________________
आप्तमीमांसा |
कथमक्षबुद्धेरूपादिविषयत्वानियमः ? तदभ्युगमे वा तदभिलापसंसर्गोऽपि तद्वदनुमीयते । तस्मादयं किंचित्पश्यन् तत्सदृशं पूर्वदृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तदप्रतिपत्तौ तेन तन्न योजयति । तदयेोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत् स्यात् । तथाहि - बहिरंतर्वा गृहीतमप्यगृहीतकल्पं क्षणक्षयलक्षण संवेदनादिवत् तथाचायातमचेतनत्वं जगत । सहस्मृतिरयुक्तैव तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात अन्यथा संकुला प्रतिपत्तिः स्यात् । नाम्नो नामांतरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् । तन्नामांतरपरिकल्पनायामनवस्था । तदयमशब्दं सामान्यं व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । भेदाभावात् सामान्यवत्) स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् ततो न किंचित्प्रमेयमनभिलाप्यं नाम । प्रत्यक्षस्यानभिलाप्यत्वे स्मार्त शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिंद्रियज्ञानात्सामान्यव्यवसायो न स्यात् प्रागिवाजनकत्वात् तदंतरेणापि दर्शनमयं गौरिति निर्णयः स्यात् । अनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिरत्यंतभेदात्तः । शब्दार्थयोः संबंधस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् ? । तदर्थं वा यतोऽयं व्यवसायः । चक्षुरादिज्ञानस्य कथंचिद् व्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात् । दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्य - संवेदनवत् । क्षणक्षयानुभववद्वा प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्पाभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् । नच ग्राहकप्रत्यक्षस्मृति प्रतिभासभेदाद्विषयस्वभावभेदः सकृदेकार्थोपनिबद्धदर्शनप्रत्यासनेतरपुरुषज्ञानविषयवत् । तथा च मंदप्रतिभासिनि तत्संकेतव्यवहारनियमकल्पनायामपि कथंचिदभिधेयत्वं वस्तुनः सिद्धमित्यलं प्रसंगेन । तस्मादवाच्यंतकांते यदवाच्यमित्यभिधानं तदसमंजसं स्वलक्षणमनिर्देश्य मित्यादिवत् स्ववचनविरोधात् ॥ १३ ॥
१२
कथचित्ते सदेवेष्टं कथञ्चिदसदेव तत् ।
तथोभयमवच्यं च नययोगान्न सर्वथा ॥ १४ ॥
वृत्तिः - कथंचित् केन चित्प्रकारेण । ते तव सदेव-भाव एव । इष्ट-मतमभ्युपेतम् । कथंचित्-केनचित्प्रकारेण । असदेव-अभाव एव । तत् यदेव सत् । तथा तेनैव केनचित्प्रकारेण । उभयं सदसदात्मकम् । अवाच्यमवक्तव्यम् । चकारात्कथंचिदित्यर्थः । नयस्य वक्तुरभिप्रायस्य योगो युक्तिर्नययोगस्तस्मान्न ययोगादभिप्रायवशादित्यर्थः । न सर्वथा - सर्वकारैर्न । किमुक्तं भवति - सदसदुभयावक्तव्यं वस्तु न भवति | किंतु केनचित्प्रकारेण ।
तदेव स्वष्टयति अनवस्थां च निराकरोति उत्तरकारिकया
अष्टशती-नावग्रहादेरन्योन्यं स्वलक्षणविवैकैकांतो जीवांतरवत् स्वात्मन्यपि संतानभेदप्रसंगात । अहमहमिकयात्मा वितार्ननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचिच्चित्रवित्तिक्षणे नीलादि विशेषनिर्भासवत् आत्मभूतान् परस्परतो विविक्तान् सहक्रमभाविनो गुणपयार्यानात्मसात्कुर्वन् सन्नेव । तदेकत्वाभावे नीलादिविशेषनियतदर्शन नानासंतानसंवेदनक्षणवच्चित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकांते संततिरनेकपुरुषवत | नैरंतर्यादेरविशेषात्संतानव्यतिकरोऽपि किं न स्यात् । न हि नियामकः काश्चिद्विशेषोऽन्यत्र भेदाभेदपरिणामात् असंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् । यथैकत्र समनंतरावग्रहादिसदादिस्वभावसंकरपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः । अतः कथंचित्सदेवेष्टं । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः किंतु बुद्धिक्षणेपि क्वचिदूग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात् भन्यथा स्थूलशवलालोकनाभावात्, तदेकांशवत् । तथाच सकलचेतनेतरक्षणपरिणामलवाविशेषाः परस्परविविक्तात्मनस्तदन्योन्याभावमात्रं जगत् अन्यथा सर्वथैकत्वप्रसंगात् । अन्वयस्य विशेषापेक्षणादभावो वा । तदिष्टसदेव कथंचित् । न हि भावाभावैकां तयोर्निः पर्याय मंगीकरणं युक्तं । यथैवास्ति तथैव नास्तीति विप्रतिषे