________________
"अप्तमीमांसा।
क्षयो विगमः विश्लषः बहिरंतर्मलक्षयः । एतदुक्तं भवति । कस्मिंश्चिदतिशायनादोषावरणयोर्हानिरस्ति । यथा धातुपाषाणस्य अतर्मलक्षयः । स कश्चिद्भवत्येव गुरुरिति संबंधः । एकत्र स्वहेतवः सम्यग्दर्शनादयः । अन्यत्र पिण्डीबन्धनप्रयोगादयः । तथा एकत्र बहिर्मलः शरीरेन्द्रियादिकं । अन्तर्मलः कर्म । अन्यत्र बाहेमलः किटकादिकं । अन्तर्मल: कालिमादि ॥ ४ ॥
ननु विध्वस्तदोषाऽप्यात्मा कथं विप्रेकर्षिणमर्थं प्रत्यक्षीकुर्यात् ? । ( इति शङ्कायां ) साधनान्तरस्य बाधकाभावस्य भावनिरूपणमाहअधशती-वचनसामर्थ्यादज्ञानादिर्दोषः स्वपरपरिणामहेतुः, अत एव लोष्ठादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधान साध्यापरिज्ञानात् । दोषावरणयोर्हानिरतिशायनात् । निश्शेषतायां साध्यायां बुद्धरपि नि परिक्षयः स्याद्विशेषाभावात् । अतोनेऽकांतिको हेतुरित्यशिक्षितलक्षितं चेतनगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमनत्वात् । अदृश्यानुपलभादभावासिद्धिरित्ययुक्तं परचैतन्यनिवृत्तावारेकापत्तेः संस्कर्तृणां पातकित्वप्रसंगात् । वहुलमप्रत्यक्षस्यापि रोगादेविनिवृत्तिनिर्णयात् । व्यापारव्याहाराकारविशेषव्यावृत्तिसमयवात्तादृशं लोको विवेचयति । व्यापारव्याहाराकारविशेषव्यावृत्तेरिति. सययवशात्तसिद्धांतविल्लोको विवेचयाते । यदि पुनरयं निबंध सर्वत्र विप्रकर्षिणामभावासिद्धेः, तदा कृतकत्वधूमादेविनाशानलाभ्यां व्याप्तेरसिद्ध न कश्चिद्धेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत् , अनुमानोच्छेदप्रसंगात्।तथाहि, यस्य हानिरतिशयवती तस्य कुतश्चित्सर्वात्मना व्यावृत्तिर्यथा बुद्धयादिगुणस्यात्मनः । तथा च दोषादेर्हानिरतिशयवती कुतश्चिन्निवर्तयितुमर्हति, सकलं कलंकमिति कथमकलंकसिद्धिर्न भवेत् । मणेर्मलादेयावृत्तिः क्षयः सतायतविनाशानुपपत्तेः, तागात्मनोऽपि कर्मणां निवृत्तौ परिशुद्धिः, । कर्मणोऽपि वैकल्यमात्मकैवल्यमस्त्येव ततो ना तिप्रसज्यते । प्रतिपक्ष एवात्मनामागुंतुको मलः परिक्षयी स्वनिर्हासनिमित्तविवर्द्धनवशात् ॥ ४ ॥ ननु निरस्तोपद्रवः सन् आत्मा कथमकलंकोऽपि विप्रकार्षणमर्थ प्रत्यक्षीकुर्यात् ?
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्य चिद्यथा ।
अनुमेयत्वतोऽग्न्यादिरित सर्वज्ञसंस्थितिः ॥ ५॥ वृत्तिः-सूक्ष्माः स्वभावविप्रकृष्टाः । अंतरिताः कालविप्रकृष्टाः । दूराः देशविप्रकृष्टाः । ते च ते अर्थाश्च सूक्ष्मान्तरितदूरार्थाः । तथा च स्वभावाविप्रकृष्टा मन्त्रौषधिशक्तिचित्तादयः । कालविप्रकृष्टा लाभालाभसुखदुःखग्रहोपरोगादयः । देशविप्रकृष्टा मुष्टिस्थादिद्रव्यम् । दूरा. हिमवन्मंदरमकराकरादयः । प्रत्यक्षाः अव्यक्षाः प्रत्यक्षज्ञानगोचराः कस्यचित् । सामान्यकथनमेतत् । अनिर्दिष्टनामधेयस्य-यथा दृष्टांतप्रर्दशकः अनुमयाः अनुमानगम्याः । अथवा अनुगतं मेयं मानं येषां ते अनुमेयाः प्रमेया इत्यर्थः । तेषां भावस्तस्मादनमेयत्वतः । अग्निः पावकः आदिर्यस्यासावग्नादिः । इत्येवमनेन प्रकारेण सर्वज्ञस्य विश्वदर्शिनः सस्थितिव्यवस्था सर्वज्ञसंस्थितिः सर्वज्ञास्तित्वमित्यर्थः । भागासिद्धानेकांतिकविरुद्धहेत्वाभासाभावात् । ये ये प्रमेयास्ते ते प्रत्यक्षाः । यथा अग्न्यादयः । प्रमेयाश्च स्वभावकालदेशविप्रकृष्टा अर्थाः कस्य चित्पुरुषविशेपस्य तस्मात्तेऽपि प्रत्यक्षाः । अथवा ये अनुमानगभ्यास्ते प्रत्यक्षाः कस्य चित् । यथा अग्न्यादयः । अनुमानगम्याश्च सूक्ष्मान्तरितार्थास्तस्मात्तेऽपि प्रत्यक्षाः । सुनिश्चितासंभवद्बाधकप्रमाणस्य समर्थनमेतत् ।
विगतकर्मकलङ्कोऽपि विप्रकृष्टार्थदर्शी सामान्येन यः प्ररूपितः स कः? इति विशेषं दर्शयन्नाहअष्टशती-स्वभावकालदेशविप्रकर्षिणां अनुमेयत्वमसिद्धमिति–अनुमानमुत्सारयति । यावान् कश्चिद्भावः स सर्वः क्षणिकः-इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहाराऽयोगात् । अविप्रकर्षिणामनुमतेरानर्थक्यात् । सत्त्वादेरनित्यत्वादिव्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किंचिद्व्याहतं पश्यामः । तेऽनुमेयाः-न कस्य चि
१ विप्रकण लि. पु. पाठः। २ आग्रहः । '