Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 128
________________ २८ सनातनजैनग्रंथमालायांतद्वचनविरोधं दर्शयति-- अष्टशती-संतानादेरयोगात्, इति कर्तव्यतासु चिकीर्षोर्विनाशात् कर्तुरचिकीर्षत्वात् तदुभयविनिर्मुक्तस्य बंधात तंदविनिर्मुक्तेश्च, यमनियमादेरभिधेयत्वं कुर्वतो वा यत्किंचनकारित्वं ॥५१॥ अहेतुकत्वान्नाशस्य हिंसाहेतुने हिंसकः। चित्तसंततिनाशश्च मोक्षो नाष्टांगहेतुकः ॥ ५२ ॥ वत्तिः-यो हिंसाया हेतुनिर्मितं नासौ हिंसकः प्राणवियोजकः कुतोऽहेतुकत्वान्नाशस्य । यदेतत्प्राणिनो मरणनिमित्तं यच्च मोक्षस्तैरभ्युपगतः चित्तानां रूपविज्ञानक्षणानां संततिनैरंतर्य तस्य नाशः क्षयः प्रदीपनिर्वाणरूपो वा । अष्ट अंगान्यवयवा यस्य स हेतुर्यस्यासौ अष्टांगहेतुकः । कानि तान्यष्टांगानि सम्यक्त्वसंज्ञा-संज्ञि-वाक्कायकर्म-अंतर्व्यायाम-स्मृति-समाधिलक्षणानि । सोऽपि न स्यात् । कुतः स्वत एव-हेतुमंतरेणाभ्युपगतत्वात् ॥ ५२॥ अथ मतं स्वभावविनाशार्थ न निमित्तमस्माभिरिष्यते, किं तु विभागार्थमित्यत आह अष्टशती-अहेतुं विनाशमभ्युपगम्य कस्य चिद् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ! तथा निर्वाणं संतानसमूलप्रहरणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाक्कायकर्मीतायामजीवस्मृतिसमाधिलक्षणाष्टांगहेतुकं ! तदन्यो ऽन्यं विप्रतिषेधात् ॥ ५२॥ विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३॥ वृत्ति-विरूपकार्य विभागसन्तानः कपालादिस्तस्यारम्भस्तस्मै विरूपकार्यारंभाय । यदि हेतोः समागमः कारणापेक्षणं । त_सौ विरूपकार्यारम्भ आश्रयिभ्यामुत्पादविनाशाभ्यामनन्योऽभिन्नः । कुतः? अविशेषादभेदात् । अविशेषेणाभेदोनोपलब्धिराश्रयिभ्यो यतः । अयुक्तवत् यथा ग्राह्यग्राहकाकारा सहायुतसिद्धिः ।। चित्तविशेषरूपरसादिबद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूषणमभाणि । साम्प्रतं तु तेषामुत्पादादीनामसभवमेव दर्शयन्नाह __ अष्टसती-विसभागसंतामोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय पूर्वस्य स्वरसनिवृत्तेः इति चेत् ? स पुनरुत्तरोत्पादः स्वरसतः किं न स्यात् विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनंतरभावित्वात् तेन व्यपदिश्यते ! इति चेत् इतरत्र समानं | परमार्थस्तदहेतुकत्वं, प्रतिपत्रभिप्रायाविशेषेऽपि स्वतः प्रहाणवादी न शक्नोत्यात्मानं न्यायमार्गमनुकारयितुं सर्वदा विरूपकार्यत्वात् । सभागविसभागावक्लूप्तिं प्रतिपत्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् । नच समनंतरक्षणयोर्नाशोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां । प्रत्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत् स्वभावप्रतिबंधात् संज्ञाछंदमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा कार्यरूपादेवि कारणं । तस्मात्कायकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न तस्य किंचिद्भवति । न भवत्येव केवलमिति चेत् भवत्येव फेवलमिति समानं । तस्मादयं विनाशहेतुर्भावमभावीकरोति न पुनरकिंचित्करः, कार्योत्पत्तिहेतुर्वा, यद्यभावं न भावी कुर्यात भावं करोतीति कृतस्य करणायोगात्-अकिंचित्करः । तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी ॥ ५३ ॥ स्कंधाः संततयश्चैव सवृतित्वादसंस्कृताः। स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ ५४॥ १ तस्य बद्धस्य अविनिर्मुक्तरित्यर्थः ।

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182