Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा।
२३
वृत्तिः-प्रमाणानि प्रत्यक्षादीनि । कर्तृकर्मकरणसंप्रदानापादानाधिकरणानि कारकाणि तैय॑क्तं प्रकाशिवं व्यंजितं कृतं । व्यक्तं महदादि । यथेंद्रियैश्चक्षुरादिभिर्थो विषयः । चेद्यद्येवं । ते च व्यंग्यव्यंजके नित्ये अविचलितकरूपे । किं विकार्य यावता हि न किंचिदपि । तव साधोर्मुनेः शासनात् प्रवचनात् । बहिरंतेष्वयमेव हि विकारो यो वस्तुन्यन्यथाभावो व्यक्तिरप्यन्यथाभावः अव्यक्तान्य तमन्यत् । तव शासने पुनः सर्व सुघटम् ।
पुनरपि कदर्थयितुमाह
अष्टशती-अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यंजयंति । चक्षुरादिवत्स्वार्थं ततो न किंचिद्धिप्रतिषिद्धं । विषयविशेषविज्ञानादेः शाश्वतत्वान किंचिद् व्यक्तार्थे पश्यामः । कथंचिदपूर्वोत्पत्ती तदेकांतविरोधात् तदभावविका-नुपपत्तेः । न किंचिद्विरुद्ध कार्यकारणभावाभ्युपगमात् इत्यनालोचितसिद्धांतः॥
यदि सत्सर्वथा कार्य पुंवनोत्पत्तुमर्हति ।
परिणामप्रक्लूप्तिश्च नित्यत्वकांतबाधिनी ॥ ३९॥ वृत्तिः-असत्किंचिदपि नोपपद्यते सर्व सर्वत्र सर्वस्मादत आह । यदि सर्वथा विश्वप्रकारैर्यथा शक्त्यात्मना एवं व्यक्तात्मनापि कार्य घटादिकं सत् विद्यमानं पुमानिव पुंवत् सांख्यपरिकल्पितपुरुषवत् । नोत्पत्तुं नो प्रादुर्भवितुमर्हति योग्यं भवति । यद्यत्सर्वथा सत् न तदुत्पद्यते यथा सांख्यपुरुषः सच्च सर्वथा कार्य तस्मान्नोत्पद्यते। अथ व्यवस्था तस्य द्रव्यस्य धर्मोतरत्यागैर्धर्मातरोपजनितः परिणाम इष्यते ? अत आह परिणामस्य प्रक्लृप्तिः कल्पना समर्थन च सर्वस्य नित्यत्वमिति योऽयमेकांतस्तस्य बाधिनी निराकरणशीला विरोधिनी इत्यर्थः ।
अतो बन्धमोक्षादिकमत्र न संभवति नित्यत्वात्प्रकृतिपुरुषयोस्तव मते पुनः संभवतीत्याह
अष्टशती-न तावत्सतः कार्यत्वं चैतन्यवत् । नाप्यसतः सिद्धांतविरोधात् गगनवकुसुमवत् । नापरमेकांतप्रकारांतरमस्ति । विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् । तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधात् इत्यनेकांतोक्तिरंधसर्पविलप्रवेशन्यायमनुसरति ॥ ३९ ॥
पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः।
बंधमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥ ४० ॥ वृत्तिः--मैत्रीप्रमोदकरुणादिक्रियाऽभावे कुतः पुण्यहतुत्वात् पुण्यं । हिंसादिरशुभपरिणामः पापहेतुत्वात्पापं । तयोः क्रिया क्षयोपार्जनं न स्यान्न भवेत् अत एव क्रियाऽभावे कुतः प्रेत्यभावः ! जन्मांतरफलं च सुखदुःखादिरूपं कुतः? बंधः कर्मणाऽस्वतंत्रीकरणं मोक्षः स्वात्मोपलब्धिः एतौ च द्वौ तेषां न येषां त्वं नासि-न भवसि नायकः प्रभुः ? किमुक्तं भवति एतत्सर्वं त्वच्छासन एव नान्येषां नित्यत्ववादिनां कुतः ! विक्रियाऽभावात् ॥
__ न केवलं नित्यैकांत एतेषामभावः किंतु
अष्टशती-नैतत्प्रेक्षापूर्वकारिभिराश्रयणीयं पुण्यपापप्रेत्यभावबंधमोक्षविकल्परहितत्वात् नैरात्म्यादिवत् । न चैतत्क्वचिदेकांते संभवति ॥ ४० ॥
क्षणिकैकांतपक्षेऽपि प्रेत्यभावायसंभवः ।
प्रत्यभिज्ञायभावान कार्यारंभः कुतः फलं ॥४१॥ . वृत्ति:-क्षणिको निरन्वयविनाशः स एवैकांतपक्षस्तस्मिन्नपि प्रेत्यभावादीनां जन्मांतरादीनामसंभवो ऽभावः । प्रत्यभिज्ञा स एवायमिति ज्ञानं सा आदिर्येषां ते प्रत्यभिज्ञादयस्तेषामभावस्तस्मान्न कार्यारंभ ओ

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182