________________
सनातनजैनप्रथमालायांसदात्मना च भिन्नं चेत् ज्ञानं ज्ञेयाद्विधाऽप्यसत् ।
झामाभावे कथं ज्ञेयं बहिरंतश्च ते द्विषां ॥ ३० ॥ वृत्तिः-तथा चैतन्यस्वरूपेण ज्ञेयात्प्रमेयात् ज्ञानमवबोधो भिन्नमन्यच्चेददि सदात्मना चास्तित्वरूपेणापि पृथक् स्यात् । द्वेधाऽपि ज्ञान ज्ञेयं चासत्स्यात्। अभावः स्यात् । कुतः ? ज्ञानाभावे बोधशून्ये कथं ज्ञेयम् । बहिर्बाह्यं । अन्तः अतरङ्गं च । ते द्विषां तुभ्यं द्विषतां मिथ्यादृशाम् । यस्माज्ज्ञाने सति 'ज्ञेयं विषयत्वात्। ज्ञेये सति ज्ञानं च भवति तत्परिच्छेदकत्वात् । तस्मात् ज्ञानं कथंचिदभिन्नमेषितव्यं सदाद्यात्मनाऽन्यथाऽवस्तु स्यात् ।
सार्थविशेषस्य वाच्यवाचकतेष्यते तस्य पूर्वमदृष्टत्वात्सामान्यं वपदिश्यते शब्दरित्यभिप्रायवतो मतमाश्रित्य तत्कदर्थयितुमाह
___ अष्टशती-विषयिणो विषयात्कथंचित्स्वभावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकारात्, विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरंतर्वा ज्ञेयमेव न स्यात् तदपेक्षत्वात् ॥ ३० ॥
सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते ।
सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१॥ वृत्तिः-अथ मतं सामान्यमस्माभिरिष्यते किंतु शब्दगोचरत्वादवस्तु, अत आह । सामान्य विकल्पेनेष्टोऽर्थो वाच्यो यासां ताः सामान्यार्थाः । गिरो वाचः। अन्येषां मिथ्यादृशां । यतस्ताभिर्विशेषो याथात्म्यं स्वलक्षणं नामिलप्यते । यद्येवं सामान्य तेषामवस्तु अतस्तस्याभावात्सकलाः समस्ता गिरो वचनानि मृङ्गवासत्यरूपा एव अतो न वाच्यं नापि वाचकोऽनुमानाभावः ॥ ३१ ॥ उभयकांतं निराकर्तुकामः प्राह__ अष्टशती-विशेषाणामशक्यसमयत्वात्-असंकेतितानभिधानात् विशेषदर्शनवत्तबुद्धावप्रतिभासनात् अर्थसंनिधानानपेक्षणाच्च, स्वलक्षणमनभिधेयं सामान्यमस्तु? उच्यत इति वस्तु नोच्यत इति स्यात्। ततः किं शब्दोच्चारणेन संकेतन वा? गोशब्दोऽपि हि गां नाभिवत्त यथाश्वशब्दः। तथाच मौनं यत्किंचिद्वा वचनमारत् विशेषाभावात् । अस्ति विशेषः कथं स्वार्थ नाभिदधीत न वै परमार्थंकतानत्वात् अभिधाननियमः किंतूपादानविशेषात् ! इत्यपि वा अविकल्पेऽपि तथैव प्रसंगात् । तदेवमनवधारितात्मकं वस्तुस्त्रलक्षणमापन पद्येत । नावश्यामंद्रियज्ञानं-अर्थसंनिधानमपेक्षते विप्लवाभावप्रसंगात् । नापि विशादात्मकमेव दूरेऽपि तथाप्रतिभासप्रसंगात् । यथारात् । क्षणभंगादिसाधनवचनमन्यद्वा न किंचित्सत्यं वक्तुरभिप्रेतमात्र सूचितत्वात् । प्रधानेश्वरादिसाधनवाक्यवत् । सदाप्रतिपादनाद्वा प्रसिद्धालीकवचनवत् । दृश्यविकल्पा
कारयोः कथंचिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचतोधर्मादिक्षणवत कथं संशीति. मतिवर्तेत । विकल्पानां चावस्तुविषयत्वादविकल्पेतरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलंबिना विकल्पांतरेण प्रत्यतीति सुपरिबोधप्रज्ञो देवानांप्रियः । स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि विकल्पः स्यात् । परतश्चेत् अनवस्थानादप्रति गत्तिः । अतोऽर्थविकल्पोऽपि माभूत इत्यंवकल्पं जगत्स्यात् । नचायं परोक्षबुद्धिवादमतिशते स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थ व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्यति निर्विषयत्वादिभ्रांतेः । इदमतो-भ्रांततरं बहिरंतश्च सद्भावासिद्धः। स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतं ॥ ३१ ॥ १ज्ञयं भवतीत्यर्थः ।
२ ताथागतमते स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयं चानुमानं ततश्च सामान्याभावे ऽनुमानाभावः स्यादेत्येतदर्थः ।