Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा । एतदुक्तं भवति-अन्यापोहव्यतिक्रमे सति, किंचिद्विवक्षितं सर्वात्मकमेकं भवति । अत्यंताभावाभावे पुनरैक्येन सर्वप्रकारैर्व्यपदिश्येत । ततो न किंचित्स्यात् ॥
भावैकांतपक्षे कुशलाकुशलकादेरघटनां प्रदर्य अभावकांतपक्षेऽपि भृशं न घटत इति प्रदर्शयन्नाह
अष्टशती-स्वभावांतरात्स्वभावव्यावृत्तिरन्याघोहः । संविदो ग्राह्याकारात्कथं चिद्व्यावृत्तौ- अनकांतसिद्धिः-अन्यथा संबंधासिद्धिः । अव्यावृत्तावन्यतरस्वभावहाने किंचित्स्यात् विषयाकारविकलस्यानुपलब्धेः । संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावांतरानुपलब्धेः स्वभावव्यावृत्तिः । शवलविषयनि से ऽपि लोहितादीनां परस्परव्यावृत्तिरन्यथा चित्रप्रतिभासासंभवाप्त्,तदन्यतमवत्तदालंबनस्यापि नीलादेरभेदस्वभावापत्तेः । तद्वतस्तेभ्योव्यावृत्तिरेकानेकस्वभावत्वात् रूपादिवत् अन्यथा द्रव्यमेव स्यान्न रूपादयः । स्वाभाविकत्वेऽपि निर्भासवैलक्षण्यं करणसामिग्रीभेदमनुविदध्यात् दूरासन्नकार्थोपनिबद्धनानादर्शननिर्भासवत् । प्रति पुरुष विषयस्वभावभेदो वा सामिग्रीसंबंबभेदात् । अन्यथा न केवलं रूपादेरभेदः । कस्य चित्क्रमशः संबंध्यंतरोपनिपातोऽपि स्वभावं न भेदयेत् । ततः क्रमवंत्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः । ततो यावंति संबंध्यंतराण तावंतः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः । न हि कस्यचित्केनचित् साक्षात्परंपरया वा संबंघो मास्ति निरुपाख्यत्वप्रसंगात् । तदेवं प्रतिक्षणमनंतपर्यायाः प्रत्येकमर्थसार्थाः । क्रमशोऽपि विच्छेदे, अर्थक्रियानुपपत्तेः । स्वभावमसंतन्वतः कचिदुपकारितानुपपत्तेः । कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायोगात् । स्वभावांतरानपेक्षणात् । तस्मादयमुत्पिसुरेव नश्यति । नश्वर एव तिष्ठति । स्थास्नुरेवोत्पद्यते । ततः प्रतिक्षणं त्रिलक्षणं-स्थितिरेवोत्पद्यते। विनाश एव तिष्ठति । उत्पत्तिरेव नश्यति । स्थितिरेव स्थास्यत्युत्पस्यते विनश्यति । विनाश एव स्थास्यति उत्पस्यते विनश्यति । उत्पत्तिरेव उत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिदुपरम इति भावः । द्रवति द्रोष्यति अदुद्रवत् सत्तैव विशिष्यते द्रव्य-क्षेत्र-काल-भावात्मना । ततः परस्परव्यावृत्तस्वभावाननंतगुणपर्यायान् प्रतिक्षणमासादयंती सत्तव तिष्ठतीत्यादि योज्यं । तथा भेदानेव संद्रवंतीत्यादि प्रतिपत्तव्यं । अत्यंताभावापकृतौ न कचित्किचित् कथंचित वर्तते तथा सर्व सर्वत्र सर्वदोपलभ्येत । कथं पुनरभावप्रतिपत्तिः ? कथंचन स्यात् । प्रत्यक्षस्य रूपादिस्वलक्षणविषयत्वात प्रमाणांतरस्यापि स्वकारणविषयत्वादंतशोऽनुपलब्धः । पर्युदासवृत्त्या वस्तुनि नियमादेकस्य कैवल्य इतरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो नावधारयति भावाभावप्रतिपत्तरभावाभ्युपगमात् । स्वपररूपादिभावाभावलक्षणत्वात् सर्वस्य निःश्रेणीपदबंधाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबंधान किंचित्प्रमाणं सर्वात्मना भावमभावं वा गृहीतु मर्हति अनियमप्रसंगात् । भावप्रमेयेकांतवादिनामभावप्रतिपत्तिरयुक्तिः अतो न भावप्रतिपत्तिः तत्प्रमेयतोपसंख्यानं प्रमाणद्वयनियमं विघटयति भावनैरात्म्यस्य प्रमाणाकारणत्वात् प्रतिबंधनियमपि माभूत् ॥११॥
अभावैकांतपक्षेपि भावापहववादिनां ।
बोधवाक्यं प्रमाणं न केन साधनदूषणम् ॥ १२ ॥ वृत्तिः-अभाव इति असन्निति एकांतो मिथ्याभिप्रायोऽभावकांतः । स एव पक्षोऽभ्युपगमस्तस्मिन्नप्यभावैकांतपक्षेऽपि । न केवलं भावकांते, किं त्वभावैकांतेऽपि भावस्य सत्त्वस्य अपहवः अभावो निराकरणं तं वदितुं शीलं येषां ते तथाभूतास्तेषां भावापहववादिनाम् । बोधो ज्ञानं स्वार्थानुमान, वाक्यं आगमः परार्थानुमानम् | बोधश्च वाक्यं च बोधवाक्यम् । प्रमीयतेऽनेनेति प्रमाणं स्वपरावभासकं ज्ञानं । न प्रतिषेधवचनम् । केन कतरेण । साधनं च दूषणं च साधनदूषणं द्वंदैकवद्भावः । स्वपक्षसिद्धिः परपक्षनिराकरणं । भावापहववादिनामभावकांते बोधवाक्ययोरप्यभावस्ततः प्रमाणाभावात् केन साधन केन वा दूषणं क्रियत इति संबंधः ॥ १२ ॥
। १ कुतश्चिदुपरमते पाठोऽयं लिखित. पुस्तके ।
२ असदिति पाठो लिखितपुस्तके ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182