Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 129
________________ आप्तमीमांसा। वृत्तिः- स्कंधा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां संततयश्च कार्यकारणयोरविच्छेदाः । एवकारोऽवधारणार्थः । असंस्कृता एवापरमार्था एव । कुतः ? संवृतित्वान्मिथ्यारूपत्वात । अतस्तेषां स्थितिः । सदवस्थानमुत्पत्तिर्घटावस्था, विनाशः कपालादिरूपस्ते न स्युर्न भवेयुः खरविषाणवत् । यथा खरविषाणस्य स्थित्युत्पत्तिव्यया न सन्त्येवमेतेषां, अभावं प्रत्यविशेषात | यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणम् । न तथा स्कंधा: संततयश्च । ततः स्थित्युत्पत्तिविपत्तिविरहस्ततोऽपि विभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ॥ यस्य मिथ्यादृश उभयकांतपक्षस्तन्निरासार्थमाह-- अष्टशती-रूप-वेदना-विज्ञान-संज्ञा-संस्कारस्कंधसंततयोऽसंस्कृताः संवृत्तित्वात् । यत्पुनः संस्कृतं तत्परमार्थसत् । यथा स्वलक्षणं । न तथा स्कंधसंततयः । ततः स्थित्युत्पत्तिविपत्तिरहिताः । ततो विसभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ।। ५४ ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ५५॥ वृत्तिः-उभयैकात्म्यं नित्यानित्यकांतद्वयमयुक्तमंगीकर्तुं, कुतः? मिथ्यादृशां तद्विरोधात् । अनभिलाप्यमपि न युक्तमनेकांतवैरिणां ॥ ५५ ॥ एकांतवादिपक्षं निरस्यानेकांतं समर्थयन्नाह अष्टशती-नित्यत्वेतरैकांतद्वयमप्ययुक्तमंगीकर्तुं विरोधात् युगपज्जीवितमरणवत् नित्यत्वानित्यत्वाभ्यां । अत एवानभिलाप्यमित्ययुक्तं ? तदेकांतेऽनभिलाप्योक्तेरनुपपत्तेः ॥ ५५ ॥ नित्यं तत् प्रत्यभिज्ञानानाकस्मात्तदविच्छिदा । क्षाणकं कालभेदात्ते बुद्धयसंचरदोषतः ॥ ५६ ॥ वृत्तिः तच्छब्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्त्वं कथंचिन्नित्यं प्रत्यभिज्ञानात । वस्तुनः पूर्वापर कालव्याप्तिज्ञानं प्रत्याभिज्ञानं । यथा स एवायं देवदत्त इत्यादि । तस्मात्प्रत्यभिज्ञानात् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्वयः। सोऽकस्मात् । अहेतोर्न भवति यस्मात् । न च नित्यत्वमेव । कालभेदात्परिणामवशात् क्षणिकं नश्वरं । तवाहद्भट्टारकस्य नान्यस्य क्षणिकाणिकवादिनः । बुद्धरसंचारोऽसंचरणमन्यत्रागमनं स एव दोषस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छत्तिः संभवति । उभयैकांते पुनः सुघटा ॥ ५६ ॥ तदेव दर्शयति अष्टशती-तदेकांतद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकांतः । स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । संबधविशेषेऽपि पित्रेव पुत्रः सन्नप्यतिशयः पृथक्त्वं न निराकरोति । तदेवान्यत्रापि प्रत्यवमर्शाभावनिबंधनमेकसंतत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानवलाच्चैकसंततिरिति व्यक्तमितरेतराश्रयणमेतत् । नच पक्षांतरे समानं स्थितेरनुभवात् । तद्विभ्रमकल्पनायामुत्रादविनाशयोरनाश्वासः । तथानुभवनिर्णयानुपलब्धेयथा स्वलक्षणं परिगीयते तत्रैतत्स्यात् । स्वभावाविनिर्भागेऽपि न संकलन दर्शनक्षणांतरवत् । सत्यमेकांत एवायं दोषः । ततःक्षणिकंकालभेदात् ,दर्शनप्रत्यभिज्ञानसमयोरभेदे तदुभयाभावप्रसंगात् । किंच पक्षद्वयेऽपि ज्ञानासंचारानुषंगात अनेकांतसिद्धिः । अपोद्धारकल्पनया कथंचिज्जात्यंतरेऽपि वस्तुनि प्रत्यभिज्ञानादिमिपंधने स्थित्यादयो व्यवस्थाप्येन् । न च स्वभावभेदोपलंभेऽपि नानात्वविरोधः संकरानवस्थानुषंगः, चेतसि ग्राह्यग्राहकाकारबत् ॥५६॥

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182