________________
आप्तमीमांसा ।
अधुना सर्वथा सर्वपदार्थ पृथक्त्वैकांत वादिवैशेषिकादिमतकदर्थनार्थमाह
अष्टशती-अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षः नञ्पूर्वखंडपदत्वात् अहेत्वभिधानवत् । नात्र किंचिदतिप्रसज्यते तादृशो नञो वस्तुप्रतिषेधनिबंधनत्वात् । सर्वत्र प्रतिषेध्यादृते संज्ञिनः प्रतिषेधाभावः प्रत्येतव्यः ॥ २७ ॥
इष्टमद्वैतैकांतापवारणं पृथक्त्वैकां तांगीकरणात् इति मावदीधरत् । पृथक्त्वकांक्षेऽपि पृथत्वादपृथक्कृतौ ।
१९
पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥ २८ ॥
वृत्तिः - यद्यप्यद्वैतैकतिपक्षे दोषभयात् पृथक्त्वमित्येकांतपक्षोऽभ्युपगम्यते तथापि पृथग्गुणात्तापृथग्भूतावभ्युपगन्तव्यौ गुणगुण्यादी । अन्यथा तस्मादपि यदि तौ पृथक भिन्नौ स्यातां तदानीं पृथक्त्वाख्यगुणो न स्यात् ? कुतः । यतोऽनेकस्थो ह्यसौ गुणों दृष्ट इत्यर्थः न च तयोः पृथक्त्वगुणः पृथग्गतिः सर्वेषामभावः स्यात् । तस्मात् भेदपक्षोऽपि न श्रेयान् ॥
इदानीं पृथक्त्वैकांतवादिविशेषमायासु क्षणिकत्वकांत कदर्थनार्थमाह
अष्टशती - पृथग्भूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेषामपृथक्त्वप्रसंगात् । तद्गुणगुणिनोरतादात्म्ये घटपटवद् व्यपदेशोऽपि माभूत् संबंधनिबंधांतराभावात् । पृथक्त्वमन्यद्वा पृथग्भूतमनंशं - अनेकस्थेषु नि पर्यायं वर्तते इति दुरवगाहं ॥ २८ ॥
संतानः समुदायश्च साधर्म्य च निरंकुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वानिहवे ॥ २९ ॥
वृत्तिः - एकत्वस्य सादृश्यस्य कथंचित्तादात्म्यस्य । निवोऽपहनुतिर्निराकरणम् । अथवा एकशब्दो द्रव्यवचनोऽयं ततः स्वार्थिकस्त्वप्रत्ययः तस्मिन्नेकत्वनिहवे । क्रमभाविनां कारणतद्वतामालीनकमन्दकमधुरकादीनां गोरसजातिमजहतामुत्तरोत्तरपरिणामप्रवाहः संतानो न स्यान्न भवेत् । तथा रूपरसादीनां धर्माणां सहभुवां नियमतो युगपदुत्पादव्ययभाजामेकस्मिन्नवस्थानं समुदयो न स्यात् यद्यनेकांतात्मकं द्रव्यं न स्यात् । तथा शब्दघटादीनां साधर्म्य च न स्यात् । मृत्वाऽमुत्र प्राणिन: . प्रादुर्भावः प्रेत्यभावः सोऽपि न स्यात् । निरंकुशो निर्बाधोऽस्खलितरूपः सर्वत्र सबंधनीयः । चशब्देनप्रत्यभिज्ञानादयोऽपि न स्युः । तदेतत्सर्वं न स्यादिति समुदायन निर्देशात् यथायोग्यं सबंधो भवति । .. सोमान्य निर्देशान्नपुंसकलिंगता ।
पुनरपि भेदैकांते दूषणमाह
अष्टशती - कार्यकारणयोः पृथक्त्वैकांते कार्यकालमात्मानमनयतः कारणत्वाऽसंभवात्तदनुत्पत्तेः कुतः - संततिः ? पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः संतानः क्वचित्क्षणांतरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत् कथंचिदेकत्वमेव भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चित्रनिर्भासो माभात् । पृथगवर्णातर विषयानेकसंतानेकक्षणवत् तत्र प्रत्यासत्तिविशेषः कथंचिदैक्यात् कोऽपरः स्यात् ? अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकांत प्रसंगात । स्वभावभेदेऽपि सहोपलंभनियमात्कथंचिदभेदाभ्युपगमे कथंमेकसंतानसंविदां समनंतरे।पलंभनियमात्कथंचिद्वैक्यं न स्यात् । तत्र यथा प्रत्यासत्या संतानः समुदायश्च तथैव कथंचिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसांकार्यात् । एकज्ञाननिर्भासविशेशणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनंकुशः - तथा प्रेत्यभावादिषु संतानान्वयः परमार्थैकत्वमात्मसस्त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति ॥ २९ ॥
१ अभिमतमद्वैतैकांत प्रतिषेधः इत्यर्थः ।
२. सर्वमित्यत्रेत्यर्थः । ३ । मा भूदिति ख. पुस्तके पाठः ।