________________
आप्तमीमांसा।
शेषभंगान् समर्थयन्नाह- अष्टशती-किंचित्केन चिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्संबंधलोकस्थितिसंकलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनमवश्यंभावि । ततो विधिप्रतिषेधावास्मानौ विशेषस्य सविकल्पकत्वं प्रसाधयतः । ततः सामान्यविशेषात्मकत्वं वस्तुत्वलक्षणं । अस्तित्वनास्तित्वयोधर्मी सामान्यं तत्र तादात्म्यलक्षणः संबंधः संबंधांतरकल्पनायामनवस्थाप्रसंगात् । तन्नैतत्सारं, जात्यादिमतामेतन्न संभवत्येवेति तदभाव एवासंभवात् तथा सति नैकांतेन दर्शनविकल्पाभिधानानां विषयभेदोऽस्ति कथंचित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । तथाहि धूमादयः कृतकत्वादयो वा कचिदग्निसलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाम्यां साक्षाक्रियेरन् । इतरथा हि विशेष्यप्रतिपत्तेरयोगात् । अनापेक्षायां तु विरोधः । तस्मात् यदभिधेयं तद्विशेष्यं यद्वा विशेष्यं तदभिलाप्यं यद्वा वस्तु तत्सर्वे विधेयप्रतिषेध्यात्मकं यथोत्पत्त्यादिः । अपेक्षया हेतुः-अहेतुश्च साध्येतरयोः-तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि॥१९॥
शेषभंगाश्च नेतव्या यथोक्तनययोगतः ।
न च कश्चिद्विरोधोऽस्ति मुनींद्र तव शासने ॥ २० ॥ वृत्तिः-शेषभंगाश्च अवक्तव्यादयो नेतव्या ज्ञातव्या योजनीयाः। यथोक्तश्चासौ नयश्च यथोक्तनयः तस्य योगस्तस्मात् विशेषणत्वादिति हेतोरित्यर्थः। विरोधोऽपि न कश्चित् । उपलक्षणमेतत् । विरोध इति संशयविरोधवैयधिकरण्योभयदोषप्रसंगसंकरानवस्थाऽभावानाक्षिपति एते दोषा न संति । कस्मात् ? अनेकांतत्वाद्वस्तुनः । जीवादिपदार्थयाथात्म्यमननान्मुनयस्तेषामिंद्रो भगवान् केवली तस्य संबोधनं हे मुनींद्र । तव शासने युष्मन्मते। अनभिलाप्यादयोऽपि धर्माः क्वचिदकधर्मिणि प्रत्यनीकस्वाभावाविनाभाविनो विशेषणत्वात् पूर्वोक्तमुदाहरणम् ॥ ___ अष्टशती-स्यादस्ति स्यान्नास्तीति भंगद्वयमुपयुक्तं तदपेक्षयाशेषत्वं । भंगत्रयापेक्षं वा । यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि क्वचिद्धर्मिणि प्रत्यनीकखभावाविनाभाविनः प्रतीयंते विशेषणत्वादिभ्यः पूर्वोक्तमुदाहरणं । नचैवं सति किंचिद्विप्रतिषिद्धं-अन्यथैव विरोधात् ॥ २०॥ . अनेकांतात्मकं तत्त्वं व्यवस्थाप्यकांतं निराकर्तुमाह
एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् ।
नेति चेन्न यथाकार्य बहिरंतरुपाधिभिः ॥ २१॥ वत्तिः-एवमनेन प्रकारेण । विधिनिषेधाभ्यामस्तित्वनास्तित्वाभ्याम् । अनवस्थितमनवधारितं यद्वस्तु तदर्थ कृत्-कार्यकारि भवति । नेति चेत् यद्येवं न भवति। न । यथाकार्य यथाभूत कार्यमुपलभ्यते तस्य कारकं न स्यात् । बहिरंतरुपाधिभिः बाह्याभ्यतरहेतुभिः सहितैरपि । अथवा अनवस्थितं शून्यं अयथाकार्यम् ॥
अथ मतं स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वे भंगा गृहीताः । किमेतषां प्रपंचोऽत आह
अष्टशती-सप्तभंगीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि कथंचित्सत एव सामिग्रीसन्निपातिनः स्वभावातिशयोपपत्तेः सुवर्णस्य केयूरादिसंस्थानं नेति चेदित्यादिनैकांतेऽर्थक्रियां प्रतिक्षिपति । न तावत्सतः पुनरुत्पत्तिरस्ति । न चानुत्पन्नस्य स्थितिविपत्ती खपुष्पवत् । नाप्यसतः सर्वोत्पत्त्यादयस्तद्वत् । यदि पुनः सामिग्यः प्राग्विद्यमानस्य जन्म न स्यात् को दोषः स्यात् । तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न हि निराधारोत्पत्तिर्विपत्तिा क्रियारूपत्वात् । स्थितिवन्नैतन्मंतव्यं । नोत्पत्यादिः क्रिया क्षणिकस्य तदसंभवात् । ततोऽसिद्धोहेतुरिति प्रत्यक्षाविरोधात् । प्रादुर्भावादिमतः चक्षुरादिबुद्धौ प्रतिभासनात् । अन्यथा तद्विशिष्टविकल्पोऽपि माभूत् न हि दंडपुरुषसंबं