Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायां
१५ दर्शने स्वाकारमनपर्यतां स्वभावकार्यप्रतिबंधाभावे प्रमेयत्वं प्रमाणांतरमवश्यमाकर्षयति । ततोविप्रतिषिद्धमेतत् । नच स्वलक्षणमेवान्यापोहः सर्वथाविधिनियमयोरेकतानत्वाऽसंभवात् । तत्स्वभावभेदाभावे च संकेतविशेषानुपपत्ते:-अभिधानप्रत्ययविशेषोऽपि माभूत्तदन्यतरवत् । ततो यावंति पररूपाणि प्रत्येकं तावंतस्ततततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । यदि संबंध्यतराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्संबंध्यंतरेषु कदाचित्केषु क्रमशोऽर्थक्रिया न वै विप्रतिषिध्येत । शक्यं हि वक्तुं क्रमवर्तीनि कारणानि तत्तन्निर्वतनात्मकानि इति नित्यं स्वभावं न वै जहाति क्षणिकसामिग्रीसन्निपातैकतमवत् । तदेतत्तदा तदा तत्तत्कर्तुं समर्थमेकं स्वभावं अविचलित विभ्राणं सहकारिकारणानि स्वभाव स्याभेदकानि नानाकार्यनिबंधनानि कादाचित्कानि प्रतीक्ष्यंत इति । तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिवत हानप्रतिबंधमतिवर्तते वस्तुत एव । ततो न संवृत्तिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं । तदनेकस्वभावाभावे विनिर्भासासंभवात आत्मनि परत्र चासभविनमाकारमादर्शयतीति मुग्धायते सत्रासहायरूपानुपलब्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्य-विशेषणविशेष्यभावादिव्यवहारनिर्भासान् विभ्रती स्वयमनेकरूपतां प्रतिक्षिपंतं व्यवस्थापयति । तद्वद्भावांतराणामनेकात्मकत्वे वास्तवी साधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानंतं प्रतिक्षिपत्येव । यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात् । निर्णयस्य भावस्वभावाऽसंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदादच्छमेवेति स्वयमेकांतानुपपत्तेः । अतोऽयं स्वभावः स्वभावभेदान् विधिप्रतिषेधविषयान् विभ्राणः प्रत्यक्षतरप्रमाणसमाधिगतलक्षणः प्रतीयेत । तस्माद्यद्विशेषणं तत्प्रतिषेध्याविनाभावि क्वचिद्धामणि यथा साधर्म्य भेदविवक्षया, कृतकत्वादौ विशेषणं चास्तित्वं ततः प्रतिषेध्यधर्मप्रतिबंधी ॥ १७ ॥
नास्तित्वं प्रतिषेध्येनाविनाभाव्यकथाणि ।
विशेषणत्वाद्वैधयं यथाऽभेदविवक्षया ॥ १८॥ वृत्तिः-नास्तित्वं प्रतिषेध्येनास्तित्वेनाविनाभावि विशेषणत्वात् । यथा वैधर्म्यमभेदविवक्षया ॥ यत्किंचित् विशेषणं तत्सर्वमेव प्रतिपक्षधाविनाभावि यथा वैधर्म्य साधर्म्यविवक्षया। हेतोर्विशेषणं च नास्तित्वं ॥ १८ ॥
पुनरप्यविरोध दर्शयन्नाह
अष्टशती-भेदाभेदविवक्षयोरवस्तुनिबंधनत्वे विपर्यासोऽपि किं न स्यात् । तत: समंजसमेतत् । यत्किंचिद्विशेषणं तत् सर्वमेकत्र प्रतिपक्षधाविनाभावि यथा वैधर्म्यमभेदविवक्षया हेतौ । तथा च नास्ति त्वं विशेषणं-अन्यथा व्यवहारसंकरप्रसंगात् । न हि स्वेच्छाप्रक्लप्तधर्मधर्मिव्यवस्थायां परमार्थावतारः स्यात् । तदसमीक्षिततत्त्वार्थैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्वप्रतिपत्तये समाश्रियत इति वालाभिलापकल्पं । भावस्वभावोपरोधात् ॥ १८ ॥
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः ।
साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ १९॥ - वृत्तिः-विधेयशब्दवाच्यः साध्य इत्यर्थः । प्रतिषेध्यो निराकरणीयः । द्वन्द्वः । तावात्मा स्वरूपं यस्य स विधेयप्रतिषेध्याध्यात्मा विशेष्यो धर्मी पक्ष इत्येकार्थः । शब्दगोचरः शब्दविषयः । साध्यस्य धर्मः साध्यधर्मः । यथा दृष्टान्तप्रदर्शकः। हेतुः साधनमहेतुरसाधनम् । अपिः सम्भावनायाम् । अपेक्षया विवक्षया ॥ विशेष्यो विधेयप्रतिषेध्यात्मा. शब्दगोचरत्वात् यथा साध्यधर्मों हेतुश्चाहेतुश्च भवति विवक्षया । अग्निमत्त्वे साध्ये धूमो हेतुर्भवति जलत्वे साध्येऽहेतुरेकस्मिन्धार्मणि । एवमत्रापि-यो यः शब्दविषयः स सर्वोऽपि विधेयप्रतिषेध्यात्मा विशेष्यः । यथा साध्यधर्मो हेतुरहेतुश्चापेक्षया । शब्दविषयश्च विशेष्यः तस्माद्विधेयप्रतिषेध्यात्मा ॥ १९ ॥

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182