________________
सनातन जैनग्रंथमालायां
दनघटादेरारंभ आदिक्रिया । अतः कुतः फलं समर्पणादिकं परिहारोऽनिष्टस्य । अस्मादतकार्य भविष्यति नान्यस्मादेतदपि न संभवत्येव । आदिशब्देन पर्यालोचनाध्यवसायादीनां ग्रहणं । यदि कश्चित् स्थिरः कर्ता स्यादुपादानादीन्यपि यदि स्थिराणि संत्यस्य कार्यस्य, एतयोर्ग एव तन्निराकरणमपि । कथंचिद्यदि कार्यरूपेण परिणमति तदा सर्व सुघटं नान्यथा ॥ ४१ ॥
२४
तत्र कारणे कार्य मनागपि नास्तीति चेदत आह
अष्टशती -क्षणक्षयैकांतदर्शनं अहितं, असंभवत्प्रत्यभावादित्वात् उच्छेदैकांतवत् । धौव्यकांताभ्युपगमवद्वा । भिन्नकालक्षणानामसंभवद्धासनत्वात् अकार्यकारणवत् । न विनष्टं कारणमसत्त्वाच्चिरतरातीतवत् । समनंतरत्वेऽप्यभावाविशेषात् । न च पूर्वस्योत्तरं कार्ये तदसत्येव हि भावात् वस्त्वंतरवत् अतिक्रांततमवद्वा नहि समर्थेऽस्मिन् सति स्वयमनुपित्सोः पश्चाद्भवतस्तत्कार्यत्वं ! समनंतरत्वे वा नित्यवत् । कारणाभावा'विशेषेऽपि कार्योपत्तिसमयनियमावक्लृप्तौ कस्यचित् कौटस्थयेऽपि तत्कारणसामर्थ्य सद्भावाभेदेपि कार्यजन्मनः कालनियमः किं न स्यात् ? विशेषाभावात् । तथा चाकस्मिकत्वं स्यात् । उभयत्राविशेषेण कथंचिदनुपयोगेऽपि क्वचिद् व्यपदेशकल्पनायामन्यत्रापि किं न भवेत्क्षणस्थितिः । एकोऽपि भावोऽनेकस्वभावः चित्रकार्यवा नानार्थवत् । न हि कारणशक्तिभेदमंतरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । अन्यथा रूपादेर्नानात्वं न सिद्धयेत् चक्षुरादिसामिग्रीभेदात् तज्ज्ञाननिर्भासभेदोऽवकल्पेत । युगपदेकार्थोपनिबद्धदृष्टानामपि भवितव्यमेव प्रतिभासभेदेन कारणसामिग्रीभेदात् । अन्यथा दर्शनभेदोऽपि माभूत् । प्रत्यासन्नेतरयोर्वैशद्येतरनिर्भासोपलब्धेः । सेयमुभयतः पाशारज्जुः । सकृत्कारणस्वभावभेदमंतरेण यदि कार्यनानात्वं क्रमशोऽपि कस्यचिदपेक्षित सहकारिणः कार्यसंततिः किं न स्यात् । सहकारिणस्तद्धेतुस्वभावमभेदयंतोऽपि कार्यभेदहेतवः स्युः क्षणक्षयवत् । न हि कादाचित्कानि तत्कर्तुं समर्थानीति स्थिरोऽर्थस्तत्करणस्वभावं जहाति तद्बुद्धिपूर्वकत्वाभावात् । क्षणिकसामिग्रीसन्निपतितैककारणांतरवत् । कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिरवश्यं -अन्वेष्याः । तत्स्वभाववशात्तत्कारणप्रकृतिव्यवस्थापनात् । तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात् । यद्यद्भावं प्रत्यनपेक्षं तत्तद्भावनियतं तथा विनाशं प्रत्यनपेक्षं विनश्वरं तथैव स्थितिं प्रत्यनपेक्षं स्थास्नु तद्धेतोरकिंचित्करत्वात् तद् व्यतिरिक्ताव्यतिरिक्ताकारणात् इत्यादि सर्वे समानं । आदौ स्थितिदर्शनात् विद्युत्प्रदीपादेरंतेऽपि स्थितरनुमानं युक्तं । अन्यथांते क्षयदर्शनात् आदौ तत्प्रतिपत्तिरसमंजसैव तादृशः कारणादर्शनेऽपि कथंचिदुपादानानुमानवत् तत्कार्यसंतानस्थितिरदृष्टाप्यनुमीयेत । तस्मात्कथंचन स्थितिमतः प्रतिक्षणं विवर्तोऽपि नान्यथा प्रभावादेरयोगात् । कुतः प्रेत्यभावादिः ? सत्यपि हेतुफलभावे कारणकार्यंतखत् संततिर्न स्यात् । अतादात्म्याविशेषात् तत्स्वभावविशेषावक्लृप्तौ तादात्म्येऽपि कोsपरितोषः ? विरोधस्य सर्वथाप्यपरिहार्यत्वात्। तत्संतानपेक्षया प्रेत्यभावादिः मामंस्त ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात् । न वै प्रत्यभिज्ञादिः पुरुषांतरवदर्थौतरवच्च । ततः कर्मफलसंबंधोऽपि नानासंतानवदनियमात् न युक्तिमवतरति । तत्सूक्तं क्षणिकपक्षो विद्वद्भिरनादरणीयः सर्वथार्थक्रियाविरोधात् नित्यत्वैकांतवत् । सत्येव कारणे यदि कार्य त्रैलोक्यमेकक्षणवर्ति स्यात् । ततः संतानाभावात् पक्षांतरासंभवाच्चेति स्थितमेतत् ॥ ४१ ॥ सत्सर्वथा कार्य तन्माजनि खपुष्पवत् ।
मोपादाननिय मोम्माऽऽश्वासः कार्यजन्मनि ॥ ४२ ॥
वृत्तिः-सर्वथा शक्तिव्यक्तिस्वरूपेण यदसदविद्यमानं तत्कार्यं माजनि माभूत् । खपुष्पं गगनकुसुमं तदिव खपुष्पवत् । उपादानं मृत्पिंडतत्त्वादिकं तस्य नियामो ऽस्मादेतत्कार्य भवतीति निश्वयः सोऽपि माभूत् । आश्वासोऽस्मादेतद्भविष्यत्ययमपि माभूत् । कार्यजन्मनि कार्योपत्तौ ॥ ४२ ॥
पुनरपि दोषमुद्भावयितुमाह
१ । एतद्योग्यमेव पाठोऽयं लिखितपुस्तके | २ परिणमनमपि पाठोयं मुद्रितपुस्तके |