Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 126
________________ २६ सनातनजैनग्रंथमालायांअपि तु तेष्वनन्यव्यवहारादेकत्वमुपचरितमिति । व्यलीकव्यवहारेऽपि विशेषानुपपत्तेः संबधनियमाभावस्तदवस्थः । उपचारस्तु नर्ते मुख्यात् यथाग्निर्माणवक इति स्खलति हि तत्रानन्यप्रत्ययः परीक्षाऽक्षमत्वात् । अत एवामुख्यार्थः प्रस्तुतासाधनं ॥ ४४ ॥ चतुष्कोटेर्विकल्पस्य सर्वांतेषक्तययोगतः। तत्त्वान्यत्वमवाच्यं च तयोः संतानतद्वतोः ॥ ४५ ॥ वृत्तिः-यथा सर्वधर्मेषु चतम्नः कोटयो सत्त्वैकत्वादिषु विभागा यस्यासौ चतुष्कोटिर्विकल्पस्तस्य सदसदुभयादिभेदभिन्नस्य विकल्पस्य । उक्तिर्वचनं तस्या अयोगोऽसंभवः ततः । तयोः संतानतद्वतोश्चतुष्कोटेर्विकल्पस्य वचनस्यायोगात्तत्त्वान्यत्वमेकत्वानकत्वमवाच्यं ॥ ४५॥ .. चेदत आह अष्टशती-सत्त्वैकत्वादिषु सर्वधर्मेषु सदसदुभयानुभयचतुष्कोटेरभिधातुमश्यक्यत्वात् संतानतद्वतोरपि भेदाभेदोभयानुभयचतुष्कोटेरनभिलाप्यत्वं । सत्त्वे तदुत्पत्तिविरोधात्-असत्त्वे पुनरुच्छेदपक्षोपक्षिप्तदोषात् । उभयत्रोभयदोषप्रसंगात् । अनुभयपक्षेऽपि विकल्पानुपपत्तिरित्यादि योज्यं ॥ ४५ ॥ अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यतां । असर्वांतमवस्तु स्यादविशेष्यविशेषणं ॥ ४६॥ वत्तिः-तप्रवक्तव्यचतुष्कोटिविकल्पोऽपि यः सोऽपि न कथ्यतां नोच्यतां माभाणीदित्यर्थः । अन्यथा भेदाभेदोभयानुभयस्वरूपेणामिलाप्यत्वे कथंचिदनभिलाप्यत्वं स्यात् । अन्यच्चैवं सति असर्वोतं सर्वविकल्पातीतमवस्तु स्यात् । अविशेष्यविशेषणं स्यात् । विशेष्यत इति विशेषः विशेष्यतेऽनेनेति विशेषेणं तयोरभावात् ॥ ४६॥ ...... अन्यच्च प्रतिषेधोऽपि न घटते, तत्कथमत आह अष्टशती-न हि सर्वथानभिलाप्यत्वेऽनभिलाप्यचतुष्कोटेराभिधेयत्वं युक्तं कथंचिदभिलाप्यत्वप्रसंगात् । अपि चैव सति सर्वविकल्पातीतमवस्त्वेव स्यादन्यत्र वाचोयुक्तेः ॥ ४६ ॥ द्रव्याधंतरभावेन निषेधः संज्ञिनः सतः। असद्भदो न भावस्तु स्थानं विधिनिषेधयोः॥४७॥ .. वत्तिः-द्रव्यमादिर्येषां ते द्रव्यक्षेत्रकालभावास्तेभ्योऽन्यानि द्रव्याद्यतराणि तेषामभावस्तेन परद्रव्यपरक्षेत्रपरकालपरभावस्वरूपेण यः प्रतिषेधः सतो विद्यमानस्य । संझिनो नामवतो भवति । यः पुनरसद्धेदो ऽभावविशेषः परपरिकल्पितो नासौ भावः स्वलक्षणं । विधिनिषेधयोरस्तित्वनास्तित्वयोः । स्थानमास्पदं । कुतः ? सर्वथा तस्य तुच्छत्वात् । तस्माद्भाव एव विधिनिषेधयोरवस्थानं तस्यैव स्वपररूपेणास्तित्वनास्तित्वं ॥ यतः. अशती-द्रव्यक्षेत्रकालभावांतरप्रतिषेधः संज्ञिनः सतः क्रियते न पुनरसतस्तद्विधिप्रतिषेधाविषयत्वात् । नचैतद्विरुद्ध ? स्वलक्षणमनिर्देश्यमित्यादिवत् । अभावोऽनभिलाप्य इत्यपि भावाभिधानादेकांतवृत्तावेव दोषात् । भावाभिधानरपि कथंचिदभावाभिधानात् ॥ ४७ ॥ अवस्त्वनाभिलाप्यं स्यात् सर्वांतः परिवर्जितं । ...... वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८॥ वत्तिः-सातैः सर्वधः । परिवर्जितं विरहितं । सर्वथा - यत्तदनभिलाप्यमवाच्यमवस्तु स्यात् न किंचिदपि भवेत् परपरिकल्पितं । कथं तद्यवस्तुत्वमत आह-वस्त्वेवावस्तुतां याति-अर्थक्रियायाः सर्व एव

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182