________________
... आप्तमीमांसा।
२५
अष्टशती-कथंचित् सतः कार्यत्वं-उपादानस्योत्तरीभवनात् सदपि विरुद्धधर्माध्यासानिराकृतेः । तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबंधनायाः किं फलमपलापेन । तदन्यतरनिराकृतावुभयनिराकृतिःअभेदात् । तन्नासत्कार्य सर्वथानुत्पादप्रसंगात् खपुष्पवत् । न तादृशकारणवत् सर्वथाऽभूतत्वात् बंध्यासुतवत् । कथंचिदस्थितानुत्पन्नत्वादिति योज्यं । सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्तिंडस्थासकोशकुशूलादिषु सकललोकसाक्षिक, स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलंभानवधारणावक्लप्तिमारचयतां मोपादाननियामोऽभूत्कारणांतरवत् तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्यात्। निरन्वयस्यापि तादृशी प्रकृतिरात्मानं कारणांतरेभ्यो यया विशेषयतीति चेत् ? न अत्यंतविशेषानुपलब्धेः । तदविशेषादर्शने सर्वथा साध्यं स्यात् । तस्मात् इयमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थितिं प्रतिक्षणं विभर्ति यतोऽयमुपादाननियमः सिद्धः । अथापि कथंचिदुपादाननियमः कल्प्येत कार्यजन्मनि कथमाश्वासः ? तदत्यंतासतः-कार्यस्योत्पत्तेः तंतुभ्यः पटादिरेव न घटादिरिति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्पनायामनुपादानेऽपि स्यात् । तथादर्शनमहेतुरत्रैव विचारात् कथंचिदाहितविशेषतंतूनां पटस्वभावप्रतिलंभोपलंभात् । तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतरलमपलापेन । तस्मादुभयलक्षणप्राप्तानुपलब्धिरन्वयस्यैव न पुनरुभयरूपस्येत्यलं प्रसंगेन ॥ ४२ ॥
न हेतुफलभावादिरन्यभावादनन्वयात् ।
संतानांतरवकः संतानस्तद्वतः पृथक् ॥ ४३ ॥ वृत्ति:-क्षणिकैकांतपक्षे हेतुः-कारणं । फलं-कार्य तयोर्भावोऽस्तित्वं स आदिर्यस्य स हेतुफलभावादिरुपादानोपादेयस्वरूपं कार्यकारणभावो वाच्यवाचकभावश्च न स्यात् । कुतः ? अन्यभावादत्यंतपृथक्त्वात् । तदपि कुतः ? अनन्वयादेकस्य पूर्वापरावस्थाऽभावात् । तथा संतानांतरे प्रस्तुतसतानादन्यः सतानः संतानांतरं तस्मिन्यथा न संभवति कार्यकारणभावः मृत्पिण्डात्पेटइव । अभ्युपगम्यैतदुक्तं परमार्थतस्तु संतानिभ्यो मिनेभ्यः पृथग्भूतेषु, ततो न कश्चिदेकः संतानोऽनुगतैकाकारः । अन्यानन्यभावाभ्या निराकृतत्वात् । तस्मान्न संतानो नापि संतानिन इति ॥ ४३ ॥
पुनरपि तस्य दूषणमाह
अष्टशती-विलक्षणानामत्यंतभेदेपि स्वभावतः किलासंकीर्णाः संततयः कर्मफलसबंधादिनिबंधनं शश. विषाणस्येव वर्तुलत्वमारचितं कश्चेतनः श्रद्दधीत ? ।। ४३ ॥
अन्येष्वनन्यशब्दोऽयं संवृतिने मृषा कयं ।
मुख्यार्थः संवृतिर्नास्ति विना मुख्यान संवृतिः ॥ ४४ ॥ वृत्तिः-मत्यं संतानिभ्यो व्यतिरिक्तः संतानो नास्ति किं तु अन्येषु पृथग्भूतेषु योऽयमनन्यशब्दोऽनन्यबुद्धिश्च संतानः सा संवृतिरुपचारः । यद्येवं कथं सा न मृषा व्यलीका भवेत् । न च मुख्यार्थः संवृतिरस्ति तस्यास्तुच्छरूपत्वात् । संवृतिस्तूपचारः । न च मुख्यार्थमंतरेण संवृतिः, सति मुख्यार्थे तस्याः संभवो यथा सिंहोऽयं माणवकः, सति मुख्यसिंहे माणवके सिंहकल्पना । न चैवं संवृतेरस्ति मुख्यार्थ इति ॥ ४४ ।।
अथैवं परिकल्प्यतेअष्टशती-संतानिभ्योऽनन्यः संतानः अन्यथा आत्मनो नामांतरकरणात्-नित्यानित्यविकल्पानुपत्तेः । १ पूर्वापरभावात् पाठोऽयं लिखितपुस्तके । २ मृपिंडाट इव पाठो मुद्रितपुस्तके । ३ तस्याः शब्द स्वतत पाठोयं लिखित पुस्तके ।