Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 125
________________ ... आप्तमीमांसा। २५ अष्टशती-कथंचित् सतः कार्यत्वं-उपादानस्योत्तरीभवनात् सदपि विरुद्धधर्माध्यासानिराकृतेः । तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबंधनायाः किं फलमपलापेन । तदन्यतरनिराकृतावुभयनिराकृतिःअभेदात् । तन्नासत्कार्य सर्वथानुत्पादप्रसंगात् खपुष्पवत् । न तादृशकारणवत् सर्वथाऽभूतत्वात् बंध्यासुतवत् । कथंचिदस्थितानुत्पन्नत्वादिति योज्यं । सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्तिंडस्थासकोशकुशूलादिषु सकललोकसाक्षिक, स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलंभानवधारणावक्लप्तिमारचयतां मोपादाननियामोऽभूत्कारणांतरवत् तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्यात्। निरन्वयस्यापि तादृशी प्रकृतिरात्मानं कारणांतरेभ्यो यया विशेषयतीति चेत् ? न अत्यंतविशेषानुपलब्धेः । तदविशेषादर्शने सर्वथा साध्यं स्यात् । तस्मात् इयमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थितिं प्रतिक्षणं विभर्ति यतोऽयमुपादाननियमः सिद्धः । अथापि कथंचिदुपादाननियमः कल्प्येत कार्यजन्मनि कथमाश्वासः ? तदत्यंतासतः-कार्यस्योत्पत्तेः तंतुभ्यः पटादिरेव न घटादिरिति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्पनायामनुपादानेऽपि स्यात् । तथादर्शनमहेतुरत्रैव विचारात् कथंचिदाहितविशेषतंतूनां पटस्वभावप्रतिलंभोपलंभात् । तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतरलमपलापेन । तस्मादुभयलक्षणप्राप्तानुपलब्धिरन्वयस्यैव न पुनरुभयरूपस्येत्यलं प्रसंगेन ॥ ४२ ॥ न हेतुफलभावादिरन्यभावादनन्वयात् । संतानांतरवकः संतानस्तद्वतः पृथक् ॥ ४३ ॥ वृत्ति:-क्षणिकैकांतपक्षे हेतुः-कारणं । फलं-कार्य तयोर्भावोऽस्तित्वं स आदिर्यस्य स हेतुफलभावादिरुपादानोपादेयस्वरूपं कार्यकारणभावो वाच्यवाचकभावश्च न स्यात् । कुतः ? अन्यभावादत्यंतपृथक्त्वात् । तदपि कुतः ? अनन्वयादेकस्य पूर्वापरावस्थाऽभावात् । तथा संतानांतरे प्रस्तुतसतानादन्यः सतानः संतानांतरं तस्मिन्यथा न संभवति कार्यकारणभावः मृत्पिण्डात्पेटइव । अभ्युपगम्यैतदुक्तं परमार्थतस्तु संतानिभ्यो मिनेभ्यः पृथग्भूतेषु, ततो न कश्चिदेकः संतानोऽनुगतैकाकारः । अन्यानन्यभावाभ्या निराकृतत्वात् । तस्मान्न संतानो नापि संतानिन इति ॥ ४३ ॥ पुनरपि तस्य दूषणमाह अष्टशती-विलक्षणानामत्यंतभेदेपि स्वभावतः किलासंकीर्णाः संततयः कर्मफलसबंधादिनिबंधनं शश. विषाणस्येव वर्तुलत्वमारचितं कश्चेतनः श्रद्दधीत ? ।। ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिने मृषा कयं । मुख्यार्थः संवृतिर्नास्ति विना मुख्यान संवृतिः ॥ ४४ ॥ वृत्तिः-मत्यं संतानिभ्यो व्यतिरिक्तः संतानो नास्ति किं तु अन्येषु पृथग्भूतेषु योऽयमनन्यशब्दोऽनन्यबुद्धिश्च संतानः सा संवृतिरुपचारः । यद्येवं कथं सा न मृषा व्यलीका भवेत् । न च मुख्यार्थः संवृतिरस्ति तस्यास्तुच्छरूपत्वात् । संवृतिस्तूपचारः । न च मुख्यार्थमंतरेण संवृतिः, सति मुख्यार्थे तस्याः संभवो यथा सिंहोऽयं माणवकः, सति मुख्यसिंहे माणवके सिंहकल्पना । न चैवं संवृतेरस्ति मुख्यार्थ इति ॥ ४४ ।। अथैवं परिकल्प्यतेअष्टशती-संतानिभ्योऽनन्यः संतानः अन्यथा आत्मनो नामांतरकरणात्-नित्यानित्यविकल्पानुपत्तेः । १ पूर्वापरभावात् पाठोऽयं लिखितपुस्तके । २ मृपिंडाट इव पाठो मुद्रितपुस्तके । ३ तस्याः शब्द स्वतत पाठोयं लिखित पुस्तके ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182