________________
२८
सनातनजैनग्रंथमालायांतद्वचनविरोधं दर्शयति--
अष्टशती-संतानादेरयोगात्, इति कर्तव्यतासु चिकीर्षोर्विनाशात् कर्तुरचिकीर्षत्वात् तदुभयविनिर्मुक्तस्य बंधात तंदविनिर्मुक्तेश्च, यमनियमादेरभिधेयत्वं कुर्वतो वा यत्किंचनकारित्वं ॥५१॥
अहेतुकत्वान्नाशस्य हिंसाहेतुने हिंसकः।
चित्तसंततिनाशश्च मोक्षो नाष्टांगहेतुकः ॥ ५२ ॥ वत्तिः-यो हिंसाया हेतुनिर्मितं नासौ हिंसकः प्राणवियोजकः कुतोऽहेतुकत्वान्नाशस्य । यदेतत्प्राणिनो मरणनिमित्तं यच्च मोक्षस्तैरभ्युपगतः चित्तानां रूपविज्ञानक्षणानां संततिनैरंतर्य तस्य नाशः क्षयः प्रदीपनिर्वाणरूपो वा । अष्ट अंगान्यवयवा यस्य स हेतुर्यस्यासौ अष्टांगहेतुकः । कानि तान्यष्टांगानि सम्यक्त्वसंज्ञा-संज्ञि-वाक्कायकर्म-अंतर्व्यायाम-स्मृति-समाधिलक्षणानि । सोऽपि न स्यात् । कुतः स्वत एव-हेतुमंतरेणाभ्युपगतत्वात् ॥ ५२॥
अथ मतं स्वभावविनाशार्थ न निमित्तमस्माभिरिष्यते, किं तु विभागार्थमित्यत आह
अष्टशती-अहेतुं विनाशमभ्युपगम्य कस्य चिद् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ! तथा निर्वाणं संतानसमूलप्रहरणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाक्कायकर्मीतायामजीवस्मृतिसमाधिलक्षणाष्टांगहेतुकं ! तदन्यो ऽन्यं विप्रतिषेधात् ॥ ५२॥
विरूपकार्यारम्भाय यदि हेतुसमागमः ।
आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३॥ वृत्ति-विरूपकार्य विभागसन्तानः कपालादिस्तस्यारम्भस्तस्मै विरूपकार्यारंभाय । यदि हेतोः समागमः कारणापेक्षणं । त_सौ विरूपकार्यारम्भ आश्रयिभ्यामुत्पादविनाशाभ्यामनन्योऽभिन्नः । कुतः? अविशेषादभेदात् । अविशेषेणाभेदोनोपलब्धिराश्रयिभ्यो यतः । अयुक्तवत् यथा ग्राह्यग्राहकाकारा सहायुतसिद्धिः ।।
चित्तविशेषरूपरसादिबद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूषणमभाणि । साम्प्रतं तु तेषामुत्पादादीनामसभवमेव दर्शयन्नाह
__ अष्टसती-विसभागसंतामोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय पूर्वस्य स्वरसनिवृत्तेः इति चेत् ? स पुनरुत्तरोत्पादः स्वरसतः किं न स्यात् विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनंतरभावित्वात् तेन व्यपदिश्यते ! इति चेत् इतरत्र समानं | परमार्थस्तदहेतुकत्वं, प्रतिपत्रभिप्रायाविशेषेऽपि स्वतः प्रहाणवादी न शक्नोत्यात्मानं न्यायमार्गमनुकारयितुं सर्वदा विरूपकार्यत्वात् । सभागविसभागावक्लूप्तिं प्रतिपत्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् । नच समनंतरक्षणयोर्नाशोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां । प्रत्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत् स्वभावप्रतिबंधात् संज्ञाछंदमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा कार्यरूपादेवि कारणं । तस्मात्कायकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न तस्य किंचिद्भवति । न भवत्येव केवलमिति चेत् भवत्येव फेवलमिति समानं । तस्मादयं विनाशहेतुर्भावमभावीकरोति न पुनरकिंचित्करः, कार्योत्पत्तिहेतुर्वा, यद्यभावं न भावी कुर्यात भावं करोतीति कृतस्य करणायोगात्-अकिंचित्करः । तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी ॥ ५३ ॥
स्कंधाः संततयश्चैव सवृतित्वादसंस्कृताः।
स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ ५४॥ १ तस्य बद्धस्य अविनिर्मुक्तरित्यर्थः ।