Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 105
________________ सनातनजैनग्रंथमालायांअत्यक्षश्च स्युः किं व्याहन्यतं इति समानमग्न्यादीनां तथा चानुमानोच्छेदः स्यात् । तदभ्युपगमे-अस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किंचिदेतत्तया नैतत्तया वा यमभ्यु. पगंतुमर्हति । तदेवं प्रमेयत्वसत्त्वादिहेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषेधुमर्हति, संशयितुं वा । धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानैकांतिकत्वात् कथं सकलविदि सत्त्वसिद्धिः ? इति ब्रुवन्नपि देवानांप्रियः-तद्धर्मिस्वभावं न लक्षयति । शब्दानित्यत्वसाधनेपि कृतकत्वादावयं विकल्पः किं न स्यात् । । विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वादरसंभवद्बाधकत्वादेरपि संदिग्धसद्भावधर्मिधर्मत्वं सिद्धं बोद्धव्यं । यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्येत पक्षदोषः-अप्रसिद्धविशेषणत्वं तत एक व्याप्तिन सिद्धयेत् । अनर्हतश्चेत्-अनिष्टानुषंगोऽपि कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण, यस्य विवक्षितार्थप्रत्यक्षत्वं ?, इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं न केवल सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधन संशीतौ वा, तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति । स्यादप्रसिद्धविशेषणः पक्षः । इतरथाऽनिष्टानुःषंगः । कीदृक पुनः सामान्य नाम यदुभयदोषपरिहाराय प्रकल्प्येत, सर्वगतसाधनेऽपि समान अविवक्षितविशेषस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्ठितमिथ्याविकल्पोपाधेः ॥ ५॥ स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न वाध्यते ॥ ६॥ वृत्तिः-स (पूर्वप्रकान्तः तच्छब्दः) पूर्वप्रक्रान्तपरामर्शी त्वमेव-भवानेव नान्यः । अन्ययोगव्यवच्छेदफल एवकारः । असि-भवसि । निर्दोषः-अविद्यारागादिविरहितः क्षुधादिविरहितो वा अनंतज्ञानादिसंबंधेन इत्यर्थः ? कुत एतत् । युक्तिशास्त्राविरोधिवाक् यतः । युक्तिः-अनुमानं न्यायः तत्सहचरितं मध्यक्षमपि । शास्त्र आगम: स्याद्वादः ताभ्यां अविरोधिनी अविसंवादिनी वाक वाणी वचनं यस्यासौ युक्तिशास्त्राविरोधिवाक् । बहिर्व्याप्तिमंतरेणांताप्त्या सिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचन स्याऽविरोधः कुतः यावता यत्र वचनं तत्र विरोधो दृश्यते ? अत आह अविरोधः अविसंवादः । यत्-यस्मात् । इष्टं-मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वात् कुशलशब्दवत् । ते-तव । प्रसिद्धेन परमतापेक्षं विशेषणभेतत् ( परमतेन ) अनेकांतवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न बाध्यते अन्यथा न क्रियते, तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति-यो निर्दोषो विप्रकृष्टदर्शी स च त्वमेव भवसि । न्यायागमाविसंवादिवचनं । यतः अविरोधोऽपि, तव मतं न बाध्यते प्रसिद्धेन यस्मात् । , ननु भो वत्स मदीयं मतं न बाध्यते अन्येषां कि बाध्यते ? अत आह विप्रकर्यपि भिन्नलक्षणसंबंधित्वादिना कस्य चित्प्रत्यक्षं । सोऽत्र भवान्नहन्नेव-अन्येषां न्यायागम विरुद्धभाषित्वात् । विचित्राभिसंयंधितया व्यापारव्याहारादिसांकर्येण क्वचिदतिशयानिर्णये कैमर्थक्याद्विशेषेष्टिा ! ज्ञानवत्तोऽपि विसंवादात् क पुनराश्वासं लभेमहि ! । नचैव वादिनः किंचिदनुमानं नाम निरभिसंधीनामपि बहुलं कार्यस्वभावाऽनियमोपलंभात् । सति काष्ठादिसामिग्रीविशेषे कचिटुंपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयाप्तादृगिति दुर्लभनियमितायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत?। वृक्षः शिंशपात्वात् इति २ विज्ञानं मस्वसंबद्यं भूतपरिणामत्षा पित्तादिवत् । २ मुद्रितपुस्तकेऽयमधिकः पाठः। ३सहोच्चरितमित्यपि पाठः । . ४ अभिप्रायतया । ५ वचनादि । ६ अग्नेः । ७ अग्नेः। ८ सूर्यकांतमण्यादेः ।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182