Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 120
________________ सनातनजैनप्रथमालायांसदात्मना च भिन्नं चेत् ज्ञानं ज्ञेयाद्विधाऽप्यसत् । झामाभावे कथं ज्ञेयं बहिरंतश्च ते द्विषां ॥ ३० ॥ वृत्तिः-तथा चैतन्यस्वरूपेण ज्ञेयात्प्रमेयात् ज्ञानमवबोधो भिन्नमन्यच्चेददि सदात्मना चास्तित्वरूपेणापि पृथक् स्यात् । द्वेधाऽपि ज्ञान ज्ञेयं चासत्स्यात्। अभावः स्यात् । कुतः ? ज्ञानाभावे बोधशून्ये कथं ज्ञेयम् । बहिर्बाह्यं । अन्तः अतरङ्गं च । ते द्विषां तुभ्यं द्विषतां मिथ्यादृशाम् । यस्माज्ज्ञाने सति 'ज्ञेयं विषयत्वात्। ज्ञेये सति ज्ञानं च भवति तत्परिच्छेदकत्वात् । तस्मात् ज्ञानं कथंचिदभिन्नमेषितव्यं सदाद्यात्मनाऽन्यथाऽवस्तु स्यात् । सार्थविशेषस्य वाच्यवाचकतेष्यते तस्य पूर्वमदृष्टत्वात्सामान्यं वपदिश्यते शब्दरित्यभिप्रायवतो मतमाश्रित्य तत्कदर्थयितुमाह ___ अष्टशती-विषयिणो विषयात्कथंचित्स्वभावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकारात्, विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरंतर्वा ज्ञेयमेव न स्यात् तदपेक्षत्वात् ॥ ३० ॥ सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१॥ वृत्तिः-अथ मतं सामान्यमस्माभिरिष्यते किंतु शब्दगोचरत्वादवस्तु, अत आह । सामान्य विकल्पेनेष्टोऽर्थो वाच्यो यासां ताः सामान्यार्थाः । गिरो वाचः। अन्येषां मिथ्यादृशां । यतस्ताभिर्विशेषो याथात्म्यं स्वलक्षणं नामिलप्यते । यद्येवं सामान्य तेषामवस्तु अतस्तस्याभावात्सकलाः समस्ता गिरो वचनानि मृङ्गवासत्यरूपा एव अतो न वाच्यं नापि वाचकोऽनुमानाभावः ॥ ३१ ॥ उभयकांतं निराकर्तुकामः प्राह__ अष्टशती-विशेषाणामशक्यसमयत्वात्-असंकेतितानभिधानात् विशेषदर्शनवत्तबुद्धावप्रतिभासनात् अर्थसंनिधानानपेक्षणाच्च, स्वलक्षणमनभिधेयं सामान्यमस्तु? उच्यत इति वस्तु नोच्यत इति स्यात्। ततः किं शब्दोच्चारणेन संकेतन वा? गोशब्दोऽपि हि गां नाभिवत्त यथाश्वशब्दः। तथाच मौनं यत्किंचिद्वा वचनमारत् विशेषाभावात् । अस्ति विशेषः कथं स्वार्थ नाभिदधीत न वै परमार्थंकतानत्वात् अभिधाननियमः किंतूपादानविशेषात् ! इत्यपि वा अविकल्पेऽपि तथैव प्रसंगात् । तदेवमनवधारितात्मकं वस्तुस्त्रलक्षणमापन पद्येत । नावश्यामंद्रियज्ञानं-अर्थसंनिधानमपेक्षते विप्लवाभावप्रसंगात् । नापि विशादात्मकमेव दूरेऽपि तथाप्रतिभासप्रसंगात् । यथारात् । क्षणभंगादिसाधनवचनमन्यद्वा न किंचित्सत्यं वक्तुरभिप्रेतमात्र सूचितत्वात् । प्रधानेश्वरादिसाधनवाक्यवत् । सदाप्रतिपादनाद्वा प्रसिद्धालीकवचनवत् । दृश्यविकल्पा कारयोः कथंचिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचतोधर्मादिक्षणवत कथं संशीति. मतिवर्तेत । विकल्पानां चावस्तुविषयत्वादविकल्पेतरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलंबिना विकल्पांतरेण प्रत्यतीति सुपरिबोधप्रज्ञो देवानांप्रियः । स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि विकल्पः स्यात् । परतश्चेत् अनवस्थानादप्रति गत्तिः । अतोऽर्थविकल्पोऽपि माभूत इत्यंवकल्पं जगत्स्यात् । नचायं परोक्षबुद्धिवादमतिशते स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थ व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्यति निर्विषयत्वादिभ्रांतेः । इदमतो-भ्रांततरं बहिरंतश्च सद्भावासिद्धः। स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतं ॥ ३१ ॥ १ज्ञयं भवतीत्यर्थः । २ ताथागतमते स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयं चानुमानं ततश्च सामान्याभावे ऽनुमानाभावः स्यादेत्येतदर्थः ।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182