Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 86
________________ पत्रपरीक्षा। प्रतीतेः न पुनः प्रध्वंसाभावस्य तदभावादिति मतं तदा कथंचित्सत्तादितादत्म्यात् सत्तादिव्यवहारो घटपटयोरिति नैकांतेन सत्वादि ततो भिन्न येन सद्व्यात्मना घटपटयोरभेदः कथंचिदभिन्नप्रतिभासत्वं वा न स्यात् साध्यसाधनवैकल्यं वा दृष्टांतस्य ततो न द्रव्यपर्यायोर्भेदैकांतसाधनं निरवद्यमस्ति यतस्तयोः पदार्थातरत्वसिद्धौ शास्त्रीयदेशभेदलक्षणशक्यविवेचनत्वोपपत्तेः अशक्यविवेचनत्वमव्यतिरेको हेतुरसिद्धः शक्येत नचायमनकांतिको विरुद्धो वा सर्वदा विपक्षे वृत्त्यभावात् इति सिद्धत्येवातो हेतोः कथंचिद्रव्यपर्याययोरैक्यं तथा “द्रव्यपर्याययोरेक्यं परिणामविशेषात् ययोस्तु नैक्यं न तयोः परिणामविशेषः, यथा सह्यविंध्ययोः परिणामविशेषश्च द्रव्यपर्याययोः तस्मादैक्यमित्यपि व्यतिरेकीहेतुः ननु च कोयं परिणामविशेषोनाम यदि पूर्वविनाशादुत्तरोत्पादस्तदा वाद्यसिद्धः निरन्वयविनाशात्यंतापूर्वोत्पादयोः स्याद्वादिनामनिष्टत्वात् । अथ पूर्वस्य तिरोभावादुत्तरस्याविर्भावस्तदापि वौद्यसिद्धः सर्वथासतस्तिरोभावाविर्भावमात्रानभ्युपगमात् एतेन स्वाश्रयाद्भिन्नस्वभावः समवायात्तत्र वर्तमानः परिणामविशेष इति वाद्यसिद्धः प्रतिपादितः तेषां तथाप्यनभ्युपगमात् अथ पूर्वापरस्वभावत्यागोपादानान्वितस्थितिलक्षणस्तदा प्रतिवाद्यसिद्धः सौगतसांख्ययोगानां तथाँभूतपरिणामविशेषासिद्धेः इति कश्चित्सोपि न युक्तवादी पूर्वापरस्वभावत्यांगोपादानान्वितस्थितिलक्षणस्य परिणामविशेषस्य प्रमाणतः सिद्धत्वात् । तथा हि सर्व वस्तु यथोक्तपरिणामविशेषभाक् सत्वात् सर्वथाप्यपरिणामिनि सौगैतादीष्टपरिणामेन परिणामिनि च सत्वविरोधात् तद्विरोधश्च अर्थक्रियाव्याघातात् तद्व्याघातश्च क्रमयौगपद्यासम्भवात् तदसंभवश्च निरन्वयविनश्वरनिरंशैकांते देशकालकृतक्रमस्य नानाकार्यकरणशक्तिनानात्वनिबंधनयोगपद्यस्य च विरोधात् सर्वथा सदात्मकफूटस्थवत् परस्परतोऽत्यंतभिन्नधर्मधर्मिमात्रवच्च नह्यत्र देशकृतः क्रमः पिपीलिकादिवत् नापि कालकृतो वा बीजांकुरादिवत् संभवत्येकैस्यानेकदेशकालवार्तनोर नभ्युपगमात् यो यत्रैव स तत्रैव यो यदैव तदैव सः “न देशकालयोर्व्याप्तिर्भावानामिह विद्यते” इतिवचनात् ननु च क्षणिकैकस्वलक्षणापेक्षया देशकालव्याप्त्यभावात् भावानां माभूत् देशकालकृतः क्रमः सकृदेकस्यानेकस्वभावापेक्षया यौगपद्यवत् संतानापेक्षया तु स्यात् तस्यानेकसैहकारिकालापापेक्षया अनेककार्यकरणयोगपद्यवत् इति चेन्न संतानसमुदाययोरेव क्रमयोगपद्याभ्यामक्रियाकारित्वात् वस्तुत्वसिद्धिप्रसंगात् स्वॆलक्षणस्यावस्तुतापत्तेः । स्यौदाकूतं यदन्वयव्यतिरेकानुविधानात्क्रमशः कार्योत्पत्तिस्तत्स्वलक्षणं क्रमशः कार्यकारि यथा कस्यचिज्जाग्रद्विज्ञानं क्रमशः स्वप्नज्ञानप्रबोधज्ञानादिकारणं किंचित्तु युगपत्कार्यकौरि यदन्वयव्यतिरेकाभ्यां यौगपद्येन कार्योत्पत्तिः यथा प्रदीपस्वलक्षणं तैलशोषणांधकारापनयंकारणं । न चैवमेकस्यानेकस्वभावापत्तिस्तस्य तादृशैकस्वभावत्वात् इति तदसत् कूटस्थस्या प्येवं क्रमाक्रमकार्यकारित्वोपपत्तेः शक्यं हि वक्तुं शाश्वतिको भावः स्वान्वयव्यतिरेकाभ्यां क्रमेणाक्रमेण वानेकं कार्य प्रादुर्भावयन् तथा तान्निमित्तं । नचानेकस्वभावत्वं तस्य तथाविधैकस्वभावत्वात् ॥ नित्यस्य कथं व्यतिरेक इति चेत् क्षणिकस्य कैथं । सकलकालकलाव्याप्तेरिति चेत् नित्यस्यापि सकलदेशाव्याप्तेर्व्यतिरेकोऽस्तु । नैनु नित्याद्भिन्नकार्यस्योत्पत्तौ - १ आदिशब्देन द्रव्यत्वपार्थिवत्वयोर्ग्रहणं । २ कुतो न स्यात् स्यादेव । ३ सर्वथा भेदनियमे साधनं सर्वथा न घटते इति भावः । ४ स्वरूपेण । ५ घटपटयोर्द्रव्यपर्यायो । ६ विवेचनस्य तदुपपत्तौ। ७कुतः शक्यत न कुतोऽपि । ८उत्पाद व्ययध्रौव्यात्मकत्वात् । ९ बौद्धः । १० चेत् । ११(वादिनां) जनानामसम्मतः । १२ जनानामभिमतः। १३ न्यायेन १४ घटपटादेः । १५ सौगतसांख्ययोगोक्तप्रकारेण परिणामस्थानंगीकारात् । १६ परिणामविशेषश्चेत् । १७ जैनोक्तलक्षणपरिणामविशेषस्यासिद्धरित्यर्थः । १८ पूर्वापरखभावार्यथासंख्य ग्राह्य । १९ उत्पादव्ययध्रौव्यरहिते। २० आदि शब्देन सांख्ययोगयोग्रहणं । २१ खरविषाणादौ । २२ निरन्वयविनाशात्यंतापूर्वोत्पादः पूर्वस्य तिरोभावादुत्तरस्याविर्भावः खाश्रयाद्भिन्नस्वभाव: समवायात्तत्र वर्तमानः परिणामविशेष इति लक्षणे निरंशःक्षणिकः । २३सदरूपैकरूपतया कालव्यापि कूटस्थतत्त्वं सांख्यापेक्षया प्रायं । २४ सौगतादीष्टतत्त्वस्य । २५ कारणसमुदायापेक्षया । २६ शुद्धवस्तुनः । २७ वौद्धः। २८ स्वलक्षणं । २९ भवतीत्यध्याहारः । ३. स्वलक्षणस्य । ३१ क्रमयोगपद्याभ्यामर्थक्रियाकारित्वलक्षणः । ३२नित्यस्य ३३ क्षणिकाक्षणिकवादिनोः परस्परं बदतोः ३४ स्वलक्षणं यथा । ३५ बौद्धः। ३६ असत्यसद्भावोव्यतिरेकः । ३७ व्यतिरेक इत्याध्याहारः। ३८ जनः । ३९ बौद्धः।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182