________________
आप्तमीमांसा। मृषा मिथ्या। प्रमाणमिवावभासत इति प्रमाणाभासमेत्र । यद्यवं कथं मुख्यप्रमाणमंतरेण तत्प्रमाणाभास यस्मात्सति प्रमाणे प्रमाणाभासो नान्यथा ॥ ७९ ॥
अथ मतं सर्वं बाह्याभ्यन्तरं ज्ञानमेवैतस्य मतस्य निराकरणार्थमाह--
अष्टशती-तजन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनेकांतिकमादर्य संवित्तिरेव खंडशः प्रतिभासमाना व्यवहाराय कल्प्यत इत्यभिनिवेशेऽपि प्रमाणं मृग्यं । क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमिति स्वतस्तावन्न सिद्धयति भ्रांतेः। तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणांतरापेक्षयानुपलभकल्पत्वात् । न हि तथा बुद्धयः संविदंते यथा व्यावयेते | नापि परतः संबंधप्रतिपत्तेरयोगात् स्वांशमात्रावलंबिना मिथ्याविकल्पेन प्रकृतितत्त्वव्यवस्थापने बाहरर्थेष्वप्यविरोधात् । कथंचिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात् नान्यथा। न चानुक्तदोषं लक्षणमस्ति तत्संभवे नान्यत्र तदभावोऽभिधेयः तत्स्वपक्षपरपक्षयोः सिद्धयसिद्धयर्थ किंचित्कथंचित्कुतश्चित् आवतथं ज्ञानमादरणीयं अन्यथा शेषविभ्रमासिद्धेः । एतेन यद्ग्राह्यग्राहकाकारं तत्सर्वं भ्रांतं यथा स्वप्नेंद्रजालादिज्ञान तथा प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ॥ ७९ ॥
साध्यसाधनविज्ञप्तर्यदिविज्ञप्तिमात्रता।
न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८०॥ वत्तिः-साध्यत इति साध्यं शक्यमभिप्रेतमप्रसिद्ध पक्षधर्मः । साध्यतेऽनेनेति साधन प्रकृते नाविनाभावि तयोराकारो विज्ञप्तिर्विज्ञानं तस्या यदि विज्ञप्तिमात्रता ज्ञानमात्रत्वं । न साध्यं न च हेतः चकरान्नापि दृष्टान्तः । कुतः ? प्रतिज्ञादोषाद्धेतुदोषाच्च । निरंशत्वमभ्युपगम्य स भेदं साधयेत् ? अभ्युपगमहानिः प्रातज्ञाहेतुदोषः, अतः प्रतिज्ञादोषे हेतुदोषेऽकिंचित्कराख्यः । अथवा प्रतिज्ञैव हेतुः स दोषस्तस्मात् । यस्मान्न तदेव साध्यं साधनं निरंशत्वात्तस्य ॥ ८॥
अथान्तरंगार्थतकांते दोषदर्शनाद्वहिरंगार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति-- .
अष्टशती-सहोपलंभनियमादभेदो नीलतद्धियोईिचंद्रदर्शनवत् इत्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वकांतं साधयन् कथं अवधेयाभिलापः । स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः । पृथगनुपलंभाद्भेदाभावमात्रं साधयेत् तच्चासिद्ध संबंधासिद्धेरभावयोः खरशंगवत् । एतेन सहानुपलंभादभेदसाधनं प्रत्युक्तं भावाभावयोः संांधासिद्धेः । तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् सिद्धेऽपि प्रतिषेधैकांते विज्ञप्तिमात्रं न सिद्धयेत् तदसाधनात्तत्सिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपलंभनियनोप्यसिद्धः साध्यसाधनयोरविशेषात् । एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकांतिकं, अनन्यवेद्यत्वं असिद्ध एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलंभनियमात, व्यभिचारिहेतुः तथोत्पत्तेरेव संवेदनत्वात्, दृष्टांतोऽपि साध्यसाधनविकल: तथोपलंभाभदयोरर्थप्रतिनियमात् भांतौ तदसंभवात् । ननु चासहानुपलंभमात्रादभेदमात्रं कथंचिदर्थस्वभावानवबोधप्रसंगात् । सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसंततिविभूमस्वभावानुमितेः । साकल्येनकत्वप्रसंगात एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थ वा संविदेतीति हेतोरसिद्धिः सहोपलंभनियमच स्यात भेदश्च स्यात् किं प्रतिषिध्येत स्वहेतुप्रतिनियमसंभवात् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणीति न किंचिदेतत् असाधनांगवचनात अदोषोद्भावनाच्च निग्रहार्हत्व त् ॥ ८ ॥
बहिरंगार्थतैकांते प्रमाणाभासनिहवात् ।
सर्वेषां कार्यसिद्धिः स्याविरुद्धार्थाभिधायिनां ॥ ८१॥ वृत्तिः-बहिरंगार्थतैकांतो बाह्याथैकांतस्तस्मिन्नभ्युपगम्यमाने विरुद्धार्थाभिधायिनां प्रमाणांतरबाधिता