________________
आप्तमीमांसा
वंदित्वा परमार्हता समुदयं मां सप्तभंगीविधि स्याद्वादामृतगर्भिणी प्रतिहतैकांतांधकारोदयों ॥ १॥ . तीर्थ सर्वपदार्थतत्त्रविषयस्याद्वादपुण्योदधे व्यानामकलंकभावकृतये प्राभावि काले कलौ ॥ येनाचार्यसमंतभद्रयतिना तस्मै नमः सततं कृत्वा विवियते स्तबो भमवतां देवागमस्तस्कृतिः ॥२॥
देवागमेत्यादिमंगलपुरस्सरस्तवीवषयपरमात्मगुणालिशयपरीक्षामुपक्षिपतैव स्वयं श्रद्धागुणज्ञतालक्षणं प्रयोजनमाक्षिप्तं लक्ष्यते तदन्यतरापायेऽर्थस्यानुपपत्तेः । शौस्त्रन्यायानुसारितया तथैवोपन्यासाल
आज्ञाप्रधाना हि त्रिदशागमादिकं परमेष्ठिनः परमात्मचिह्न प्रतिपद्यरत् नॉस्मदादयः तादृशो माया'विष्वपि भावात् , ईत्यागमाश्रयः ॥ १ ॥
अध्यात्म बहिरप्येष विग्रहादिमहोदयः।। दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥२॥
वृत्तिः-आत्मनि अधि अध्यात्म । सः अंतः। क्षुत्पिपासाजरारुजापमृत्य्वाद्यभाव इत्यर्थः । बहिरपि बाह्योऽपि । एषः प्रत्यक्षनिर्देशः । विग्रहो दिव्यशरीरमादिर्येषां, निस्वेदत्व-निर्मलत्वअच्छायत्वादीनां तानि विग्रहादीनि ते तान्येव वा महोदयः, विभूतेः पूर्वावस्थाया अतिरेकोऽतिशयो वा विग्रहादिमहोदयः, अमानुषातिशय इत्यर्थः । दिवि भवो दिव्यः । सत्यः अवितथः, मायास्वरूपो न भवति । दिवि द्यौ दिवि ओकः अवस्थानं येषां ते दिवौकसः नाकसदनार, तेष्वपि दिवौकस्स्वपि । अथवा दिवाशब्दोयं तेनैष्ठव्यः । रागो लोभमायेत्यादिर्येषां द्वेषादीनां ते रागादयः ते संति येषां ते रागादिमंतः, तेषु रागादिमत्सु अक्षीणकषायेष्वित्यर्थः । स महोदय इति । अयं महोदयो यद्यपि समासेऽतर्भूतस्तथापि अध्यात्ममहोदय इति संबंधः कर्त्तव्यः अंत्यस्य श्रुतत्वात् । अथवा बहिर्विग्रहादिमहोदयः अध्यात्मं च । किमुक्तं भवति । योऽपि विग्रहादिमहोदयो मायाविष्वसंभवी हेतुत्वेनोपन्यस्तः सोऽपि व्यभिचारी । स्वर्गिषु संभवात् ॥ २॥
द्वयोर्हेत्वोरनैकांतिकत्वं प्रदर्श्य अन्यैर्यस्तीर्थकरत्वेनोपन्यस्तस्तस्य हेतोरसाधकत्वं सर्वासर्वज्ञत्वं प्रदर्शयन्नाह
अष्टशती-बहिरंतः शरीरादिमहोदयोऽपि पूरणादिष्वसंभवी व्यभिचारी, स्वर्गिषु भावादक्षीणकषायेषु । ततोऽपि न भवान् परमात्मेति स्तूयते ॥२॥
. तीर्थकृत्समयानां च परस्परविरोधतः ।
सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३॥ वृत्तिः-तीर्थ संसारनिस्तरणोपायं करोतीति तीर्थकृत् । यतस्तीर्थकृत् भवान् अतः सर्वज्ञः । इत्ययमपि हेतुरनैकांतिकः सुगतादिषु दर्शनात् इत्यनुक्तोऽपि द्रष्टव्यः । अस्मिन्नवसरे वैनयिकः प्राहइष्टमस्माकं सर्वेषां सर्वज्ञत्वम् । अत आह-समयानां च परस्परविरोधतः अन्योऽन्यविसंवादात् , सर्वेषांमाप्तता नास्ति-विश्वषां सर्वज्ञत्वं न भवति । अथवा तीर्थकरत्वात्सर्वज्ञो न भवति, सुगतादिषु दर्शनात् । अतः सर्वे सर्वज्ञाः संतु इत्येतत्सर्वमुक्त्वा पश्चादिदं वक्तव्यं सर्वेषामाप्तता नास्ति । कुतः ! यतस्तीर्थकतां तत्समयानां च परस्परविरोधात् स्वरूपपदार्थविवाददर्शनात् । अत्रावसरे सर्वज्ञाभाववादी प्राह-सत्यं युक्तमेव न कश्चित् सर्वदर्शी इति ? । अत आह-कश्चिदेव-कोऽप्येव तेषां मध्ये भवेत् , स्यात् गुरुः-महान् स्वामी ।
१ प्रतिज्ञातं स्वीकृत २ देवागमस्तवस्य ३ अनुपपत्तिः कुत इत्यत आह ४ परीक्षाप्रधानाः ५ देवगमादिचिहस्य । ६। इति हेतोः। देवागमादिविभूतिखेनः महान् इत्ययं ।