Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तमीमांसा।
पुनर्गुणांतराधानमनेकं क्रमशोऽप्यनुभवतः किं विरुद्धयेत क्षणस्थायिनः कस्य चिदेव ग्राह्यग्राहकाकारवैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं विभ्राणस्य सामर्थ्यप्राप्तः-अन्यथा शून्यसंविदोविप्रतिषेधात् । तदयं क्षणस्थायिकारणं स्वसत्तायां कायं कुर्वदम्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि, सकलजगदेकक्षणवृत्तिप्रसंगात् । कारणस्य कार्यकालप्राप्तौ क्षणभंगभंगानुषंगात् । तदप्राप्नुवतस्तत्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् । ततः सुभाषितं कुशलाद्यसंभूतिरेकातग्रहरक्तश्विति ॥ ८ ॥
'भविकांते पदार्थानामभावानामपहवात् ।
सर्वात्मकमनाचंतमस्वरूपमतावकम् ॥ ९॥ वृत्तिः--भाव एवेति सन्नेवेति एकांतः असहायधर्मग्रहो भावैकांतः । सर्वथा सत्त्वाभ्युपगम इत्यर्थः । तस्मिन्भावैकान्ते पदार्थानां । पंचविंशतितत्त्वानां चेतनाचेतनदेवमनुजपशुनारकस्तम्भकुम्भाम्भःप्रभृतीनां वा अभावानां वस्तुधर्माणां हेत्वङ्गानां विशेषणमित्यर्थः, वहुवचनाच्चत्वारोऽपि परिगृह्यन्ते अपह्नवान्निराकरणादित्यर्थः । किं स्यात् ? सर्वे निरवशेषमात्मा स्वरूप यस्य तत्सर्वात्मकं विश्वमेकस्वरूपमित्यर्थः । आदिरुत्पत्तिःपूर्वस्मिन्नसत्त्वं | अंतोऽवसानं विनाशो वा आदिश्चान्तश्चाद्यंतौ तौ न विद्यते यस्य तदनाद्यन्तमनाद्यनन्तमित्यर्थः । स्वमात्मीयरूपमाकारः स्व आत्मैव वा रूपं स्वरूपं न विद्यते तद्यस्य तदस्वरूपं | अभाव इत्यर्थः । तवेदं तावकं न तावकमतावकं । किमुक्तं भवति-पदार्थानां भावैकांताभ्युपगमे अतावकं सर्वाद्यात्मकमनाद्यनंतमस्वरूपं स्यात् कस्मात्सर्वाभावापह्नवात् ॥९॥
अथ मतं केऽभावाः, कियंतो वा, कान्यनाद्यनंतानि ? कस्मादभावात् किं स्यादत आहः
अष्टशती-निष्पर्यायद्रव्यैकांतपक्षे सर्वात्मकत्वादिदोषानुषंगः कुतः पुनर्विशेषानपहृवीत तत्साधनव्यभिचारात् । संविनि सभेदाद्भावस्वभावभेदः प्रकल्प्यते, स पुनरभेदेऽप्यात्मनः खंडशः प्रतिभासमानात् , तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयं । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशाद् रूपादिव्यपदेशभाक ग्राह्यग्राहकसंवित्तिवत् । इतरेतराभावविकल्पोऽपि कथमयतार्थो न स्यात् वर्णादिविकल्पवत् । न हि वस्तुव्यतिरिक्तमसन्नाम प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हि तदवसानकारणाभावाद्भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणनिरुपाख्यस्य स्वभावकार्यादेरभावात् । कुतस्तत्प्रमितिः ? वस्तुनानात्वं बुद्धयादिकार्यनानात्वात् प्रतीयते । स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् । शक्तिनानात्वे प्रसवविशेषात् स चेव्यभिचारी ? तस्तद्गतिः । केवलमविद्यास्वभावदेशकालावस्थाभेदेनात्मनि परत्र चासतः स्वयमसता मिथ्याव्यवहारपदवीमुपनयति-यतः क्षणभंगिनो भिन्नसंततयः स्कंधा विकल्प्येरन् । अन्यथा चेति प्रतिभासकार्याद्यभेदेऽपि कस्य चिदेकत्वं प्रसाधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ? पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिरतिप्रसंगात् ॥ ९॥
कार्यद्रव्यमनादि स्यात्मागभावस्य निहवे।
प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनंततां ब्रजेत् ॥ १०॥ वृत्तिः-कार्यं च द्रव्यं च कार्यद्रव्य वस्त्वन्यथाभावः, घटादिकं । क्रियत इति कार्यम् । अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । अनाद्यनंतसर्वकालैकस्वरूपं नित्यमादिरहितं स्याद्भवेत् । प्राक पूर्वस्मिन्नभावः असत्त्वं प्रागभावः । मृत्पिण्डे घटस्यासत्त्वमित्यर्थः । तस्य प्रागभावस्य निहवे विलोपे निराकरणे । प्रध्वंसंस्य च विनाशस्य च घटस्य कपालनाशादय इत्यर्थः । धर्मस्य-विशेषस्य गुणस्य प्रच्यवे अभावे निराकरण | अनंतस्य भावोऽनंतता तामनंततामपयर्वसानं सर्वकालकार्यमिति संबंधनीयम् । ब्रजेत् गच्छेत् । किमुक्तं भवति-प्रागभावस्य निहवो यदि स्यात्कार्यद्रव्यमनादि स्यात् । प्रध्वंसाभावास्याभावस्य चाभावे तदेव कार्यद्रव्यमनंततां ब्रजेत् ॥ १० ॥
तृतीयचतुर्थाभावस्वरूपं तदभावे च यद्भवति

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182