________________
सनातनजैनग्रंथमालायांअद्वैतकांतपक्षेऽपि दृष्टो भेदो विरुध्यते ।
कारकाणां कियायाश्च नैकं स्वस्मात्मजायते ॥ २४ ॥ वृत्तिः-अद्वैतमेवेत्येकांतोऽसद्ग्रहः स एव पक्षो जिज्ञासितविशेषो धर्मी तस्मिन्नपि दृष्टो भेदः प्रत्यक्षप्रमाणपरिच्छिन्नं नानात्वं लोकप्रसिद्धं वा । विरुध्यते मिथ्या भवेत् । कारकाणि कादीनि क्रिया आकुंचनादिका पाकादिका वा एतेषां परस्परेण "इयं क्रिया इमानि कारकाणि इदं कर्तृकारकमिदं कर्मेत्यादि । इयं दहनक्रिया इयं पचनक्रियेत्यादि । चशब्दादिदं प्रमाणमिदं परिच्छेद्यं वस्तु ” इति भेदो न स्यात् । कुतः ? नेति एकांतप्रतिषेधवचनम् । एकमसहायम् स्वस्मादात्मनः। प्रजायत उत्पद्यते ॥ २४॥
तथैवमपि
अष्टशती-सदाद्यकांतेषु दोषोद्भावनमाभिहितं । अद्वैतैकांताभ्युपगमात् न तावतानेकांतसिद्धिरिति चेत् ! न प्रत्यक्षादिविरोधात्। न हि कस्यचिदभ्युपगममात्रं प्रमाणसिद्ध क्रियाकारकभेदं प्रतिरुणद्धि क्षपिकाभ्युपगमवत् । न स्वतो जायते परतो वा अपि तु सुषुप्तायते प्रतिपत्त्युपायाभावात् । तस्मात् यदृष्टविरुद्धं तन्न समंजसं । यथा नैरात्म्यं । विरुद्धयते च तथाऽद्वैतं क्रियाकारकभेदप्रत्यक्षादिभिः ॥ २४ ॥
कर्मद्वैतं फलद्वैतं लोकदैतं च नो भवेत् ।
विद्याविद्याइयं न स्यात् बंधमोक्षद्वयं तथा ॥ २५ ॥ वृत्तिः-शुभकर्माशुभकर्मेति द्वयं न स्यात् । पुण्यमिदं पापमिदं इहलोकः परलोको ज्ञानमज्ञान वंधो मोक्षश्च जीवप्रदेशकर्मप्रदेशान्योन्याश्लेषो बंधः । अष्टविधर्ममोक्षो मोक्ष इत्येवमादि न स्यात् ॥
प्रमाणादद्वैतं निराकर्तुमाह
अष्टशती-प्रमाणप्रत्यनीकं स्वमनीषिकाभिरद्वैतमन्यद्धा किंचित्फलमुद्दिश्य औरचयेत् । अन्यथा तत्प्रतिपत्तिप्रवर्तनायोगात्प्रेक्षावृत्तेः । तथाहि पुण्यपापसुखदुःखेहपरलोकविद्येतरबंधमोक्षविशेषरहितं प्रेक्षापूर्वकारिभिः-अनादरणीयं यथा नैरात्म्यदर्शनं । तथा च प्रैस्तुतं ॥ २५ ॥
हेतोद्भवसिद्धिश्चेद्वैतं स्यादेतुसाध्ययोः ।
हेतुना चेदिना सिद्धिद्वैत वाङ्मावतो न किं ॥ २६ ॥ वृत्तिः-अद्वैतस्य सिद्धिः किं हेतोराहोस्विद्वचनमात्रात् ! यदि हेतोरिदं साधनमिदं साध्यमिति द्वैतं स्यात् । साधनमंतरेणाद्वैतस्य सिद्धिश्चेदेवं वचनमात्राद्वैतं कस्मान्न स्यादिति समानं ॥ २६ ॥
पुनरप्यद्वैतं निराकर्तुमाह
अष्टशती-यदसिद्धं तन्न हितेप्सुभिः-अहितं जिहासुभिर्वा प्रतिपत्तव्यं । यथा शून्यकांतः । तथाचासिद्धमद्वैतमित्यत्र नासिद्धो हेतुः । तात्सद्धिर्यदि साधनात् ! साध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथा अद्वैतसिद्धिवत् द्वैतसिद्धिः कथं न स्यात् ? स्वाभिलापमात्रादर्थसिद्धौ सर्व सर्वस्य सिद्धयेत् ॥ २६ ॥
अद्वैतं न विना द्वैतादहेतुरिव हेतुना।
संज्ञिनः प्रतिषेधो न प्रतिषेध्याहते कचित् ॥ २७ ॥ वृत्तिः-द्वैताद्विना न भवत्यद्वैतं । यथा अहेतुर्हेतुमंतरेण न भवति । संज्ञिनो नामवतः प्रतिषेध्यमंतरेण प्रतिषेधो यस्मात् । यो यः संज्ञी तस्य तस्य प्रतिषेध्यमंतरेण प्रतिषेधो न भवति । यथा कुसुममंतरेण आकाशादौ कुसुमस्य । संज्ञि चाद्वैतं तस्माद्वैतन विना प्रतिषेधो न भवति ॥ २७॥
१ इत्यतोऽने प्रमाणादि न स्यादित्यपि पाठः। २। आरभयेत् पाठः स. पुस्तके। ३। प्रइतमित्यर्थः ।