Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 111
________________ सनातनजैनग्रंथमालायां भावाभावैकांते विरोधं निरूप्योभयैकांतवादिनामपि न किंचित्संगच्छत इत्याहअष्टशती-बहिरंतश्च परमार्थसत् अन्यतरापायेऽपि साधनदूषणप्रयोगानुपपत्तेरिति प्रकृतार्थपरिसमाप्तौ किं त्रिलक्षणविकल्पनया । न हि संवृत्त्या साध्यसाधनव्यवस्था युक्तिमती । शून्यसिद्धेरपरमार्थत्वे पुनरनिराकृतसद्भावस्य सर्वस्याशून्यतानुषंगात् । समारोपव्यवच्छेदेऽपि समानं । हेयोपादेयोपायरहितमयमहीकः केवलं विक्रोशति । संवृत्त्यास्तीति सारूपेणेत्ययमर्थः ? कृतमनुकूलं । केवलं वक्ता आत्मनो वैयात्यं सूचयति । अथ पररूपेण नास्ति नाम्नि विवादात् एतदपि तादृगेव । तदेतेनोभयानुभयविकल्पः प्रत्युक्तः । तदस्ति मृषात्म नेति समानश्चर्चः । संवृत्तिर्विचारानुपपत्तिरित्ययुक्तं । तदभावात्तत्प्रतिपादनार्थ शास्त्रमुपदिशन्चुपदेष्टार चावर्णयन् सर्व प्रतिक्षिपतीति कथमनुन्मत्तः ? सौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रांतः कथं वभूवेत्यतिविस्मयमास्महे । तमन्ये पुनरद्यापि कीर्तयंतीति किं वत परमन्यत्र मोहनीयप्रकृतेः ॥ १२ ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।। अवाच्यतैकांतेऽप्युक्तिनांवाच्यमिति युज्यते ॥ १३ ॥ वृत्तिः-विरोधाट्यभिचारात् पूर्वापरासंगतत्वात् । न प्रतिषधवचनम् । एक आत्मा स्वभावो ययोस्तौ तथा तयोर्भावस्तदैकात्म्यम् । उभयोः सत्त्वासत्त्वयोरैकात्म्यमुभयैकात्म्यं भावाभावैक्यमित्यर्थः । न्यायो युक्तिः प्रमाणेन प्रमेयस्य घटना । स्याद्वाद एव न्यायः स्याद्वादन्यायस्तस्मै विद्विषस्तं वा विद्विषन्तीति स्याद्वादन्यायविद्विषस्तेषां स्याद्वादन्यायविद्विषामनेकांतवैरिणाम् । अथ भावाभावोभयकांतपक्षदोषदर्शनादवाच्यतैकांत आश्रीयते ? तथापि दोष एव अत आह। उच्यत इति वाच्यं न वाच्यमवाच्यं तस्य भावोऽवाच्यता सैव एकांतोऽविद्याध्यवसायोऽवाच्यतैकांतस्तरिमन्नवाच्यतैकांते अपि । शब्दार्थयोरवाच्यवाचकत्वेऽपि । उक्तिर्वचनं अवाच्यमित्यवक्तव्यमिति । न युज्यते न घटते । स्याद्वादन्यायविद्विषां वादिनामुभयैकात्म्यं न भवति । विरोधात् । विज्ञानशून्यवत् । तथावक्तव्यकांतपक्षेऽपि अवाच्यमित्येवं या उक्तिः साऽपि न युज्यते । सर्वथाऽवाच्यत्वात् । एकशब्देन घटपटादिवत् ॥ १३ ॥ एकहेलया यदि सर्वथा सदसदुभयावक्तव्यरूपं तत्त्वं नास्ति कथं तीत्याह अष्टशती-भावाभावयोरेकतरप्रतिक्षेपकांतपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युगच्छतोऽपि वाणी विप्रतिषिध्यते । तस्याः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कंचिदर्थ संतं तथैवासंतमाचक्षाणः स्वस्थः स्वाभ्युपगमेतरनिरासविधानकरणात् शून्यावबोधवत् । त्रैलोक्यं व्यक्तरपैति नित्यत्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधादिति वा. तदन्यथापेतमन्यथास्तीति स्याद्वादावलंबनमंधसर्पविलप्रवेशन्यायमनुसरति । योऽपि पक्षत्रयोपक्षिप्तदोषपरिजिहासया सर्वथाऽवक्तव्यतत्त्वमवलंबते सोऽपि कथमवक्तव्यं ब्रूयात् ? नैष दोषः स्वलक्षणमनिर्देश्यं प्रत्येकं कल्पनापोढमित्यादिवत् । तदप्यसत् यदसतः समुदाहृतं । यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षाने विषयो नैवास्ति ततस्तत्र प्रतिभासमानेपि न प्रति-- भासते। न केवलं विषयक्लात् दृष्टेरुत्पत्तिः-अपि तु चक्षुरादिशक्तेश्च । तदर्थवत् करणमनुकर्तुमर्हति न वाथै विशेषाभावात् । दर्शनस्य कारणांतरसद्भावेऽपि विषयानुकारानुकारित्वमेव, सुतस्येव. पित्राकारानुकरणमित्यपि वार्त स्वोपादानमात्रानुकरणत्वप्रसंगात् । उभयाकारानुकरणेऽपि रूपादिक्दुपादानस्यापि विषयतापत्तेरतिशयाभावात् । वर्णादेर्वा तद्वदविषयत्वप्रसंगात् । तज्जन्मरूपाविशेषेऽपि तदथ्यवसायनियमात बहिरर्थविषयत्वमित्यसारं। दर्शनस्यानध्यवसायात्मकत्वाददोषोऽयं प्रत्यक्षस्याध्यवसायहेतुत्वा'दित्यनिरूपितामिधानं तत्राभिलापाभावात् । तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं कि नाध्यवस्येत । यथैव हि प्रत्यभस्या-- मिलापसंसर्गयोग्यता नास्ति तथा तत्समनंतरभाविनोऽपि विकल्पस्य । तथाहि किंचित्केन चिद्विशिष्टं गृह्य-- माणं विशेषणविशेष्यतत्सबंधव्यवस्थाग्रहणमपेक्षते दंडिवत् । नचायमियतो व्यापारान् कर्तुं समर्थः ? प्रत्यक्षक्लोत्पत्तेरविचारकत्वात्-प्रत्यक्षवत् । नैतदेवं शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ततस्तही

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182