Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 131
________________ आप्तमीमांसा | ३१ दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्वित्युत्पत्तिव्ययात्मकं सुधटमेतदनेकांते जैनमते इति स्थितम् ॥ ६० ॥ अष्टसती- लोकोत्तरदृष्टांतेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति । दधिपयोगोरसव्रतानां क्षीरदध्युभयवर्जनात् क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति । तस्मात्तत्त्वं त्रयात्मकं ॥ ६० ॥ इति आप्तमीमांसाभाष्ये तृतीयः परिच्छेदः । वृत्ति - द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशैषिकमतमाशङ्कय दूषयितुव.. म: प्राहकार्यकारणनानात्वं गुणगुण्यन्यताऽपि च । सामान्यतद्वदन्यत्वं चैकांतेन यदीष्यते ॥ ६१ ॥ वृत्तिः - कार्य घटादिरूपं कारणं मृत्पिण्डादिकं तयोर्नानात्वं भेद इष्यते चेत् ? गुणो रूपादिर्गुणी द्रव्धं तयोरपि यद्यन्यतेष्यते सर्वथा भेद इष्यते ? सामान्यं बुद्ध्यभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत् व्यक्तयः, तयोश्च यद्यन्यतेष्यते सर्वथैकांतेन ? ॥ ६१ ॥ तदानीं किं स्यादत आह अष्टशती - अवयवगुणसामान्यतद्वतो व्यतिरेकैकांतमाशक्य प्रतिविधन्ते ॥ ६१ ॥ एकस्यानेकत्रृत्तिर्न भागाभावाद्बहूनि वा । भागित्वाद्वाऽस्य नैकत्वं दोषां वृत्तेरनाईते ॥ ६२ ॥ वृत्तिः--एकस्यावयव्यादेः कार्यस्य घटादेरनेकेषु स्वारंभकावयवेषु वृत्तिर्वर्तनं सा न स्यात् । कुतः ? भागाभावात् निरवयवत्वात् । अवयविनो अर्थे वर्तन्ते अवयवबहुत्वं स्यादनिष्टं चैतत् । यथास्य भागाः परि कल्प्यते, एवं सति नैकत्वमस्य भागित्वात् । तस्मादनार्हते मते वृत्तिविकल्पस्य सर्वात्मनैकदेशन दोष एव । आर्हते पुनर्मते सर्व युक्तमनेकांतात् ॥ ६२ ॥ पुनरपि भेदपक्षे दूषणमाह- अष्टशती - एकमनेकत्र वर्तमानं प्रत्यधिकरणं । न तावदेकदेशेन निष्प्रदेशत्वात् । नापि सर्वात्मना अवयव्यादिबहुत्वप्रसंगात् । अथापि कथंचित्प्रदेशवत्त्वं तत्रापि वृत्तिविकल्पोऽनवस्था च । तदेकत्वमेव न स्यात् । नायं प्रसंगो ऽनेकांते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् ॥ ६२ ॥ देशकालविशेषेऽपि स्यावृत्तिर्युतसिद्धवत् । समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३ ॥ वृत्तिः - देशः क्षेत्रं कालः समयादिकः तयोर्विशेषो भेदस्तस्मिन्नपि तयोरवयवावयविनोर्या वृत्तिर्वर्तनं स्यात् युतसिद्धानामिव पृथग्भिन्नानामिव युतसिद्धवत् घटपटादिवत् इत्यर्थः । अन्यच्च समानदेशता न स्यात् तयोरवयवावयविनोरेकस्मिन्नवस्थानं न स्यात् मूर्तिमत्त्वात् यथा खरकरभयोः ॥ ६३॥ पुनरपि भेदवादिनं प्रति दूषणमाह- अष्टशती - तस्मादंगांग्यादेरत्यंतभेदादेशकालविशेषेणापि वृत्तिः प्रसज्येत । घटवृक्षवद्वर्णादिभिरनैकांतिकत्वमित्ययुक्तं तद् व्यतिरेकैकांतानभ्युपगमात् । अवयवावयविनोः समानदेशवृत्तिर्न भवेत् मूर्तिमत्वात् खरकरभवत् ॥ ६३ ॥ ..

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182