Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 127
________________ आप्तमीमांसा । पदार्थो भवति । कुत: ? प्रक्रियाया: स्वरूपादिचतुष्टयलक्षणायाः विपर्ययात्पररूपादिचतुष्टयात् । तस्माद्यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्तु यथा खपुष्पं । तस्मादेतदेवैकस्योपलब्धिर्यदन्यस्यानुपलब्धिरिति ॥ पुनरप्यवक्तव्यवादिनमुपालभते - अष्टशती-भावव्यतिरेकवाचिभिरपि वाक्यतामापन्नर्भावाभिधानात् नात्र किंचिद्विरुद्धं अतः सूक्तं यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पं । अन्यस्य कैवल्यमितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितिर्भावस्य ॥ ४८ ॥ सर्वांताचेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिवेन्मृषवैषा परमार्थविपर्ययात् ॥ ४९ ॥ २७ वृत्तिः- यदि सर्वोताः सर्वधर्मा अवक्तव्या अवाच्यास्तेषां मतानां यदेतद्वचनमुक्तिः "सर्वथा प्रतिक्षणं निरन्वयविनाशिनो निरंशाः सजातीयविजातीयव्यावृत्ता इत्यादिकं” पुनः पुनरावर्तमानं किमर्थं स्यात् । अथ मतं परमार्थे न तद्भवेत्किं तु संवृतिः । यद्यैवं मृषैवैषा व्यलीकंव सा । कुतः ? परमार्थस्य तस्वरूपस्य विपर्ययोऽभावः यतः । संवृतिर्नामोपचारः, न च सा परमार्थमंतरेण भवति ॥ ४९ ॥ अष्टशती - पुनरपि - अवक्तव्यवादिनं पर्यनुयुंज्महे - सर्वधर्मा यदि वाग्गोचरतामतीताः, कथमिमेऽभिलाप्यते इति । संवृत्या इति चेत् ? न विकल्पानुपपत्तेः । स्वरूपेण चेत् ? कथमनभिलाप्याः ? पररूपेण चेत्तेषां स्वरूपं स्यात् केवलं वाचः स्खलनं गम्यते । उभयपक्षेऽप्युभयदोषप्रसंग: । तत्त्वेन चेत् ? कथमवाच्याः । मृषात्वेन चेत् ? कथमुक्ताः तदलमप्रतिष्ठितमिध्याविकल्पोंधैः ॥ ४९॥ अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यतोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटं ॥ ५० ॥ वृत्तिः इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवाच्यं ? आहोस्विदभावात् ? किमज्ञानात् ? विकल्पत्रयं । न तावदशक्यत्वाद्दशनागसहस्रवलवत्त्वाद् बुद्धस्य । नाप्यज्ञानात्सर्वज्ञत्वेन परिकल्पितं यतः । यस्मादाद्युक्तिरादिविकल्पोंऽतोक्तिस्तृतीयविकल्प एतद्वयं न भवेत् । तस्मात्किं व्याजेन छद्मना ! उच्यतां भण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभावमात्रं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ॥ ५० ॥ क्षणिकांतवादिकल्पिता हिंसा पंचभिः कारणैः प्राणप्राणिजनव्याघातचित्ततद्भतचेष्टाप्राणवियोगैर्न, बंधमोक्षादिश्च न घटत इत्याह अष्टशती - अर्थस्यानभिलाप्यत्वं अभावात्, वक्तुरशक्तेः ? - अनवबोधाद्वा प्रकारांतराभावाद्वा ? बुद्धिकरणपाटवापेक्षत्वात् ? न च सर्वत्र तदभावो युक्तः ततो नैरात्म्यान्न विशिष्यते मध्यमपक्षावलंबनात् । अशक्यसमयत्वात् अनभिलाप्यमर्थरूपमिति चेन्न कथंचिच्छक्य संकेतत्वात्, दृश्याविकल्पस्वभावत्वात् परमार्थस्य प्रतिभासभेदेऽपि इत्युक्तं । विषयविषयिणोर्भिन्न कालत्वं प्रत्यक्षेऽपि समानं । अविपरीतविप्रतिपत्तिरन्यत्रापि । दर्शन विकल्पयोः परमार्थैकतानत्वाभावे न किंचित्सिद्धं दृष्टस्यानिर्णयात् अदृष्टकल्पत्वात् । अदृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् ॥ ५० ॥ हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् । बद्ध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥ वृत्तिः -- क्षणिकैकांतवादेऽभिसंधिमत्-मारणाभिप्रायवत् । चित्तं तत्परिकल्पितरूपज्ञानं जीवसदृशं तत्प्रा - fit हिनस्ति न मारयति । यच्च हिनस्ति तदनाभिसंधातृ अनभिप्रायवत् । बध्यते च कर्मणा तद्वयापेतं ॥ ५१ ॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182