Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायांअष्टशती-प्रागभावानभ्युपगमे घटादेरनादित्वप्रसंगात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदमिव्यक्तिं तस्याः प्रागभावोंऽगीकर्तव्यः । तथाहि सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रं । सा यदि श्रवणज्ञानोत्पत्तिः सैव कथं प्राक सती यत्नतः कर्तव्या। योग्यतायां समानश्चर्चः । तदावरणविगमः प्राक किमभूत् भूतौ वा किं यत्नेन ? विशेषाधानमपि तागेव कर्तृकर्मकरणानां प्रागभावाभावात्, न कश्चिद्विशेषहेतुः, ताल्वादयो व्यंजका न पुनश्चक्रादयोऽपि इति । न हि व्यंजकव्यापृतिनियमेन व्यंजकं संनिधापयति । नायं दोषः सर्वगतत्वाद्वर्णानामित्यपि वातं ? अन्यत्रापि तथाभावानुषंगात् । इष्टत्वात् अदोषोऽयं न कारणव्यापारेष्वपि चोद्यानिवृत्तः । एतेनानवस्था प्रत्युक्ता तद्विशेषैकांते तद्वतोऽनुयोगस्तावतेति कर्तव्यतास्थानात् । अभेदैकांते पूर्ववत्प्रसंगः । परिणामेऽप्येषः पर्यनुयोगस्तदभिन्नानां क्रमशोवृत्तिर्माभूत् । भिन्नानां व्यपदेशोऽपि माभूत् संबंधासिद्धरनुपकारकत्वात् । उपकारेऽपि सर्व समानं अनवस्था च । विनाशान'युपगमे तस्य किंकृतमश्रावणं ? तदात्मानमखंडयतः कस्यचिदावरणत्वायोगात् । आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वा इत्येकांतः ? तमसापि घटादेरखंडने पूर्ववदुपलब्धिः किं न भवितुमर्हति ? स्वसवित्त्युत्पत्तौ कारणांतरापेक्षा माभूत् तत्करणसमर्थस्य, अन्यथा तदसामर्थ्यमखंडयदकिंचित्करं किं सहकारिकारणं स्यात् । तत्खंडने वा स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिरिति पूर्ववत्सर्वे । वर्णानां व्यापित्वान्नित्यत्वाच्च क्रमश्रुतिरनुपपनैव, समानकरणानां तादृशामभिव्यक्तिनियमायोगात् । सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तृश्रोक्तृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तित्वमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योर्न किंचिद्विरुद्धं पश्यामः । सर्वगतानामेष क्रमो दुष्करः स्यात् क्षणिकेष्वेव करणांगहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् । सर्ववर्णैकत्वप्रसंगात् । शक्यं हि वक्तुं-अभिव्यंजकभेदाद्वैश्वरूप्यं जलचंद्रवत् । क्वचित्प्रत्यक्षविरोधे ? तदन्यत्राप्यविरोधः कुतः? तदयं ताल्वादिव्यापारोपजनितश्रावणस्वभावं परित्यज्य विपरीतमासादयन्नपि नित्यश्चेन किंचिदनित्यं । युगपत्प्रतिनियतैकदेशमंद्रतारश्रुतेः कस्य चिदेकत्वेन क्वचिदनेकत्वसिद्धेः । न हि कथंचित् क्वचित्प्रत्यवमर्शो न स्यात्, तच्छेषविशेषबुद्धरभिव्यंजकहेतुत्वप्रक्लप्तौ सर्व समंजसं प्रेक्षामहे । तदेतेषां पुद्गलानां करणसंनिपातोपनीतश्रावणस्वभावः शब्दः पूर्वापरकोव्योरसन प्रयत्नानंतरीयको घटादिवत् पुद्गलस्वभावत्वे दर्शनविस्ता रविक्षेपप्रतीघातकर्णपूरणैकश्रोत्रप्रदेशाद्युपलंभो गंधपरमाणुप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिः-अस्पर्शत्वकल्पनामस्तं गमयति । निश्छिद्रानरगमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवन विरुध्येरन् अतो यत्नजनितवर्णाद्यात्मा श्रावणमध्यस्वभावः प्राक पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । ततः प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यक्रियां व्यावर्तयतीति निरूपाख्यत्वमित्यभिप्रायः । तदानु पूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ॥१०॥
सर्वात्मकं तदेकं स्यादन्योपाहव्यतिक्रमे ।
अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ वृत्तिः-सर्वो विश्वो निरवशेषः आत्मा स्वरूपं यस्य तत् सर्वात्मकम् । तत् किचिंद्वस्तु विवक्षितरूपं, एकं-अभेदरूपं-स्यात् भवेत् । अन्यस्य अपरस्य अपोहो-निराकरणं तस्य व्यतिक्रमः-निहवः निराकृतिः स तथाभूतः तस्मिन्नन्यापोहव्यतिक्रमे इतरेतराभावाभावे इत्यर्थः । अन्यत्र अत्यन्ताभावाभावे । समवायेन मीलनेन समुदायेन । व्यपदिश्यत कथ्येत अभ्युपगम्येत । सर्वथा सर्वप्रकारैः । खरविषाणादि । अथानयोरभावयोः को विशेषः ? इति चेत्-घटे पटाभाव इतरेतराभावः । कदाचित्कालांतरे तत्तेन स्वरूपेण भवति, शक्तिरूपेण विद्यमानत्वात् । अत्यंताभाव: पुनर्जीवत्वेन पुद्गलस्याभावः कदाचिदपि तेन स्वरूपेण न भवति ।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182