्रंथमालायांन सामान्यात्मनोंदति न व्येति व्यक्तमन्वयात् ।
व्ये युदेति विशेषात्ते सहैकत्रोदया द सत् ॥ ५७ ॥ वृत्तिः- थमनेकांते त्रयमेकस्मिन् संभवति? इति चेदत आह । सामान्यात्मना द्रव्यरूपेण नोदेति नोत्पद्यते न व्येति न विनश्यति कुतोऽन्वयात् सर्वपर्यायेष्वनुगतेकाकारेण वर्तनात व्यक्तं रफुटमेतत् । विशे षात्पर्यायरूपेणोत्पद्यते विनश्यति च । तवार्हतः । सह युगपदेककस्मिन् वस्तुनि । उदयादि सत्-उत्पादविनाशस्थितयः सत्यो विरोधाभावात् ॥ ५७ ॥
कथं य एवोत्पादः स एव विनाशो यावेव विनाशोत्पादौ तावेव स्थितिः ? इत्यत आह
अष्टशती-चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वात् । न हि चेतनस्य अन्यस्य का सर्वथोत्पत्तिः सदादिसामान्यस्वभावेन सत एवातिशयांतरोपलंभात् घटवत् । कथंचिदुत्पादविगमात्मकत्वादिति योज्यं ॥१७॥
कार्योत्पादः क्षयो हेतोनियमाल्लक्षणात्पृथक् ।
न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥ ५८॥ वृत्तिः-योऽयं कार्यस्योत्पादः स एव हेतोरुपादानकारणस्य क्षयो विनाशो नियमान्निश्चयात् । लक्षणात्पुनः पृथग-भिन्नौ स्वरूपभेदात् । जात्यादेरवस्थानात् सत्वप्रमेयत्वादिना न तो भिन्नौ। कुतः ? तेन रूपे गैकत्वात् । अनपेक्षाः परस्परापेक्षामंतरेण ते स्थित्युत्पत्तिविनाशाः खपुष्पसमानाः । तस्मादेते कथंचित् परस्परमभिन्नाः कथंचिद्भिन्नाश्च भवंति ॥ १८ ॥ ।। लौकिकदृष्टांतेन स्पष्टयन्नाह--
अष्टशती-कार्यकारणयोरुत्पादविनाशौ कथंचिद्भिनौ भिन्नलक्षणसंबंधित्वात् सुखदुःखवत् । स्यादभिन्नौ तदभेदस्थितजातिसंख्याद्यात्मकत्वात् पुरुषवत् । उत्पादविगमध्रौव्यलक्षणं स्याद्भिन्नं-अस्खलन्नानाप्रतीतिरूपादिवत् । उत्पादः केवलो नास्ति स्थितिविगमरहितत्वात् वियत्कुसुमवत् । तथा स्थितिविनाशौ प्रतिपत्तव्यौ ।। ५८॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयं ।
शोकप्रमोहमाध्यस्थ्यं जनो याति सहतुकम् ॥ ५९॥ :: वृत्तिः-अयं जनस्त्रितयार्थी यो घटार्थी स तस्मिन् भग्ने शोकं याति । यश्च मौल्यर्थी स तस्मिन्नुत्पन्ने हर्षे याति । यश्च सुर्वणार्थी स माध्यस्थ्यं याति सुवर्णसद्भावात् । नचैतदहेतुकं किंतु सहेतुकमेव । तदेक सुवर्णद्रव्यं घटस्वरूपेण विनश्यति, तदेव मैलिस्वरूपेणोत्पद्यते, सुवर्णस्वरूपेणानुगतेकाकारस्वरूपेण तिष्ठति। एवं सर्व वस्तु ।। ५९॥
अष्टशती-प्रतीतिभेदमित्थं समर्थयते-घटं भक्त्वा मौलिनिर्वतने घटमौलिसुवार्थी तन्नाशोत्पादस्थितिषु विषादहषौंदासीन्यस्थितिमयं जनः प्रतिपद्यत इति । निर्हेतुकत्वे तदनुपपत्तेः ॥ ५९॥ पुनरपि लोकोत्तरदृष्टांतेन पोषयति--
पयोवृतो न दध्यत्ति न पयोति दधिवतः ।
अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकं ॥ ६॥ वृति:--यस्य पयो-दुग्धमेवाहं भुज इति व्रतं नियमः, नासौ दभ्यत्ति-दधि भुक्ते । यस्य च दन्यह भुख इति व्रतं नासौ पयोऽत्ति-दुग्धं भुक्ते । यस्य चागोरसमह मुंज इति व्रतं नासावुभयमत्ति । कुतः 'गोरसरूपेण तयारेकत्वात् । दुग्धव्रतस्य दधिरूपेणाभावात् । दधिव्रतस्य पपोखपणाभावात् । अगारेसनतस्य