________________
१७
आप्तमीमांसा । धादर्शने दंडीति विकल्पः स्यात् । तस्मात्सूक्तं यदेकांतेन सदसद्वा तन्नोत्पत्तुमहति व्योमबंध्यासुतवत । इति । कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिः। इति चेत् न-अनभ्युपगमात्। द्रव्यनयापेक्षया, परप्रसिद्धया वा उदाहरणं ॥ २१॥
धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनंतधर्मणः ।
अंगित्वेन्यतमांतस्य शेषांतानां तदंगता ॥ २२॥ वृचिः-धर्मे धर्मे धर्मनिर्देशे । भङ्गे भो इति वा पाठांतरं । अन्य एवार्थोऽपूर्व एवार्थः । कुतः! धर्मिणो वस्तुनः । अनंता धर्माः स्वभावा यस्य सोऽनंतधर्मा तस्यानंतधर्मणः । अंगित्वे प्रधानत्वे । अन्यतमांतस्यास्तित्वादीनां मध्ये एकतमस्य । शेषांतानां परिशेषधर्माणां नास्तित्वादीनां । तत्तस्मात् । अंगता अप्रधानता । अथवा तदांगता इति पाठांतरम् । तदा तस्मिन्काले । शेषाणामप्रधानता । अतः पुनरुक्तता नास्ति । अथवा सुनयसप्तभंगीनिरूपणार्थमियं कारिका, संक्षेपार्था चेयं ।। २२
सप्तभंगी योजयानाह
अष्टशती-यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात् तदा दृष्टेऽभिहिते वा प्रमाणांतर मुक्तयंतरं वा निरर्थकं स्यात् । गृहीतग्रहणात्पुनरुक्तेश्च स्वभावातिशयाभावात्, सदुत्पत्तिकृतकत्वादेः प्रत्यनीकस्वभावविशेषाभावात् । वावंति पररूपाणि तावत्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना माभूत् । सतां हि स्वभावानां गुणप्रधानभावः स्यात् । ततः परिकल्पितव्यावृत्त्या धर्मातरव्यवस्थानं परिफगुप्रायं वस्तुस्वभावाभावप्रसंगात् । तथेंद्रियबुद्धयोऽपि स्वलक्षणविषया माभूवन् , केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगात् । अतिप्रसंगाच ॥ २२ ॥
.. एकानेकविकल्पादावुत्तरत्रापि योजयेत् ।
प्रक्रियां भंगिमीमेनां नयनयविशारदः ॥ २३ ॥ पत्तिः-नयविशारदो नयः प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायस्तस्मिन्कुशल: । नयैः स्वहेतुभिर्विशेषणत्वादिभिः । एनां प्रक्रियाम् । भगिनीं भंगवती भंगबहुला । उत्तरत्रापि इह ऊर्ध्वमपि । योजयेदुद्धाटयेत् ॥ क ! एकश्च अनेकश्च तावेव विकल्पी तावादिर्यस्य तस्मिन्नेकानेकविकल्पादौ । कथं ? स्यादेकः । स्यादनेकः । स्यादेकश्चानेकश्च । स्यादवक्तव्यः । स्यादेकश्चावक्तव्यः । स्यादनेकश्चावक्तव्यश्च । स्यादेकश्चानेकश्चावक्तव्यश्च । एवमनेन द्वैताद्वैतादिषु योज्यं ॥ २३ ॥
सदायेकांतेषु दोषमुद्राव्यैवमद्वैतकांत दूषयितुमाह
अष्टशती-स्यादेकं सद्व्यनयापेक्षया । यद्यपि विशेषाः परस्परष्यावृत्तपरिणामाः कालादिभेदेऽपि सद्रूपाविशिष्टाच्चित्रज्ञाननीलादिनिर्भासवत् स्यादनेकत्वमास्कदंति । न हि संख्यासंख्यावतोभैदेनादृष्टौ विशेषेणविशेष्यविकल्पः कुंडलिवत् । क्षीरोदकवदतद्वेदिनि-नच भेदैकांते तद्वत्तास्ति व्यपदेशनिमित्ताभावात् । अनवस्थाप्रसंगाच्च । तस्मादयं कथंचिंदव संख्यासंख्यावतोः स्वभावभेदं पैश्यति तद्विशिष्टविकल्पनात् । क्वचिनिर्णयेऽप्यन्यत्र संशयाद्, वर्णरसादिवत् ॥ २३ ।।
इत्याप्तमीमांसाभाष्ये प्रथमः परिच्छेदः ।
१। अष्टविकल्पायोगात् पाठोयं स. पुस्तके ।
२ पश्यन् पश्यतीति ख. पुस्तके पाठः।