Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 47
________________ आप्तपरीक्षा। ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवःकर्तोपदेशस्य सोऽभेत्ता कर्मभूभृतां ।। ७६ ॥ स्वतंत्रत्वे हि समवायस्य षण्णामाश्रितत्वम् "अन्यत्र नित्यद्रव्येभ्य" इति कथमाश्रितत्वं स्वयं वैशेषिकैरिष्टमिति तंत्रविरोधो दोषः । तस्याश्रितत्वप्रतिपादने स्वतंत्रत्वविरोधात् । पराश्रितत्वं हि पारसंध्यं तेन स्वातंत्र्यं कथं न प्रतिहन्यते । स्यान्मतं न परमार्थतः समवायस्याश्रितत्वं धर्मः कथ्यते यतस्तंत्रविरोधःस्यात् किंतूपचारत् निमित्तंतूपचारस्य समवायिषु सत्सु समवायज्ञानं समवायिशून्ये देशे समवायज्ञानासंभवात् परमार्थतस्तस्याश्रितत्वे स्वाश्रयनाशात् विनाशप्रसंगात् गुणादिवदिति । वदसत् । दिगादीनामप्येवमाश्रितत्वप्रसंगात् । मूर्तद्रव्येषु सत्सूपलब्धिलक्षणप्राप्तेषु दिलिंगस्येदमतः पूर्वेणैत्यादिप्रत्ययस्य काललिंगस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथाचान्यत्र नित्यद्रव्येभ्य इति व्याधात: नित्यद्रव्यस्यापि दिगादेरुपचारादाश्रितत्वसिद्धेः । सामान्यस्यापि परमार्थतोऽनाश्रितत्वमनुषज्यते स्वाश्रयविनाशेऽपि विनाशाभावात् समवायवत्तदिदै खाभ्युपगमविरुद्धं वैशेषिकाणां, उपचारतोऽपि समवायस्याश्रितत्वं स्वातंत्र्यं वा । किंच समवायो न संबंधः सर्वथाऽनाश्रितत्वात् यो यः सर्वथाऽनाश्रितः स स न संबंधो यथा दिगादिः, सर्वथाऽना. श्रितश्च समवायः तस्मान्न संबंध इति इहेदं प्रत्ययलिंगो यः स समवायो न स्यात् अयुतसिद्धानामाधार्याधारभूतानामपि संबंधांतरेणाश्रितेन भवितव्यं संयोगादेरसंभवात् । समवायस्याप्यनाश्रितस्य संबंधत्वविरोधात् । स्यादाकूतं । समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वं । प्रतिपत्तौ धर्मिप्राहकप्रमाणबाधितःपक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्येत । समवायो हि यतः प्रमाणात्प्रतिपन्नस्ततएवायुतसिद्धसंबंधत्वं प्रतिपन्नमयुतसिद्धानामेव संबंधस्य समवायव्यपदेशसिद्धेरिति । तदपि न साधीयः । समवायिग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्याविष्वग्भावलक्षणस्य प्रतिपत्तेस्तस्यानाश्रितत्वाभ्यपगमे चासंबंधत्वस्य प्रसंगेन साधनात । साध्यसाधनयोाप्यव्यापकभावसिद्धौ परस्य व्याप्याभ्युपगमे तनांतरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । नानाश्रितत्वमसंबंधत्वेन व्याप्तं दिगादिष्वसिद्धं । नाप्यनैकांतिकमनाश्रितस्य कस्यचित्संबंधत्वाप्रसिद्धेः विपक्षे वृत्यभावात् तत एव न विरुद्धं । नापि सत्प्रतिपक्षं तस्यानाश्रितस्यापि संबंधत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायः संबंधोऽस्ति यतः प्रतिनियमः कस्यचित्कचित्समवायिनि व्यवस्थाप्यते । भवतु वा समवायः । किमेकोऽनेको वा । यदि सर्वत्रैकएव समवायोऽभ्युपगम्यते तदा महेश्वरे ज्ञानं समवैति न पुनरेवं दिगादौ वेति कथमवबुध्यते । इहेति प्रत्ययादिति चेन्न तस्येह शंकरे ज्ञानमिति प्रत्ययस्यैकसमवायहेतुकस्य खादिव्यवच्छेदेन शंकर एव ज्ञानसमवायसाधनासमर्थत्वात् । नियामकादर्शनारेदस्य व्यवस्थापयितुमशक्तेः । ननु च विशेषणभेद एव नियामकः सत्तावत् सत्ता हि द्रव्यादिविशेपणभेदादेकापि भिद्यमाना दृष्टा प्रतिनियतद्रव्यादिसत्वव्यवस्थापिका द्रव्यं सत् गुणःसन् कर्म सदिति, द्रव्यादिविशेषणविशिष्टस्य सत्प्रत्ययस्य द्रव्यादिविशिष्टसत्ताव्यवस्थापकत्वात् तद्वत्समवायिविशेषणविशिष्टहेदं प्रत्ययाद्विशिष्टसमवायिविशेषणस्य समवायस्य व्यवस्थितेः । समवायो हि यदुपलक्षितो विशिष्टप्रत्ययात्सिध्यते तत्प्रतिनियमहतुरेवामिधीयत यथेह तंतुषु पट इति तंतुपटविशिष्टेहेदं प्रत्ययात्तंतुष्वेव पटस्य समवायो नियम्यते न वीरणादिषु नचायं विशिष्टेहदंप्रत्यय: सर्बस्य प्रतिपत्तुः प्रतिनियतविषयः समनुभूयमानः पर्यनुयोगार्हः किमितिभवन् तत्रैव प्रतिनियतोऽनुभूयते न पुनर. न्यत्रेति । तथा तस्य पर्यनुयोग कस्यचित्स्वेष्टतत्त्वव्यवस्थानुपपत्तेः । तव्यवस्थापकप्रत्ययस्यापि पर्यनुयोग्यत्वानिवृत्तेः । सुदूरमपि गत्वा यदि कस्यचित्प्रत्ययविशेषस्यानुभूयमानस्य पर्यनुयोगाविषयत्वात् । ततस्तत्वव्यवस्थितिरभ्युपगम्यते तदेहशंकरे ज्ञानमिति विशिष्टहेदंप्रत्ययात्प्रमाणोपपन्नात्तत्रैव ज्ञान समवायो व्यवतिष्ठते न खादिषु । विशेषणभेदात्समवायस्य भेदप्रसिद्धेरिति केचिद्व्युत्पन्नवैशेषिकाः

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182