________________
सनातननग्रंथमालायाकिमुक्तं स्यात् । न. सर्वेषामाप्तता परस्परविरोधात्समयानामागमानां.। एकोऽपि नः भवति प्रमाणाभावात् ।। अतः केन चिदेव भवितव्यं । एवमत्यन्ताभावाभावः कृतः । यदि. परस्परविरोधात्सर्वज्ञत्वभावो न भवति तर्हि. येषां सर्वज्ञविच्छेदकः संप्रदायस्तेषामाप्तता स्यात् ? अत आह-तीर्थकृदित्यादि । तीर्थ सर्वशं कृतंति छिंदंति इति तीर्थकृतः समया आम्नायाः सम्प्रदाया येषां ते. तीर्थकृत्समयास्तेषां अन्योऽन्यविरोधात् । सर्व. निरवशेषं अवगतं अगम्यावगमनं वा इच्छंति अभ्युपगच्छंति इति. सर्वेषः तेषां सर्वेषां आप्तता परमार्थ, वादित्वं नास्ति न विद्यते । अतः कः आत्मजीवः चिच्चतनोऽचेतनो भवत्येव । एवकारः अवधारणार्थः ॥ भवं संसारं यांति गच्छंति इति भवेतः तेषां भवेतां शक्रचक्रधरादीनामित्यर्थः । गुरुर्नाथः । भवेदगुरुः भवेतां गुरुः। ने च. लब्धात्मस्वरूपाणां । किमुक्तं भवति तीर्थकृच्छेदकाम्नायानामपि सर्वमेकेन प्रमाणेन. षड्भिरभ्युपगच्छतां आप्तता नास्ति परस्परविरोधात् । अतो यतिप्रतिरेव. स्यान्नान्यः ॥३॥.
पूर्वकारिकोपात्तमर्थ समर्थयन्सुपुष्कलहेतुमाह--
अष्टशती-न हि तीर्थकरत्वमाप्ततां साधयति शक्रादिष्वसभवि, सुगतादिषु दर्शनात् । न च सर्वेसर्वदर्शिनः परस्परविरुद्धसमयाभिधायिनः । ततोऽनैकांतिको हेतुः । अत एव न कश्चित् सर्वज्ञः-इत्ययुक्तं श्रुतेरविशेषादप्रमाणतोपत्तेः । तथेष्टत्वाददोष इत्येकेषामप्रामाणिकैत्रेष्टिः, न, खलु प्रत्यक्ष सर्वज्ञप्रमाणांतराभावविषय अति-- प्रसंगात् । नानुमानमसिद्धेः । प्रमाणतः सिद्ध नानात्मसिद्धं नाम-अन्यथा परस्यापि नसिद्धयेत् । तदिमे स्क्यमेकेन प्रमाणेन सर्व सर्वज्ञरहितं पुरुषसमूहं सविदतः एवात्मानं निरस्यंतीति व्याहतेमतत् । तीर्थच्छेदसंप्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां. स्वप्रमाव्यावृत्तेरन्यथानकांतिकत्वात् । सर्वप्रमाणविनिवृत्तरितरथासंप्रतिपत्तेः । वागक्षबुद्धीच्छापुरुषत्वादिकं. कचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिषेधवादिषु तथेति परमगहनमेतत् । तदित्थं सिद्धं सुनिश्चितासं: भवद्बाधकप्रमाणत्वं । तेन. कः परमात्मा? चिदेव लब्ध्युपयोगसस्काराणामावरणनिबंधनानामत्यये भवभूतां प्रभुः, न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासंभवसाधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि बाधकासंभवात्, परं प्रत्यक्षादेरपि विश्वासनिबंधनमस्ति तत्प्रकृतेऽपि सिद्धं, यदि तत्सत्तां न साधयत् सर्व त्राप्यविशेषात् । तदभावे दर्शनं नादर्सनमतिशेतेऽनाश्वासाद्विभ्रमवत्।साधकबाधकप्रमाणयोर्निर्णयाद्भावाभावयोरविप्रतिपत्तिरनिर्णयादारेका स्यात् । न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत तत्स्वभावांतरप्रतिषेघात् । चेतनस्य सतः:संबंध्यतरं माहोदयकारणकं मदिरादिवत्,तदभावे साकल्येन विरतमोहः सर्व पश्यति प्रत्यासत्तिविप्रकर्षयोरकिंचित्करत्वात् अत एवाक्षानपेक्षा । अजनादिसंस्कृतचक्षुषो यथालोकानपेक्षा ॥शा
दोषावरणयोहानिनिःशेषाऽस्त्यतिशायनात्।
कचिद्यथा स्वहेतुभ्यो बहिरंतर्मलक्षयः ॥ ४॥ . वृत्तिः-दोषः अज्ञानादि, कार्यरूपं । आवरणं कारणभूतं कर्म । अथवा मोहांतराया दोषाः ज्ञानदर्शनावरणे आवरणं । तयोर्हानिर्विनाशो विश्लेषो दोषावरणयोर्हानिः । सिद्धसाधनतानिराकरणार्थः निशेषा समस्ता समूलतलप्रहाणिः इत्युक्तं.। अस्ति भवति । अतिशायनात् प्रकृष्यमाणाज्ञानहानेः पूर्वावस्थातिरेकात् । क्वचित् कस्मिंश्चित्पुरुषविशेषे । यथा शब्दो दृष्टान्तप्रदर्शनफलः । स्वस्य आत्मनो हेतवःकारणानि ते तथाभूतास्तेभ्यः खहेतुभ्यः । बहिः किट्टकादिकं, अभ्यतरं कालिमादि तच्. तन्मलं च तस्य
१ भवितव्यमेवात्यंताभावाभावः कृतः पाठोऽयं लिखितपुस्तके । २लिखित पुस्तके नचालब्धात्मस्वरूपाणामितिः पाठः। ३ चार्वाकानां। ४ जनस्यापि। ५वैनायकानां । ६ अर्थग्रहणशक्तिलन्धिः अर्थग्रहणव्यापार उपयोगः। ७मीमांसकः। सिद्धसाध्यतेति लिखितपुस्तक पाठः।