________________
आप्तमीमांसा।
वृत्तिः- स्कंधा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां संततयश्च कार्यकारणयोरविच्छेदाः । एवकारोऽवधारणार्थः । असंस्कृता एवापरमार्था एव । कुतः ? संवृतित्वान्मिथ्यारूपत्वात । अतस्तेषां स्थितिः । सदवस्थानमुत्पत्तिर्घटावस्था, विनाशः कपालादिरूपस्ते न स्युर्न भवेयुः खरविषाणवत् । यथा खरविषाणस्य स्थित्युत्पत्तिव्यया न सन्त्येवमेतेषां, अभावं प्रत्यविशेषात | यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणम् । न तथा स्कंधा: संततयश्च । ततः स्थित्युत्पत्तिविपत्तिविरहस्ततोऽपि विभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ॥
यस्य मिथ्यादृश उभयकांतपक्षस्तन्निरासार्थमाह--
अष्टशती-रूप-वेदना-विज्ञान-संज्ञा-संस्कारस्कंधसंततयोऽसंस्कृताः संवृत्तित्वात् । यत्पुनः संस्कृतं तत्परमार्थसत् । यथा स्वलक्षणं । न तथा स्कंधसंततयः । ततः स्थित्युत्पत्तिविपत्तिरहिताः । ततो विसभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ।। ५४ ॥
विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ५५॥ वृत्तिः-उभयैकात्म्यं नित्यानित्यकांतद्वयमयुक्तमंगीकर्तुं, कुतः? मिथ्यादृशां तद्विरोधात् । अनभिलाप्यमपि न युक्तमनेकांतवैरिणां ॥ ५५ ॥
एकांतवादिपक्षं निरस्यानेकांतं समर्थयन्नाह
अष्टशती-नित्यत्वेतरैकांतद्वयमप्ययुक्तमंगीकर्तुं विरोधात् युगपज्जीवितमरणवत् नित्यत्वानित्यत्वाभ्यां । अत एवानभिलाप्यमित्ययुक्तं ? तदेकांतेऽनभिलाप्योक्तेरनुपपत्तेः ॥ ५५ ॥
नित्यं तत् प्रत्यभिज्ञानानाकस्मात्तदविच्छिदा ।
क्षाणकं कालभेदात्ते बुद्धयसंचरदोषतः ॥ ५६ ॥ वृत्तिः तच्छब्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्त्वं कथंचिन्नित्यं प्रत्यभिज्ञानात । वस्तुनः पूर्वापर कालव्याप्तिज्ञानं प्रत्याभिज्ञानं । यथा स एवायं देवदत्त इत्यादि । तस्मात्प्रत्यभिज्ञानात् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्वयः। सोऽकस्मात् । अहेतोर्न भवति यस्मात् । न च नित्यत्वमेव । कालभेदात्परिणामवशात् क्षणिकं नश्वरं । तवाहद्भट्टारकस्य नान्यस्य क्षणिकाणिकवादिनः । बुद्धरसंचारोऽसंचरणमन्यत्रागमनं स एव दोषस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छत्तिः संभवति । उभयैकांते पुनः सुघटा ॥ ५६ ॥
तदेव दर्शयति
अष्टशती-तदेकांतद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकांतः । स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । संबधविशेषेऽपि पित्रेव पुत्रः सन्नप्यतिशयः पृथक्त्वं न निराकरोति । तदेवान्यत्रापि प्रत्यवमर्शाभावनिबंधनमेकसंतत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानवलाच्चैकसंततिरिति व्यक्तमितरेतराश्रयणमेतत् । नच पक्षांतरे समानं स्थितेरनुभवात् । तद्विभ्रमकल्पनायामुत्रादविनाशयोरनाश्वासः । तथानुभवनिर्णयानुपलब्धेयथा स्वलक्षणं परिगीयते तत्रैतत्स्यात् । स्वभावाविनिर्भागेऽपि न संकलन दर्शनक्षणांतरवत् । सत्यमेकांत एवायं दोषः । ततःक्षणिकंकालभेदात् ,दर्शनप्रत्यभिज्ञानसमयोरभेदे तदुभयाभावप्रसंगात् । किंच पक्षद्वयेऽपि ज्ञानासंचारानुषंगात अनेकांतसिद्धिः । अपोद्धारकल्पनया कथंचिज्जात्यंतरेऽपि वस्तुनि प्रत्यभिज्ञानादिमिपंधने स्थित्यादयो व्यवस्थाप्येन् । न च स्वभावभेदोपलंभेऽपि नानात्वविरोधः संकरानवस्थानुषंगः, चेतसि ग्राह्यग्राहकाकारबत् ॥५६॥