Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैन ग्रंथमालायांप्रत्ययसमधिगम्यः कथांचत्तयोरैक्यमव्यतिरेकात् ययोस्तु नैक्यं न तयोरव्यतिरेकः यथा हिमवद्विध्ययोरव्यतिरकश्च द्रव्यपर्याययोस्तस्मात्तयोरैक्यमिति केवलव्यतिरेकी हेतुः ननु चैक्यमव्यतिरेक एव स एव हेतुः कथर्मुपपन्नः स्यात्साध्यसमत्वादिति न मंतव्यं कथंचित्तादात्म्यस्यैक्यस्य साध्यत्वात् परस्परमशक्यविवेचनत्वस्याव्यतिरेकस्य साधनत्वात् तस्य साध्यसमत्वाभावात् परस्परंव्यतिरेचनं व्यतिरेकः, तदभावस्त्वव्यतिरेकंः सच शक्यविवेचनमेवेति कथं साध्यसमत्वं नचैवमसिद्धो हेतुः कस्यचिज्जीवादिद्रव्यस्य स्वपर्यायेभ्यो ज्ञानादिभ्यः परद्रव्यपर्यायांतराणि स्वपर्यायाणांच ज्ञानादीनां द्रव्यांतरं नेतुमशक्यत्वस्य परस्परमशक्यविवेचनत्वस्य द्रव्यपर्याययोः सुप्रसिद्धत्वात् अन्यथा ज्ञानादिपर्यायाणां जीवपर्यायत्वायोगात् जीवादिद्रव्यत्वस्य च तद्व्यत्वविरोधात् ननु सत्यपि द्रव्ये तत्पर्यायाणामुत्पादात् उत्पन्नानां च विनाशात् कथमशक्यविवेचनत्वं सिद्धमिति तु न शंकनीयं पर्यायाणामुत्पादविनाशाभावे पर्यायत्वायोगात् तेषामुत्पादव्ययलक्षणत्वात् द्रव्यस्य ध्रौव्यलक्षणत्ववत्॥
समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य नोदेति नो विनश्यति भावनयालिंगितो नित्यं ॥
इति वचनात् । न च कालाभेदोऽशक्यविवेचनत्वं एककालवर्तिनां नानार्थानामतिप्रसंगातू ततः कालाभेदे सत्यपि द्रव्यपर्यायो शक्यविवेचनत्वं यथोक्तलक्षणं विरुद्ध्यते । देशाभेदोऽशक्यविवेचनमित्यपि वार्त वातातपादीनामपि तत्प्रसंगात् शौस्त्रीयो देशाभेदोऽशक्यविवेचनत्वमिति चेत्तर्हि द्रव्यपर्याययोस्तत्कथमासद्धं ॥ न पर्यायाणां रूपादीनां घटादिद्रव्यदेशत्वात् घटादिद्रव्यस्य तु स्वारंभकावयवदेशत्वात् तत्पदार्थान्तरत्वसिद्धिरिति चेन्न प्रमाणाभावात् गुणगुणिनौ क्रियाक्रियावंतौ जातितद्वंतौ विशेषतद्वंतौ अवयवावायविनौ च परस्परतः पदार्थांतरभूतौ भिन्नप्रतिभासत्वात् यौ यौ भिन्नप्रतिभासौ तौ तौ परस्परतः पदार्थांतरभूतौ यथा घटपटौ भिन्नप्रतिभासौ तौ इत्यनुमानसद्भावान्न प्रमाणाभाव इति चेन्न अस्यानुमानस्य विरुद्धत्वात् इष्टविरुद्धस्य कथंचिदार्थातरस्य साधनात् कथंचिद्भिन्नप्रतिभासत्वस्य कथंचिदार्थातरेण व्याप्तत्वात् सर्वथा भिन्नप्रतिभासत्वस्य हेतुत्वे पुनरसिद्धो हेतुः दृष्टांतश्च साध्यसाधनविकल: प्रतीयते घटपटयोः सर्वथा
तरत्वस्य साध्यस्य सर्वथाभिन्नप्रतिभासत्वस्य च साधनधर्मस्याप्रातीतिकत्वात् । सँव्याद्यात्मना तयो रभिन्नत्वादभिन्नप्रतिभासमानत्वाच्च । ननु च सद्व्याद्यात्मनोऽपि घटपटाभ्यां भिन्नत्वात् कथं तेन तयोरभेदः स्यात् । अभिन्नप्रतिभासत्वं वा, सत्वं हि परसामान्यं सत्स्वभावः द्रव्यत्वं चापरसामान्यं द्रव्यस्वभावः तथा पार्थिवस्वभावोपि इति कथमसौ ततोनार्थांतरभूतः स्यादिति कश्चित् सोऽपि न युक्तवादी सत्वादीतरत्वे तयोरसत्वप्रैसंगातू द्रव्यादिस्वभावाच्चात्यंतभेदे तयारद्रव्यादिप्रसक्तेः । सत्तासंबधात् तयोः सत्वं द्रव्यत्वसंबंधात् द्रव्यत्वोपपत्तेः पार्थिवत्वादिसंबंधात्पार्थिवत्वादिव्यवस्थानान्नदोष इति चेत् कथमेसतः स्वयमद्रव्यस्यापार्थिवादेश्च । तेंदत्यंतभिन्नसत्वादिसंबंधादपि सैदादिरूपता युक्ता स्वरविषाणादेरपि तत्प्रसंगात् । प्रागसदादेः सत्तादिसंबंधात् सैंदादिरूपत्वे प्रध्वंसाभावस्य स्वकारणव्यापारात्प्रागभूतस्य तदनंतरं भवतः सत्तादिप्रसंगः । तस्य तदापि सत्तादिसंबंधासंभवात् न तत्प्रसंग इतिचेत्तदिदं जाड्यविज्रभितं, आक्षेपस्यैव परिहारतया व्यवहारात् प्रागसतः सत्तासंबंधात्सत्वेऽपि प्रध्वंसाभावस्य सत्तासंबंधः कस्मान्न भवति, ततः सत्वं चेत्याक्षेपः तस्य सत्तासंबंधासंभवात् इति स एव परिहारः कथमजडैरभिधीयते साध्यमेव च साधनं कुतस्तस्य सत्तासंबंधाभावः सत्तासंबंधाभावादिति कुतः सत्तासंबंधलक्षणसत्वाभावः सत्तासंबंधाभावादिति वा यदिः पुनः प्रागैसत्वादविशेषेऽपि घटपटयोरेव सत्तासंबंधः तन्निमित्तं च सत्त्वं तथा
१ द्रव्यपर्याययोः। २ परस्परमशक्यविवेचनत्वात् । ३ बौद्धः। ४ अनयोः कश्चिद्भेदो नार्थेन दृश्यते यतः। ५ जैनः। ६ पृथकरणं । ७ बौद्धः । ८ ध्रौव्यरूपे । घटपटादीनां । १०युक्किमन्न । ११शास्त्रे भवः शास्त्रीयो न तु लौकिक: १२ जैनः । १३ परः। १४ तत्रस्थितलादित्यर्थः । १५ तयोर्द्रव्यपर्याययोर्मिनलसिद्धिः। १६ वाधितस्य । १७ अंगीक्रियामाणे । १८ इदं सदिदंसदिति द्रव्यं खरूपेण । १९ भिन्नलेसति । २. नास्तिवं स्यादित्यर्थः। २१ अंगीक्रियमाण । २१ अविद्यमानस्य । २३ खरूपेण । २४ सद्व्यपार्थिवेभ्यः। २५ सत्वद्रव्यत्वपार्थिवत्व । २६ आदि शब्देन द्रव्यपार्थिवयोर्ग्रहणं । २७ अस्मत्कृतप्रतिषेधस्यैव । २८ प्रतिपादनादित्यपि पाठः व्यवहरणातू प्रतिपादनातू। १९ चेत हे योग इतिमतं वर्तते । ३० पुनरसत्वायविशेषेऽपि पाठः।

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182