Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा । विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकातेऽप्युक्ति वाच्य मति युज्यते ॥३२॥ वृत्तिः-अथ मतं यद्यकैके दोष उभयकात्म्यमेषितव्यमिति दूषणमाह । एकत्वपृथक्त्वपरप्रत्यनीकस्वभावद्वयसम्भवोऽपि न संभवति अस्तित्वनास्तित्ववत् प्रतिषेधात् । एकेनैकस्य निराकृतत्वात् । अथा- . वाच्यमिष्यते तदपि न । अवाच्यत्वे येयमुक्तिः साऽपि न संभवति मिथ्यादृशां ।
सामान्यविशेषौ परस्परानपेक्षावन्याभ्युपगतौ निरस्य तो सापेक्षा सतावर्थक्रियां कुरुत इत्यस्यार्थस्य प्रतिपादनार्थमाह
अष्टशती-अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरप्रत्यनीकस्वभावद्वयसंभवोऽपि माभूत विप्रतिषेधात् । न खलु सर्वात्मना विरुद्वधर्माध्यासोस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद्, बंध्यासुतवत् | सर्वथानभिलाप्यतत्त्वाभ्युपगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तद्व्याहन्येत ॥ ३२ ॥
अनपेसे पृथक्त्वैक्य वस्तु द्वयहेतुतः।
तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥३३॥ वृत्तिः-परस्परानपेक्षे पृथक्त्वैक्ये सामान्यविशेषाववस्तु अर्थक्रियाकारि न भवति द्वयहेतोाभ्यां । कथं ? यद्यद्विशेषशून्यं तत्तन्नास्ति यथा खरविषाणं सामान्यं च तथा परपरिकल्पितं । तस्मान्नास्ति विशेषः सामान्यशून्यत्वात् । स्वरविषाणविशेषवत् । इत्यनेन हेतुद्वयेन सामान्यविशेषयोरवस्तुत्वं साधनीयं । तदेव वस्तु ऐक्यं-सामान्य-विशेषश्च पृथक्त्वं च द्वयात्मकं । कुतः ? अविरोधात् । यथा साधनं हेतुबानं वाक्यं वा स्वभेदैः स्वधर्मः पक्षधर्मान्वयव्यतिरेकादिभिर्भिनमेकं भवति ।
ननु तदेवैक्यं पृथक्त्वं च कथं ? यावता विरुद्धमेतत् ,
अष्टशती-एकत्वपृथक्त्वेऽनेकांततः स्तः प्रत्यक्षादिविरोधात् इति स्पष्टयति-पृथक्त्वकत्वे तथाभूते न स्तां-एकत्वपृथक्त्वरहितत्वाद् व्योमकुसुमादिवत् । सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्धं सपक्षविपक्षयोर्भावाभावाभ्यां साधनवत् । स्वभेदैर्वा संवेदनवत् । सारंभकावयवैर्वा घटादिवत् । तादृशं हि साधनं स्वार्थक्रियायास्तदंतरेणापि पाठांतरमिदं बहुसंगृहीतं भवति ॥ ३३ ॥
सत्सामान्यात्तु सर्वैक्यं पृथक द्रव्यादिभेदतः।
भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ त्तिः-सतोऽस्तित्वस्य सामान्यं यत्तत्तथा तस्माच्च सर्वस्यैक्यमेव । द्रव्यादिभेदैद्रव्यपर्यायगुणादिभेदैरथवा द्रव्यक्षेत्रकालभावभिन्नं पृथक्त्वादेव । भेदश्चाभेदश्च तयोविवक्षायां क्रियमाणायामसाधारणहेतुः श्रावणत्वप्राणादिमत्त्वादिस्तद्वत् । यद्यप्यत्रान्वयो नास्ति तथाप्यन्यथानुपपत्तिवलेन सिद्धमिति ॥ ३४ ॥
केषांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यव विवक्षा अन्येषां वैयाकरणानां विद्यमानस्यैव विवक्षा नाविद्यमानस्य, अन्येषां विवक्षा नास्त त्येतन्मतनिराकरणायाह___ अष्टशती-सर्वार्थानां समानपरिणामेऽपि कथमैक्यं भेदानां स्वभावसांकानुपपत्तेः । यथैकभेदस्य स्वभावविच्छेदाभावात् । अन्यथैकं सदन्यदसत्स्यात् ? तत्समंजसं सर्वमकं सदविशेषात इति । तस्यैव सतो द्रव्यादिभेदात् पृथक्त्वं । उदाहरणं पूर्ववत् ॥ ३४ ॥
१ अभिन्नभ्येत्यर्थः।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182