________________
सनातनजैनग्रंथमालायांधात् कथंचित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथैवासंभवात् । सर्वथा जात्यंतरकल्पनायां तदंशनिबंधनविशेषप्रतिपत्तरत्यंताभावप्रसंगात् । सर्वथोभयरूपत्वे वा जात्यंतरप्रतिपत्तेरयोगात् । तथा चानवस्थादिदोषानुषंगः । तदिष्टं स्यादुभयं, सद्भावेतराभ्यामनभिलापे वस्तुनः केवलं मूकत्वं जगतः स्यात् विधिप्रतिषेधव्यवहारायोगात्। न हि सर्वात्मनामभिलाप्यस्वभाव बुद्धिरध्यवस्यति । न वानध्यवसायं प्रमितं नाम गृहीतस्यापि तादृशस्यागृहीतकल्पत्वात् मूर्छाचैतन्यवत् । सर्वात्मनाभिधेयत्वेऽपि प्रत्यक्षेतराविशेषप्रसंगात् । तथाभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षस्यासत्वात् तत्त्वप्रदर्शनाय यत्किंचित्प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतं, तत्कृतां वस्तुसिद्धिमुपजीवति न च तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषंगात् ॥ १४ ॥
सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् ।
असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥ १५ ॥ वृत्तिः -सदेव-सत्त्वमेव सर्व-निरवशेष विश्वम् । को नेच्छेत्-को न मन्यते कस्य नेष्टं ? किंतु इष्टमेव सर्वस्य । स्वरूपमात्मरूपं स्वस्य वा रूपं तदादिर्यस्य तत्स्वरूपादि तच्चैतच्चतुष्टयं चतुर्विकल्प तत्तथाभूत । तस्मात्स्वरूपादिचतुष्टयात् । किं तत् ? स्वद्रव्यस्वक्षेत्रस्वकालस्वभावः। तस्मात् । असदेव मास्तित्वमेव विपर्यासात्-अस्वरूपादिचतुष्टयात् । अस्वद्रव्यक्षेत्रकालभावात्। न चेत्-यद्येवं न । न व्यवतिष्ठते-न घटते नात्मस्वरूपं लभत इत्यर्थः । किमुक्तं भवति-स्वरूपादिचतुष्टयात्सर्वे सदेव को नेच्छेत् । विपर्ययाद्विपर्ययं को नेच्छेत् ? । यदि पुनर्येनैव सत्वं तेनैवासत्त्वमिति स्यान्न किंचिदपि स्यात् ।
शेषभंगप्ररूपणार्थमाह
अष्टशती-स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात्। नहि पटादयो घटादिवत् क्षीराद्याहारणलक्षणामर्थक्रियां कुति घटादिज्ञानं वा। तदुभयात्मनि दृष्टांतः सुलभः । शब्देतरप्रत्यययोः एकानेकवस्तुविषययाः, एकात्मसमवेतयोः कारणविशेषवशात् परिवृत्तात्मनोः स्वभावभेदेऽपि कथंचिदेकत्वमस्त्येव विच्छेदानुपलब्धः। उपादानस्य कार्यकालमात्मानं कथंचिदनयतश्चिरतरनिवृत्ताविशेषात् कार्योत्पत्तावपि व्यवेदशानुपपत्तेस्तादृशं स्वरूपैकत्वमस्त्येव विशेषावेक्षया तु नास्त्येव । न हि पौरस्त्यः पाश्चात्यः स्वमावः, पाश्चात्यो वा पौरस्त्यः निरपेक्षः । तत्र क्रमोऽपि प्रतिभासातिशयवशात् प्रकल्प्येत तदेकत्वादक्रमः किं न स्यात् । तदेकमनेकाकारं, अक्रमक्रमात्मकं, अन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविना शात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकालगोचरमात्मानं परं वा कथंचित् साक्षात्करोति परोक्षयति वा केशादिविवेकल्यामुग्धबुद्धिवत् । तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजातीयाद्विविक्तलक्षणं विभर्ति-अन्यथा अनवस्थानात् क्वचित्कथंचिदनियमः स्यात् ॥ १५॥
क्रमाप्तिद्वयाद् द्वैतं सहावाच्यमशक्तितः।
अवक्तव्योत्तराः शेषास्त्रयो भंगा स्वहेतुतः ॥ १६॥ वृत्ति-क्रमेण परिपाट्या अर्पितं विवक्षितं क्रमार्पितं तच्च तवयं द्वितयं क्रमार्पितद्वयं तस्मात्कमार्पितद्वयात् । द्वाभ्यामितं द्वीतं-द्वीतमेव द्वैतं-द्वयात्मकमस्तित्वनास्तित्वस्वरूपं-क्रमविवक्षितस्वपरचतुष्टयादस्तित्वनास्तित्वस्वरूपमित्यर्थः । सह-युगपत् एकहेलया विवक्षितस्वपरचतुष्टयादित्यर्थः। यद्यपि द्वयशब्दः समासांतर्भूतस्तथापि तेन संबंधोऽन्यस्याऽश्रुतत्वात् । अवाच्यं-अवक्तव्यमुच्चारयितुमशक्यमित्यर्थः। कुतः ? अशक्तितः असामर्थ्यात् । अवक्तव्यमवाच्यमुत्तरं-परं येषां भङ्गानां तेऽवक्तव्योत्तराः शेषा अन्ये त्रयो भङ्गास्त्रयो विकल्पाः । स्वहेतुतः स्वकीयकारणात् । के ते स्वहेतवः स्वरूपादिचतुष्टयात्सहविवक्षितस्वरूपादिचतुष्टया
चास्ति चावक्तव्यं । तथा पररूपादिचतुष्टयात्, युगपद्दर्शितस्वपररूपादिचतुष्टयाच्च नास्ति चावाच्यम् । तथा क्रमाप्तिस्वरूपादिचतुष्टयाद्युगपद्विवक्षिनस्वपररूपादिचतुष्टयाच्चास्ति नास्ति चाक्क्तव्यं च ।