Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 140
________________ सनातनजनग्रंथमालायां अष्टशती-बहिरर्थाभावाद् वक्त्रादित्रयं न बुद्धेः पृथक्कृतं ततोऽसिद्धतादिदोषः साधनस्येति तन्न रूपादेहिकस्य तद्व्यतिरिक्तविज्ञानसंतानकालस्य च स्वांशमात्रावलंबिनः प्रमाणस्य विभ्रमकल्पनायां साकल्येनासिद्धिः अंत याभ्युपगमविरोधात् । तौ हि ग्राहकापेक्षया बाह्यार्थी भ्रांतावेव कुतस्तत्र हेयोपादेयविवेकः ८६ बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेाप्त्यनाप्तिषु ॥ ८७ ॥ वृत्तिः बुद्धिश्च शब्दश्च तयोः प्रामाण्यमर्थप्रतिपादकत्वं बाझार्थे सति भवत्यसत्यविद्यमाने च न भवति । सत्यमवितधमनृतं वितथं तयोर्व्यवस्था अर्थस्याप्यनाप्तिषु ग्रहणाग्रहणेषु सत्सु युज्यते नान्यथा । वचनस्य तदा सत्यता भवति यदा बाह्याथै तादृग्भूतं प्रापयति । अन्यथाऽसत्यं ॥ ८७ ।। तस्य बाह्यार्थस्य कथं प्राप्तिर्भवतीति पृष्ट कश्चिदाह दैवादेव, कश्चित्पुनः पौरुषादेवैतत्पक्षद्वयं विघटयन्नाह___अष्टशती-स्वपरप्रतिपत्त्यर्थ साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात् । तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत् । असति प्रमाणाभासत्वं-अर्थानाप्तित इति । तदेवं परमार्थसन् बहिरर्थः साधनदूषणप्रयोगात् । अन्यथा स्वप्नेतराविशेषात् किं किं न साधितं दूषितं चेति कुतः संतानांतरमन्यद्वा । तैमिरिकद्धयावचंद्रदर्शनवत् भांतः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं । अन्यथा बहिरर्थवदभिसंहितस्यापि निराकरणापत्तेस्तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यं-अन्यथा तत्कृतमकृतं स्यादिति सर्वत्र योज्यं । तदिमे विज्ञानसंतानाः संति न संतीति तत्वाप्रतिपत्तेः दृष्टापह्नुतिरनिबंधनैव अदृश्ये नात्मना कथंचिददृश्यानामपि परमाणूनां बहिरपि समवस्थानविप्रतिषेधाभावात् अंतज्ञेयवत् । तत्र पूर्वादिदिग्भागभेदेन षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालंभे स्वपक्षाक्षेपात, कथंचिद्विरोधपरिहारस्य पुनरायाशयतामप्यशक्तेः तत्साक्षात्परंपरया वा विमत्यधिकरणभावापन्नं ज्ञानं स्वरूपव्यतिरिक्तार्थावलंबनं प्रााग्राहकाकारत्वात् संतानांतरसिद्धवत् । न हि व्यापारव्याहारनिर्भासोऽपि विप्लुतो नास्ति तदन्यत्रापि वासनाभेदो गम्यते न संतानांतरं ॥ ८७॥ इत्याप्तमीमांसाभाष्ये सप्तमः परिच्छेदः । दैवादेवार्थसिद्धिश्वेदेवं पौरुषतः कथं ।। दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ।। ८८ ॥ वत्तिः-अर्थस्य कार्यस्य प्रशस्ताप्रशस्तशरीरेंद्रियादेस्तथा ज्ञानसुखादेरज्ञानदुःखादेर्वा सिद्धिनिष्पत्ति. यदि दैवादेव सर्वथा स्यात् तदैवं कर्माख्यं पौरुषान्मनोवाक्कायव्यापारलक्षणाच्छुभाशुभरागादिप्रायात्पुरुषकारात्तर्हि कथं स्यात् । अथ दैवांतरादेव दैवं स्यादित्यत्रोच्यते । दैवतश्चेद्यदि दैवादेव दैवं स्यात्तदानीमनिर्मोक्षोऽसिद्धिः स्यात् । दैवस्य कारणभूतस्य कार्यभूतस्य च सततं संततितो विच्छेदं प्रत्युपायासंभवात्। तदा दानशीलप्रव्रज्यार्थः कृष्याद्यर्थश्च पुरुषकारोऽप्यनर्थः स्यात् ॥ ८८ ॥ . अष्टशती-योग्यतापूर्वकर्मता वा दैवमुभयमदृष्टं, पौरुषं पुनरिह चेष्टितं दृष्ट ताभ्यामर्थसिद्धिः तदन्यतरापायेऽघटनात् । पौरुषमात्रे अर्थादर्शनात् दैवमात्रे वा समीहानर्थक्यप्रसंगात् ॥ ८ ॥ पौरुषादेव सिद्धिश्चेत् पौरुषं देवतः कथं । पौरुषाचेदमोघं स्यात् सर्वप्राणिषु पौरुषं ॥ ८९ ॥ वृत्तिः-अथ पौरुषादेव सिद्धिश्चेत् सर्वथा यदि पौरुषमात्रादेवार्थसिद्धिः स्यात् । तत्पौरुषं दैवाईव

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182