Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 134
________________ .३४ सनातनजैनग्रंथमालायांवृत्तिः-कारणं गुणी सामान्य वस्तु द्रव्यमित्युच्यते, कार्य गुणो विशेषः पर्याय इत्युच्यते, तयोरैक्यमेकेत्वं कुतस्तयोरन्यतिरेकतः द्रव्यपर्याययोरव्यतिरेकोपलंभात् । एतेनास्य हेतोः प्रतिज्ञार्थंकदेशासिद्धत्वं प्रत्युक्तम् । परिणामः-कारणस्यान्यथाभावः वाग्गोचराऽतीतस्तस्य विशेषश्च तस्मात्परिणामविशेषाच्च तयोरैक्यं । शक्तयो विद्यन्ते यस्य तच्छक्तिमत्-द्रव्यं परिणामि । प्रतिनियतकार्यसम्पादनसामर्थ्य विशेषाः शक्तयो यथा घृतादेः स्नेहतर्पणबृहणादयः । तयोर्भावस्तस्मात् तयोरैक्यमिति वेदितव्यं ॥७१॥ . कथंचिद्भेदनिरूपणार्थमाह संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । . प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥ २ ॥ वृत्तिः-संज्ञा नाम, संख्या एकादिका, तयोविशेषो भेदस्तस्मात्तयोर्नानात्वं भेदः । दृश्यते च संज्ञाभेदः ऊढाऽत्र वधूः प्रमदा कामिनी क्रोधवती भामा । द्वित्वादेकत्वं संख्योभेदोऽपि प्रतीतः। स्वमसाधारणं लक्षणं स्वरूपं यस्य स चासौ विशेषस्तस्मात्तयोर्नानात्वं । तथा च द्रव्येणान्यत्प्रयोजनं पर्यायेणान्यत् वृक्षपत्रपुष्पवत् ॥ अपेक्षानपेक्षकांतप्रतिक्षेपार्थमाह अष्टसती-यत्प्रतिभासभेदेऽपि अव्यतिरिक्तं तदेकं यथा वेद्यवेदकज्ञानं रूपादिद्रव्यं वा । तथा च द्रव्यपर्यायौ न व्यतिरिच्यते तदन्यतरापायेऽर्थस्यानुपपत्तेः। उपयोगविशेषाद्रूपादिज्ञाननिर्भासभेदः स्त्र विषयैकत्वं न वै निराकरोति सामिग्रीभेदेऽपि युगपदेकार्थोपनिबद्धविशदेतरज्ञानवत् । तदेवं सति विरोधायुपलंभश्चतुरस्रधियां मनो मनागपि न प्रीणयति । वर्णादेरप्यभावप्रसंगात् एकत्वानकत्वैकांती नान्योऽन्यं विजयेते भावस्वभावप्रतिबंधनात् । यत्परस्परविविक्तस्वभावपरिणामसंज्ञासंख्याप्रयोजनादिकं तद्भिन्नलक्षणं, यथा . भेदादि, तथा च द्रव्यपर्यायौ । विरुद्धधर्माध्यासास्खलद्वद्धिप्रतिभासभेदाभ्यां वस्तुस्वभावभेदसिद्धेः--अन्यथा नानैकं जगत्स्यात् तदभ्युपगमप्रकारांतरासंभवात् ॥ ७१ ॥ ७२ ॥ इत्याप्तमीमांसाभाष्ये चतुर्थः परिच्छेदः : ---- यद्यापेक्षिकसिद्धिः स्यान द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्य विशेषता ॥ ७ ॥ वृत्तिः-अपेक्षैव प्रयोजनमेषामर्थानां सिद्धिनिष्पत्तिनिश्चितिर्वा । अथवाऽऽपेक्षिकी चासौ सिद्धिश्च सा यदि स्यात् । कार्यकारणादि युगपवयं न व्यवतिष्ठते न घटते । एकेनैकस्य प्रतिहतत्वात् । यदि पुनरनापेक्षिकसिद्धिस्तस्यामभ्युपगम्यमानायां सामान्यं च विशेषश्च तयोर्भावः सामान्यविशेषता सा न स्यात्न भवेत् । तस्मात्स्वरूपेण स्वत एव सिद्धन भवितव्यं । धर्मिधर्मभावश्च परस्परापेक्षः ।। ७३ ॥ उभयैकांतं दर्शयन्नाह अष्टशती-कारिकाद्वयेन सामान्यविशेषात्मानमर्थ संहृत्य तत्रापेक्षानपेक्षकांतप्रतिक्षेपायाह___ तयोरन्योन्योपक्षकांते स्वभावतः प्रतिष्ठितस्यैकतरस्याप्यभावेनान्यतराभावात् उभयं न प्रकल्पेत । दूरासन्नभावयोरपि स्वभावविर्वतविशेषाभावे समानदेशादेरप्यभावप्रसंगात् । तदिमौ स्वभावतः स्त। अन्यथेतरेतराश्रयदोषानुषंगादनपेक्षापक्षेपि · नान्वयव्यतिरेको स्याता, भेदाभेदयोरन्योन्यापेक्षात्मकत्वात् विशेषेतरभावस्य ॥ ७३ ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182