________________
आप्तमीमांसा ।
पदार्थो भवति । कुत: ? प्रक्रियाया: स्वरूपादिचतुष्टयलक्षणायाः विपर्ययात्पररूपादिचतुष्टयात् । तस्माद्यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्तु यथा खपुष्पं । तस्मादेतदेवैकस्योपलब्धिर्यदन्यस्यानुपलब्धिरिति ॥
पुनरप्यवक्तव्यवादिनमुपालभते -
अष्टशती-भावव्यतिरेकवाचिभिरपि वाक्यतामापन्नर्भावाभिधानात्
नात्र किंचिद्विरुद्धं
अतः
सूक्तं यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पं । अन्यस्य कैवल्यमितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितिर्भावस्य ॥ ४८ ॥
सर्वांताचेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिवेन्मृषवैषा परमार्थविपर्ययात् ॥ ४९ ॥
२७
वृत्तिः- यदि सर्वोताः सर्वधर्मा अवक्तव्या अवाच्यास्तेषां मतानां यदेतद्वचनमुक्तिः "सर्वथा प्रतिक्षणं निरन्वयविनाशिनो निरंशाः सजातीयविजातीयव्यावृत्ता इत्यादिकं” पुनः पुनरावर्तमानं किमर्थं स्यात् । अथ मतं परमार्थे न तद्भवेत्किं तु संवृतिः । यद्यैवं मृषैवैषा व्यलीकंव सा । कुतः ? परमार्थस्य तस्वरूपस्य विपर्ययोऽभावः यतः । संवृतिर्नामोपचारः, न च सा परमार्थमंतरेण भवति ॥ ४९ ॥
अष्टशती - पुनरपि - अवक्तव्यवादिनं पर्यनुयुंज्महे - सर्वधर्मा यदि वाग्गोचरतामतीताः, कथमिमेऽभिलाप्यते इति । संवृत्या इति चेत् ? न विकल्पानुपपत्तेः । स्वरूपेण चेत् ? कथमनभिलाप्याः ? पररूपेण चेत्तेषां स्वरूपं स्यात् केवलं वाचः स्खलनं गम्यते । उभयपक्षेऽप्युभयदोषप्रसंग: । तत्त्वेन चेत् ? कथमवाच्याः । मृषात्वेन चेत् ? कथमुक्ताः तदलमप्रतिष्ठितमिध्याविकल्पोंधैः ॥ ४९॥
अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।
आद्यतोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटं ॥ ५० ॥
वृत्तिः इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवाच्यं ? आहोस्विदभावात् ? किमज्ञानात् ? विकल्पत्रयं । न तावदशक्यत्वाद्दशनागसहस्रवलवत्त्वाद् बुद्धस्य । नाप्यज्ञानात्सर्वज्ञत्वेन परिकल्पितं यतः । यस्मादाद्युक्तिरादिविकल्पोंऽतोक्तिस्तृतीयविकल्प एतद्वयं न भवेत् । तस्मात्किं व्याजेन छद्मना ! उच्यतां भण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभावमात्रं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ॥ ५० ॥ क्षणिकांतवादिकल्पिता हिंसा पंचभिः कारणैः प्राणप्राणिजनव्याघातचित्ततद्भतचेष्टाप्राणवियोगैर्न, बंधमोक्षादिश्च न घटत इत्याह
अष्टशती - अर्थस्यानभिलाप्यत्वं अभावात्, वक्तुरशक्तेः ? - अनवबोधाद्वा प्रकारांतराभावाद्वा ? बुद्धिकरणपाटवापेक्षत्वात् ? न च सर्वत्र तदभावो युक्तः ततो नैरात्म्यान्न विशिष्यते मध्यमपक्षावलंबनात् । अशक्यसमयत्वात् अनभिलाप्यमर्थरूपमिति चेन्न कथंचिच्छक्य संकेतत्वात्, दृश्याविकल्पस्वभावत्वात् परमार्थस्य प्रतिभासभेदेऽपि इत्युक्तं । विषयविषयिणोर्भिन्न कालत्वं प्रत्यक्षेऽपि समानं । अविपरीतविप्रतिपत्तिरन्यत्रापि । दर्शन विकल्पयोः परमार्थैकतानत्वाभावे न किंचित्सिद्धं दृष्टस्यानिर्णयात् अदृष्टकल्पत्वात् । अदृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् ॥ ५० ॥
हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् ।
बद्ध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥
वृत्तिः -- क्षणिकैकांतवादेऽभिसंधिमत्-मारणाभिप्रायवत् । चित्तं तत्परिकल्पितरूपज्ञानं जीवसदृशं तत्प्रा - fit हिनस्ति न मारयति । यच्च हिनस्ति तदनाभिसंधातृ अनभिप्रायवत् । बध्यते च कर्मणा तद्वयापेतं ॥ ५१ ॥