________________
सनातनजैनग्रंथमालायां
भावाभावैकांते विरोधं निरूप्योभयैकांतवादिनामपि न किंचित्संगच्छत इत्याहअष्टशती-बहिरंतश्च परमार्थसत् अन्यतरापायेऽपि साधनदूषणप्रयोगानुपपत्तेरिति प्रकृतार्थपरिसमाप्तौ किं त्रिलक्षणविकल्पनया । न हि संवृत्त्या साध्यसाधनव्यवस्था युक्तिमती । शून्यसिद्धेरपरमार्थत्वे पुनरनिराकृतसद्भावस्य सर्वस्याशून्यतानुषंगात् । समारोपव्यवच्छेदेऽपि समानं । हेयोपादेयोपायरहितमयमहीकः केवलं विक्रोशति । संवृत्त्यास्तीति सारूपेणेत्ययमर्थः ? कृतमनुकूलं । केवलं वक्ता आत्मनो वैयात्यं सूचयति । अथ पररूपेण नास्ति नाम्नि विवादात् एतदपि तादृगेव । तदेतेनोभयानुभयविकल्पः प्रत्युक्तः । तदस्ति मृषात्म नेति समानश्चर्चः । संवृत्तिर्विचारानुपपत्तिरित्ययुक्तं । तदभावात्तत्प्रतिपादनार्थ शास्त्रमुपदिशन्चुपदेष्टार चावर्णयन् सर्व प्रतिक्षिपतीति कथमनुन्मत्तः ? सौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रांतः कथं वभूवेत्यतिविस्मयमास्महे । तमन्ये पुनरद्यापि कीर्तयंतीति किं वत परमन्यत्र मोहनीयप्रकृतेः ॥ १२ ॥
विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।।
अवाच्यतैकांतेऽप्युक्तिनांवाच्यमिति युज्यते ॥ १३ ॥ वृत्तिः-विरोधाट्यभिचारात् पूर्वापरासंगतत्वात् । न प्रतिषधवचनम् । एक आत्मा स्वभावो ययोस्तौ तथा तयोर्भावस्तदैकात्म्यम् । उभयोः सत्त्वासत्त्वयोरैकात्म्यमुभयैकात्म्यं भावाभावैक्यमित्यर्थः । न्यायो युक्तिः प्रमाणेन प्रमेयस्य घटना । स्याद्वाद एव न्यायः स्याद्वादन्यायस्तस्मै विद्विषस्तं वा विद्विषन्तीति स्याद्वादन्यायविद्विषस्तेषां स्याद्वादन्यायविद्विषामनेकांतवैरिणाम् । अथ भावाभावोभयकांतपक्षदोषदर्शनादवाच्यतैकांत आश्रीयते ? तथापि दोष एव अत आह। उच्यत इति वाच्यं न वाच्यमवाच्यं तस्य भावोऽवाच्यता सैव एकांतोऽविद्याध्यवसायोऽवाच्यतैकांतस्तरिमन्नवाच्यतैकांते अपि । शब्दार्थयोरवाच्यवाचकत्वेऽपि । उक्तिर्वचनं अवाच्यमित्यवक्तव्यमिति । न युज्यते न घटते । स्याद्वादन्यायविद्विषां वादिनामुभयैकात्म्यं न भवति । विरोधात् । विज्ञानशून्यवत् । तथावक्तव्यकांतपक्षेऽपि अवाच्यमित्येवं या उक्तिः साऽपि न युज्यते । सर्वथाऽवाच्यत्वात् । एकशब्देन घटपटादिवत् ॥ १३ ॥
एकहेलया यदि सर्वथा सदसदुभयावक्तव्यरूपं तत्त्वं नास्ति कथं तीत्याह
अष्टशती-भावाभावयोरेकतरप्रतिक्षेपकांतपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युगच्छतोऽपि वाणी विप्रतिषिध्यते । तस्याः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कंचिदर्थ संतं तथैवासंतमाचक्षाणः स्वस्थः स्वाभ्युपगमेतरनिरासविधानकरणात् शून्यावबोधवत् । त्रैलोक्यं व्यक्तरपैति नित्यत्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधादिति वा. तदन्यथापेतमन्यथास्तीति स्याद्वादावलंबनमंधसर्पविलप्रवेशन्यायमनुसरति । योऽपि पक्षत्रयोपक्षिप्तदोषपरिजिहासया सर्वथाऽवक्तव्यतत्त्वमवलंबते सोऽपि कथमवक्तव्यं ब्रूयात् ? नैष दोषः स्वलक्षणमनिर्देश्यं प्रत्येकं कल्पनापोढमित्यादिवत् । तदप्यसत् यदसतः समुदाहृतं । यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षाने विषयो नैवास्ति ततस्तत्र प्रतिभासमानेपि न प्रति-- भासते। न केवलं विषयक्लात् दृष्टेरुत्पत्तिः-अपि तु चक्षुरादिशक्तेश्च । तदर्थवत् करणमनुकर्तुमर्हति न वाथै विशेषाभावात् । दर्शनस्य कारणांतरसद्भावेऽपि विषयानुकारानुकारित्वमेव, सुतस्येव. पित्राकारानुकरणमित्यपि वार्त स्वोपादानमात्रानुकरणत्वप्रसंगात् । उभयाकारानुकरणेऽपि रूपादिक्दुपादानस्यापि विषयतापत्तेरतिशयाभावात् । वर्णादेर्वा तद्वदविषयत्वप्रसंगात् । तज्जन्मरूपाविशेषेऽपि तदथ्यवसायनियमात बहिरर्थविषयत्वमित्यसारं। दर्शनस्यानध्यवसायात्मकत्वाददोषोऽयं प्रत्यक्षस्याध्यवसायहेतुत्वा'दित्यनिरूपितामिधानं तत्राभिलापाभावात् । तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं कि नाध्यवस्येत । यथैव हि प्रत्यभस्या-- मिलापसंसर्गयोग्यता नास्ति तथा तत्समनंतरभाविनोऽपि विकल्पस्य । तथाहि किंचित्केन चिद्विशिष्टं गृह्य-- माणं विशेषणविशेष्यतत्सबंधव्यवस्थाग्रहणमपेक्षते दंडिवत् । नचायमियतो व्यापारान् कर्तुं समर्थः ? प्रत्यक्षक्लोत्पत्तेरविचारकत्वात्-प्रत्यक्षवत् । नैतदेवं शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ततस्तही