________________
सनातनजैनग्रंथमालायांअत्यक्षश्च स्युः किं व्याहन्यतं इति समानमग्न्यादीनां तथा चानुमानोच्छेदः स्यात् । तदभ्युपगमे-अस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किंचिदेतत्तया नैतत्तया वा यमभ्यु. पगंतुमर्हति । तदेवं प्रमेयत्वसत्त्वादिहेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषेधुमर्हति, संशयितुं वा । धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानैकांतिकत्वात् कथं सकलविदि सत्त्वसिद्धिः ? इति ब्रुवन्नपि देवानांप्रियः-तद्धर्मिस्वभावं न लक्षयति । शब्दानित्यत्वसाधनेपि कृतकत्वादावयं विकल्पः किं न स्यात् । । विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वादरसंभवद्बाधकत्वादेरपि संदिग्धसद्भावधर्मिधर्मत्वं सिद्धं बोद्धव्यं । यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्येत पक्षदोषः-अप्रसिद्धविशेषणत्वं तत एक व्याप्तिन सिद्धयेत् । अनर्हतश्चेत्-अनिष्टानुषंगोऽपि कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण, यस्य विवक्षितार्थप्रत्यक्षत्वं ?, इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं न केवल सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधन संशीतौ वा, तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति । स्यादप्रसिद्धविशेषणः पक्षः । इतरथाऽनिष्टानुःषंगः । कीदृक पुनः सामान्य नाम यदुभयदोषपरिहाराय प्रकल्प्येत, सर्वगतसाधनेऽपि समान अविवक्षितविशेषस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्ठितमिथ्याविकल्पोपाधेः ॥ ५॥
स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् ।
अविरोधो यदिष्टं ते प्रसिद्धेन न वाध्यते ॥ ६॥ वृत्तिः-स (पूर्वप्रकान्तः तच्छब्दः) पूर्वप्रक्रान्तपरामर्शी त्वमेव-भवानेव नान्यः । अन्ययोगव्यवच्छेदफल एवकारः । असि-भवसि । निर्दोषः-अविद्यारागादिविरहितः क्षुधादिविरहितो वा अनंतज्ञानादिसंबंधेन इत्यर्थः ? कुत एतत् । युक्तिशास्त्राविरोधिवाक् यतः । युक्तिः-अनुमानं न्यायः तत्सहचरितं मध्यक्षमपि । शास्त्र आगम: स्याद्वादः ताभ्यां अविरोधिनी अविसंवादिनी वाक वाणी वचनं यस्यासौ युक्तिशास्त्राविरोधिवाक् । बहिर्व्याप्तिमंतरेणांताप्त्या सिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचन स्याऽविरोधः कुतः यावता यत्र वचनं तत्र विरोधो दृश्यते ? अत आह अविरोधः अविसंवादः । यत्-यस्मात् । इष्टं-मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वात् कुशलशब्दवत् । ते-तव । प्रसिद्धेन परमतापेक्षं विशेषणभेतत् ( परमतेन ) अनेकांतवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न बाध्यते अन्यथा न क्रियते, तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति-यो निर्दोषो विप्रकृष्टदर्शी स च त्वमेव भवसि । न्यायागमाविसंवादिवचनं । यतः अविरोधोऽपि, तव मतं न बाध्यते प्रसिद्धेन यस्मात् । ,
ननु भो वत्स मदीयं मतं न बाध्यते अन्येषां कि बाध्यते ? अत आह
विप्रकर्यपि भिन्नलक्षणसंबंधित्वादिना कस्य चित्प्रत्यक्षं । सोऽत्र भवान्नहन्नेव-अन्येषां न्यायागम विरुद्धभाषित्वात् । विचित्राभिसंयंधितया व्यापारव्याहारादिसांकर्येण क्वचिदतिशयानिर्णये कैमर्थक्याद्विशेषेष्टिा ! ज्ञानवत्तोऽपि विसंवादात् क पुनराश्वासं लभेमहि ! । नचैव वादिनः किंचिदनुमानं नाम निरभिसंधीनामपि बहुलं कार्यस्वभावाऽनियमोपलंभात् । सति काष्ठादिसामिग्रीविशेषे कचिटुंपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयाप्तादृगिति दुर्लभनियमितायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत?। वृक्षः शिंशपात्वात् इति
२ विज्ञानं मस्वसंबद्यं भूतपरिणामत्षा पित्तादिवत् । २ मुद्रितपुस्तकेऽयमधिकः पाठः। ३सहोच्चरितमित्यपि पाठः । . ४ अभिप्रायतया । ५ वचनादि । ६ अग्नेः । ७ अग्नेः। ८ सूर्यकांतमण्यादेः ।