________________
पत्रपरीक्षा। प्रतीतेः न पुनः प्रध्वंसाभावस्य तदभावादिति मतं तदा कथंचित्सत्तादितादत्म्यात् सत्तादिव्यवहारो घटपटयोरिति नैकांतेन सत्वादि ततो भिन्न येन सद्व्यात्मना घटपटयोरभेदः कथंचिदभिन्नप्रतिभासत्वं वा न स्यात् साध्यसाधनवैकल्यं वा दृष्टांतस्य ततो न द्रव्यपर्यायोर्भेदैकांतसाधनं निरवद्यमस्ति यतस्तयोः पदार्थातरत्वसिद्धौ शास्त्रीयदेशभेदलक्षणशक्यविवेचनत्वोपपत्तेः अशक्यविवेचनत्वमव्यतिरेको हेतुरसिद्धः शक्येत नचायमनकांतिको विरुद्धो वा सर्वदा विपक्षे वृत्त्यभावात् इति सिद्धत्येवातो हेतोः कथंचिद्रव्यपर्याययोरैक्यं तथा “द्रव्यपर्याययोरेक्यं परिणामविशेषात् ययोस्तु नैक्यं न तयोः परिणामविशेषः, यथा सह्यविंध्ययोः परिणामविशेषश्च द्रव्यपर्याययोः तस्मादैक्यमित्यपि व्यतिरेकीहेतुः ननु च कोयं परिणामविशेषोनाम यदि पूर्वविनाशादुत्तरोत्पादस्तदा वाद्यसिद्धः निरन्वयविनाशात्यंतापूर्वोत्पादयोः स्याद्वादिनामनिष्टत्वात् । अथ पूर्वस्य तिरोभावादुत्तरस्याविर्भावस्तदापि वौद्यसिद्धः सर्वथासतस्तिरोभावाविर्भावमात्रानभ्युपगमात् एतेन स्वाश्रयाद्भिन्नस्वभावः समवायात्तत्र वर्तमानः परिणामविशेष इति वाद्यसिद्धः प्रतिपादितः तेषां तथाप्यनभ्युपगमात् अथ पूर्वापरस्वभावत्यागोपादानान्वितस्थितिलक्षणस्तदा प्रतिवाद्यसिद्धः सौगतसांख्ययोगानां तथाँभूतपरिणामविशेषासिद्धेः इति कश्चित्सोपि न युक्तवादी पूर्वापरस्वभावत्यांगोपादानान्वितस्थितिलक्षणस्य परिणामविशेषस्य प्रमाणतः सिद्धत्वात् । तथा हि सर्व वस्तु यथोक्तपरिणामविशेषभाक् सत्वात् सर्वथाप्यपरिणामिनि सौगैतादीष्टपरिणामेन परिणामिनि च सत्वविरोधात् तद्विरोधश्च अर्थक्रियाव्याघातात् तद्व्याघातश्च क्रमयौगपद्यासम्भवात् तदसंभवश्च निरन्वयविनश्वरनिरंशैकांते देशकालकृतक्रमस्य नानाकार्यकरणशक्तिनानात्वनिबंधनयोगपद्यस्य च विरोधात् सर्वथा सदात्मकफूटस्थवत् परस्परतोऽत्यंतभिन्नधर्मधर्मिमात्रवच्च नह्यत्र देशकृतः क्रमः पिपीलिकादिवत् नापि कालकृतो वा बीजांकुरादिवत् संभवत्येकैस्यानेकदेशकालवार्तनोर नभ्युपगमात् यो यत्रैव स तत्रैव यो यदैव तदैव सः “न देशकालयोर्व्याप्तिर्भावानामिह विद्यते” इतिवचनात् ननु च क्षणिकैकस्वलक्षणापेक्षया देशकालव्याप्त्यभावात् भावानां माभूत् देशकालकृतः क्रमः सकृदेकस्यानेकस्वभावापेक्षया यौगपद्यवत् संतानापेक्षया तु स्यात् तस्यानेकसैहकारिकालापापेक्षया अनेककार्यकरणयोगपद्यवत् इति चेन्न संतानसमुदाययोरेव क्रमयोगपद्याभ्यामक्रियाकारित्वात् वस्तुत्वसिद्धिप्रसंगात् स्वॆलक्षणस्यावस्तुतापत्तेः । स्यौदाकूतं यदन्वयव्यतिरेकानुविधानात्क्रमशः कार्योत्पत्तिस्तत्स्वलक्षणं क्रमशः कार्यकारि यथा कस्यचिज्जाग्रद्विज्ञानं क्रमशः स्वप्नज्ञानप्रबोधज्ञानादिकारणं किंचित्तु युगपत्कार्यकौरि यदन्वयव्यतिरेकाभ्यां यौगपद्येन कार्योत्पत्तिः यथा प्रदीपस्वलक्षणं तैलशोषणांधकारापनयंकारणं । न चैवमेकस्यानेकस्वभावापत्तिस्तस्य तादृशैकस्वभावत्वात् इति तदसत् कूटस्थस्या प्येवं क्रमाक्रमकार्यकारित्वोपपत्तेः शक्यं हि वक्तुं शाश्वतिको भावः स्वान्वयव्यतिरेकाभ्यां क्रमेणाक्रमेण वानेकं कार्य प्रादुर्भावयन् तथा तान्निमित्तं । नचानेकस्वभावत्वं तस्य तथाविधैकस्वभावत्वात् ॥ नित्यस्य कथं व्यतिरेक इति चेत् क्षणिकस्य कैथं । सकलकालकलाव्याप्तेरिति चेत् नित्यस्यापि सकलदेशाव्याप्तेर्व्यतिरेकोऽस्तु । नैनु नित्याद्भिन्नकार्यस्योत्पत्तौ - १ आदिशब्देन द्रव्यत्वपार्थिवत्वयोर्ग्रहणं । २ कुतो न स्यात् स्यादेव । ३ सर्वथा भेदनियमे साधनं सर्वथा न घटते इति भावः । ४ स्वरूपेण । ५ घटपटयोर्द्रव्यपर्यायो । ६ विवेचनस्य तदुपपत्तौ। ७कुतः शक्यत न कुतोऽपि । ८उत्पाद व्ययध्रौव्यात्मकत्वात् । ९ बौद्धः । १० चेत् । ११(वादिनां) जनानामसम्मतः । १२ जनानामभिमतः। १३ न्यायेन १४ घटपटादेः । १५ सौगतसांख्ययोगोक्तप्रकारेण परिणामस्थानंगीकारात् । १६ परिणामविशेषश्चेत् । १७ जैनोक्तलक्षणपरिणामविशेषस्यासिद्धरित्यर्थः । १८ पूर्वापरखभावार्यथासंख्य ग्राह्य । १९ उत्पादव्ययध्रौव्यरहिते। २० आदि शब्देन सांख्ययोगयोग्रहणं । २१ खरविषाणादौ । २२ निरन्वयविनाशात्यंतापूर्वोत्पादः पूर्वस्य तिरोभावादुत्तरस्याविर्भावः खाश्रयाद्भिन्नस्वभाव: समवायात्तत्र वर्तमानः परिणामविशेष इति लक्षणे निरंशःक्षणिकः । २३सदरूपैकरूपतया कालव्यापि कूटस्थतत्त्वं सांख्यापेक्षया प्रायं । २४ सौगतादीष्टतत्त्वस्य । २५ कारणसमुदायापेक्षया । २६ शुद्धवस्तुनः । २७ वौद्धः। २८ स्वलक्षणं । २९ भवतीत्यध्याहारः । ३. स्वलक्षणस्य । ३१ क्रमयोगपद्याभ्यामर्थक्रियाकारित्वलक्षणः । ३२नित्यस्य ३३ क्षणिकाक्षणिकवादिनोः परस्परं बदतोः ३४ स्वलक्षणं यथा । ३५ बौद्धः। ३६ असत्यसद्भावोव्यतिरेकः । ३७ व्यतिरेक इत्याध्याहारः। ३८ जनः । ३९ बौद्धः।