________________
आप्तमीमांसा । किमुक्तं भवति ?- स्वहेतोः स्यादस्ति १ । स्यान्नास्तिं २ । स्यादस्ति नास्ति च ३ । स्यादवक्तव्यम् ४ । स्यादस्ति चावक्तव्यम् ५। स्यान्नास्ति चावक्तव्यम् ६ । स्यादस्ति नास्ति चावक्तव्यं च ७ वस्तुत इत्यर्थः ॥
अस्तित्वादीन् धर्मान् युक्तितः समर्थ्य, अधुना तेषामेकस्मिन्नधिकरणेऽवस्थानस्य विरोधमन्तरेण परस्परपरिहारेण रूपादीनामिव युक्तितः समर्थनार्थमाह
अष्टशती-स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु न विपर्यासेन तथा दर्शनात् ,कल्पयित्वापि तज्जन्मरूपाध्यवसायान् स्वानुपलंभव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्यं । तथाहि-बुद्धिरियं यथा प्रत्यासत्या कस्य चिदेवाकारमनुकरोति तया तमेव नियमेनोपलभेत नान्यथा पारंपर्यपरिश्रमं परिहरेत् । विलक्षणस्यापि विभ्रमहेतुफलविज्ञानैर्व्यभिचारात् तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत । तदेकोपलंभनियमः स्वपरलक्षणाभ्यां भावाभावात्मनं प्रसाधयति, तदभावे न प्रवर्तयति नापि निवर्तयति प्रमाणांतरवन्निष्पर्याय भावाभावाभिधानं नांजसैव विषयीकरोति शब्दशक्तिस्वाभाव्यात् । वचनसूचनसामर्थ्यविशेषानतिलघनात् । संकेतानुविधानेऽपि कर्तृकर्मणोः शक्तयशक्तयोरन्यतरव्यपेदशाहत्वात् । अयोदारुबज्रलेखनवत् । अन्यथा चाक्षुषात्वादयः शब्दादिधर्मा न भवेयुः । अतो यावंति पररूपाणि तावत्येव प्रत्यात्म स्वभावांतराणि तथा परिणामात् । द्रव्यपर्यायौ व्यस्तसमस्ती समाश्रित्य चरमभंगत्रयव्यवस्थानं । न खलु सर्वात्मना सामान्यं वाच्यं ? तत्प्रतिपत्तरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते । लक्षितलक्षणया वृत्तिः कथंचित्तादात्म्येन भवेत् , संबंधांतरासिद्धेः कार्मुकादिवत् । तादृशानुपलंभात्संकेतोऽपि न सिद्धयेत् । सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यं अन्यथा विशेषवत्स्वभावहानिप्रसंगात् विशेषाणां वा तद्वत्ततो व्यावृत्तेर्नचान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा। साधनवचनेन नित्यत्वसमारोपव्यवच्छेदेऽपि स्वलक्षणस्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् । विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावे स्वलक्षणर्दशनस्याकृतनिर्णयस्य वस्तुसन्निधेरविशेषात् किं केन प्रमितं स्यात् । न हि मिथ्याध्यवसायन तत्त्वव्यवस्थानं वस्तुदर्शनसमारोपव्यवच्छेदयोः अन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितौ इतरेतराश्रयदोषः । समयादर्शिनोऽपि क्वचिदन्वयबुद्धयभिधानव्यवहारो तत्कार्यकारणव्यातिरेकव्यवस्थायां गुडुच्याद्युदाहरणप्रक्लप्तिं विपर्यासयति-॥ १६ ॥
, अस्तित्वं प्रतिषेध्येनाविनाभव्येकधार्मिणि ।
विशेषणत्वात्साधयं यथा भेदविवक्षया ॥ १७ ॥ वृत्तिः-आस्तित्वं सत्त्वं प्रतिषेध्येन-नास्तित्वेन अविनाभावि-नास्तित्वेन विना न भवति पृथग्भूतं नोपलभ्यत इत्यर्थः । धर्मा आस्य सन्ति धर्मी एकश्चासौ धर्मी च तस्मिन्नेकधर्मिणि । विशेषणत्वात् । उपाधिवशात् । समानो धर्मः सधर्मस्तस्य भावः साधर्म्यमन्वयः । यथा-दृष्टांतप्रदर्शकः । भेदस्य विवक्षाऽर्पणा तया इत्यर्थः । एकधामणि शब्दादौ अस्तित्वं नास्तित्वाविनाभावि कुतः ? विशेषणत्वात् । यथा कृतकत्वादी साधभ्यं वैधयेण विना न भवति । यद्विशेषणं तत्प्रतिषेध्याविनाभावि यथा साधर्म्य व्यतिरेकविवक्षया । द्रुमादौ विशेषणं चास्तित्वं । तस्मात्प्रतिषेध्यधर्माविनाभावि ॥ १७ ॥
तथा
अष्टशती- सर्वमित्थमनित्थं चेति प्रतिज्ञाय-अभिप्रेत्य वा प्रमेयत्वादिहेतूपादनेऽपि व्यतिरेको ऽस्त्येव प्रमेयत्वस्य वस्तुधर्मत्वात् । खपुष्पादयोऽपि तत्र व्यवहारमिच्छता प्रमेयाः प्रतिपत्तव्या इति न किंचिप्रमाणं प्रमेयाभावस्यापि तथाभावानुषंगेणाव्यवस्थाप्रसंगात् । नचैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् ।
१ लिखितपुस्तके उपाधित्वादिति पाठः ।