________________
२६
सनातनजैनग्रंथमालायांअपि तु तेष्वनन्यव्यवहारादेकत्वमुपचरितमिति । व्यलीकव्यवहारेऽपि विशेषानुपपत्तेः संबधनियमाभावस्तदवस्थः । उपचारस्तु नर्ते मुख्यात् यथाग्निर्माणवक इति स्खलति हि तत्रानन्यप्रत्ययः परीक्षाऽक्षमत्वात् । अत एवामुख्यार्थः प्रस्तुतासाधनं ॥ ४४ ॥
चतुष्कोटेर्विकल्पस्य सर्वांतेषक्तययोगतः।
तत्त्वान्यत्वमवाच्यं च तयोः संतानतद्वतोः ॥ ४५ ॥ वृत्तिः-यथा सर्वधर्मेषु चतम्नः कोटयो सत्त्वैकत्वादिषु विभागा यस्यासौ चतुष्कोटिर्विकल्पस्तस्य सदसदुभयादिभेदभिन्नस्य विकल्पस्य । उक्तिर्वचनं तस्या अयोगोऽसंभवः ततः । तयोः संतानतद्वतोश्चतुष्कोटेर्विकल्पस्य वचनस्यायोगात्तत्त्वान्यत्वमेकत्वानकत्वमवाच्यं ॥ ४५॥ ..
चेदत आह
अष्टशती-सत्त्वैकत्वादिषु सर्वधर्मेषु सदसदुभयानुभयचतुष्कोटेरभिधातुमश्यक्यत्वात् संतानतद्वतोरपि भेदाभेदोभयानुभयचतुष्कोटेरनभिलाप्यत्वं । सत्त्वे तदुत्पत्तिविरोधात्-असत्त्वे पुनरुच्छेदपक्षोपक्षिप्तदोषात् । उभयत्रोभयदोषप्रसंगात् । अनुभयपक्षेऽपि विकल्पानुपपत्तिरित्यादि योज्यं ॥ ४५ ॥
अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यतां ।
असर्वांतमवस्तु स्यादविशेष्यविशेषणं ॥ ४६॥ वत्तिः-तप्रवक्तव्यचतुष्कोटिविकल्पोऽपि यः सोऽपि न कथ्यतां नोच्यतां माभाणीदित्यर्थः । अन्यथा भेदाभेदोभयानुभयस्वरूपेणामिलाप्यत्वे कथंचिदनभिलाप्यत्वं स्यात् । अन्यच्चैवं सति असर्वोतं सर्वविकल्पातीतमवस्तु स्यात् । अविशेष्यविशेषणं स्यात् । विशेष्यत इति विशेषः विशेष्यतेऽनेनेति विशेषेणं तयोरभावात् ॥ ४६॥ ...... अन्यच्च प्रतिषेधोऽपि न घटते, तत्कथमत आह
अष्टशती-न हि सर्वथानभिलाप्यत्वेऽनभिलाप्यचतुष्कोटेराभिधेयत्वं युक्तं कथंचिदभिलाप्यत्वप्रसंगात् । अपि चैव सति सर्वविकल्पातीतमवस्त्वेव स्यादन्यत्र वाचोयुक्तेः ॥ ४६ ॥
द्रव्याधंतरभावेन निषेधः संज्ञिनः सतः।
असद्भदो न भावस्तु स्थानं विधिनिषेधयोः॥४७॥ .. वत्तिः-द्रव्यमादिर्येषां ते द्रव्यक्षेत्रकालभावास्तेभ्योऽन्यानि द्रव्याद्यतराणि तेषामभावस्तेन परद्रव्यपरक्षेत्रपरकालपरभावस्वरूपेण यः प्रतिषेधः सतो विद्यमानस्य । संझिनो नामवतो भवति । यः पुनरसद्धेदो ऽभावविशेषः परपरिकल्पितो नासौ भावः स्वलक्षणं । विधिनिषेधयोरस्तित्वनास्तित्वयोः । स्थानमास्पदं । कुतः ? सर्वथा तस्य तुच्छत्वात् । तस्माद्भाव एव विधिनिषेधयोरवस्थानं तस्यैव स्वपररूपेणास्तित्वनास्तित्वं ॥
यतः. अशती-द्रव्यक्षेत्रकालभावांतरप्रतिषेधः संज्ञिनः सतः क्रियते न पुनरसतस्तद्विधिप्रतिषेधाविषयत्वात् । नचैतद्विरुद्ध ? स्वलक्षणमनिर्देश्यमित्यादिवत् । अभावोऽनभिलाप्य इत्यपि भावाभिधानादेकांतवृत्तावेव दोषात् । भावाभिधानरपि कथंचिदभावाभिधानात् ॥ ४७ ॥
अवस्त्वनाभिलाप्यं स्यात् सर्वांतः परिवर्जितं । ...... वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८॥
वत्तिः-सातैः सर्वधः । परिवर्जितं विरहितं । सर्वथा - यत्तदनभिलाप्यमवाच्यमवस्तु स्यात् न किंचिदपि भवेत् परपरिकल्पितं । कथं तद्यवस्तुत्वमत आह-वस्त्वेवावस्तुतां याति-अर्थक्रियायाः सर्व एव