Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 114
________________ आप्तमीमांसा । किमुक्तं भवति ?- स्वहेतोः स्यादस्ति १ । स्यान्नास्तिं २ । स्यादस्ति नास्ति च ३ । स्यादवक्तव्यम् ४ । स्यादस्ति चावक्तव्यम् ५। स्यान्नास्ति चावक्तव्यम् ६ । स्यादस्ति नास्ति चावक्तव्यं च ७ वस्तुत इत्यर्थः ॥ अस्तित्वादीन् धर्मान् युक्तितः समर्थ्य, अधुना तेषामेकस्मिन्नधिकरणेऽवस्थानस्य विरोधमन्तरेण परस्परपरिहारेण रूपादीनामिव युक्तितः समर्थनार्थमाह अष्टशती-स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु न विपर्यासेन तथा दर्शनात् ,कल्पयित्वापि तज्जन्मरूपाध्यवसायान् स्वानुपलंभव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्यं । तथाहि-बुद्धिरियं यथा प्रत्यासत्या कस्य चिदेवाकारमनुकरोति तया तमेव नियमेनोपलभेत नान्यथा पारंपर्यपरिश्रमं परिहरेत् । विलक्षणस्यापि विभ्रमहेतुफलविज्ञानैर्व्यभिचारात् तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत । तदेकोपलंभनियमः स्वपरलक्षणाभ्यां भावाभावात्मनं प्रसाधयति, तदभावे न प्रवर्तयति नापि निवर्तयति प्रमाणांतरवन्निष्पर्याय भावाभावाभिधानं नांजसैव विषयीकरोति शब्दशक्तिस्वाभाव्यात् । वचनसूचनसामर्थ्यविशेषानतिलघनात् । संकेतानुविधानेऽपि कर्तृकर्मणोः शक्तयशक्तयोरन्यतरव्यपेदशाहत्वात् । अयोदारुबज्रलेखनवत् । अन्यथा चाक्षुषात्वादयः शब्दादिधर्मा न भवेयुः । अतो यावंति पररूपाणि तावत्येव प्रत्यात्म स्वभावांतराणि तथा परिणामात् । द्रव्यपर्यायौ व्यस्तसमस्ती समाश्रित्य चरमभंगत्रयव्यवस्थानं । न खलु सर्वात्मना सामान्यं वाच्यं ? तत्प्रतिपत्तरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते । लक्षितलक्षणया वृत्तिः कथंचित्तादात्म्येन भवेत् , संबंधांतरासिद्धेः कार्मुकादिवत् । तादृशानुपलंभात्संकेतोऽपि न सिद्धयेत् । सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यं अन्यथा विशेषवत्स्वभावहानिप्रसंगात् विशेषाणां वा तद्वत्ततो व्यावृत्तेर्नचान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा। साधनवचनेन नित्यत्वसमारोपव्यवच्छेदेऽपि स्वलक्षणस्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् । विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावे स्वलक्षणर्दशनस्याकृतनिर्णयस्य वस्तुसन्निधेरविशेषात् किं केन प्रमितं स्यात् । न हि मिथ्याध्यवसायन तत्त्वव्यवस्थानं वस्तुदर्शनसमारोपव्यवच्छेदयोः अन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितौ इतरेतराश्रयदोषः । समयादर्शिनोऽपि क्वचिदन्वयबुद्धयभिधानव्यवहारो तत्कार्यकारणव्यातिरेकव्यवस्थायां गुडुच्याद्युदाहरणप्रक्लप्तिं विपर्यासयति-॥ १६ ॥ , अस्तित्वं प्रतिषेध्येनाविनाभव्येकधार्मिणि । विशेषणत्वात्साधयं यथा भेदविवक्षया ॥ १७ ॥ वृत्तिः-आस्तित्वं सत्त्वं प्रतिषेध्येन-नास्तित्वेन अविनाभावि-नास्तित्वेन विना न भवति पृथग्भूतं नोपलभ्यत इत्यर्थः । धर्मा आस्य सन्ति धर्मी एकश्चासौ धर्मी च तस्मिन्नेकधर्मिणि । विशेषणत्वात् । उपाधिवशात् । समानो धर्मः सधर्मस्तस्य भावः साधर्म्यमन्वयः । यथा-दृष्टांतप्रदर्शकः । भेदस्य विवक्षाऽर्पणा तया इत्यर्थः । एकधामणि शब्दादौ अस्तित्वं नास्तित्वाविनाभावि कुतः ? विशेषणत्वात् । यथा कृतकत्वादी साधभ्यं वैधयेण विना न भवति । यद्विशेषणं तत्प्रतिषेध्याविनाभावि यथा साधर्म्य व्यतिरेकविवक्षया । द्रुमादौ विशेषणं चास्तित्वं । तस्मात्प्रतिषेध्यधर्माविनाभावि ॥ १७ ॥ तथा अष्टशती- सर्वमित्थमनित्थं चेति प्रतिज्ञाय-अभिप्रेत्य वा प्रमेयत्वादिहेतूपादनेऽपि व्यतिरेको ऽस्त्येव प्रमेयत्वस्य वस्तुधर्मत्वात् । खपुष्पादयोऽपि तत्र व्यवहारमिच्छता प्रमेयाः प्रतिपत्तव्या इति न किंचिप्रमाणं प्रमेयाभावस्यापि तथाभावानुषंगेणाव्यवस्थाप्रसंगात् । नचैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् । १ लिखितपुस्तके उपाधित्वादिति पाठः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182