Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 101
________________ क - नमः सिद्धभ्यः । श्रीमद्भगवत्समंतभद्रस्वामिविरचिता आप्तमीमांसा। देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यंते नातस्त्वमसि नो महान् ॥ १॥ वृत्तिः-सार्वश्रीकुलभूषणं क्षतरिपुं सर्वार्थसंसाधनं सन्नीतेरकलंकभावविधृतेः संस्कारकं सत्पथं । निष्णातं नयसागरे यतिपतिं ज्ञानांशुसद्भास्करं भेत्तारं वसुपालभावतमसो वंदामहे बुद्धये ॥ १ ॥ लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ज्ञानर्नययुक्तिमौक्तिकफलैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ॥२॥ समीचीनासमीचीनोपदेशविशेषप्रतिपत्तये सकलदोषातीतानंतचतुष्टयसमेतप्रकटिताशेषद्रव्यपर्यायसामान्याविशेषपरमात्मपरीक्षाभिधायकं, असंख्यातगुणश्रेणिकर्मनिर्जरणोपायं निराकृतसामान्यापोहशब्दार्थगृहीतविद्वन्मनःसंतोषकरं परमार्थभूतवाच्यवाचकसंबंधमनेकसूक्ष्मार्थप्रतिपादनचटुलं नि.श्रेयसाभ्युदयसुखफलं स्वभक्तिसंभारप्रेक्षापूर्वकारित्वलक्षणप्रयोजनवद् गुणस्तवं कर्तुकामः श्रीमत्समंतभद्राचार्यः सर्वज्ञ प्रत्यक्षीकृत्यैवमाचष्टे हे भट्टारक ! संस्तवो नाम माहात्म्यस्याधिक्यकथनं, त्वदीयं च माहात्म्यमतींद्रियं मम प्रत्यक्षागोचरं-अतः कथं मया स्तूयसे ?। अत आह भगवान् ‘ननु भो वत्स! यथाऽन्ये देवागमादिहेतोर्मम माहात्म्यमयबुध्य स्तवं कुर्वन्ति तथा त्वं किमिति न कुरुषे ? । अत आह, अस्माद्धतोर्न महान् भवान् मां प्रति ' व्यभिचारित्वादस्य हेतोः । इति व्यभिचारं दर्शयति देवास्त्रिदशास्तेषां स्वर्गावतरण-जन्म-निष्क्रमण केवलज्ञानोत्पत्ति-मुक्तिगमनस्थानेषु आगमनं-आगमः अवतारः-देवागमः । नभसि गगने हेममयाम्भोजोपरि यानं नभोयानम् । चामराणि वातायनानि तानि आदिर्यासां विभूतीनां संपदा लाश्च ता विभूतयश्च चामरादिविभूतयः। आदिशब्देन अशोकवृक्षसुरदुंदुभि सिंहासनादीनि परिगृह्यते, एतेषां द्वंद्वः । विभूतयः । मायाविष्वपि इन्द्रजालेष्वपि दृश्यते । न अतः--न अस्मात् । त्वमसि--त्वं भवसि । नः--अस्माकं महान्-गुरुः । किमुक्तं भवति । देवागमादिहेतो स्माकं भवान्गुरुर्भवति । यतो देवागमादयः, पूरणादिष्वपि दृश्यते । अतोऽनैकांतिको हेतुः ॥ १॥ . ____ अथ मतम् । अयं तर्हि हेतुर्बहिरंतरंगलक्षणो महोदयः पूरणादिष्वससंभवी इत्ययमपि व्यभिचारी, तथैव प्रतिपादयति अष्टशती-उद्दीपीकृतधर्मतीर्थमच लज्योतिर्बलत्केवलालोकालेकितलोकलाकमीखलैरिंद्रादिभिर्वदितं ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182