________________
सनातन जैन ग्रंथमालायां
देशव्यतिरेकस्यापि न संभवः तदनुत्पत्तौ तु तदेशस्यैव कार्यस्य सर्वदोत्पत्तेः प्रतीतिविरोध इति चेत् तर्हि क्षणिकाद्भिनैकालस्य कार्योत्पादे व्यतिरेकाभावस्तदभावएव तद्भावात्, तदभिन्नकालस्योत्पादे कार्यत्वविरोधः सैंमसमयवर्तित्वात्स्वात्मँवत् । क्षणिकलक्षणे स्वकाले सति भवतः कालांतरेऽपि कार्यस्यान्वयवत् तदा तस्मिन्नसर्त्यभवतो व्यतिरेकः सिद्ध्यतीति चेत् तर्हि नित्येऽपि स्वदेशे सति देशांतरेऽपि भवतः कार्यस्यान्वयवत् तत्राप्यसति तस्याभवतो व्यतिरेकः सिद्ध्येत् । नचैवमनभिमतदेशस्यापि कार्यस्य जन्म प्रसज्यते नित्यवादिनः क्षणिकवादिनोऽपि तदनभिमतकालस्य जन्मप्रसंगात् । ततः स्वयोग्यभिन्नकालस्योत्पत्तौ नित्यादपि स्वयोग्यभिन्नदेशस्योत्पत्तेरलं प्रबंधेन सर्वथा क्षणिकेतरवादिनोः परस्परमैनतिशयात् क्षणिकैकांतस्य तस्यान्यंत्र प्रपंचतो निराकरणाच न पूर्वापरस्वभावविनाशोत्पादमात्रेण परिणामेन परिणामि सर्वं वस्तु नाप्याविनाभावमात्रेण नित्यैकान्ते तदनुपपत्तेः कूटस्यैस्याविर्भावतिरोभावोत्पत्तौ तदवस्थाविरोधात् अनित्यतानुषंगात् तदवस्थयोस्तदुपपत्तौ ततस्तयोर्भेदर्कंल्पानतिक्रमात् भेदे नित्यस्यावस्थेति व्यपदेशसिद्धिः संबंधाभावात् । अवस्थावस्थावद्भावएव संबंधइतिचेत् न तस्य भेदैकांते सह्यविंध्यवदघटनात् । एतेन द्रव्यस्य भिन्नेन गुणादिना परिणामेन परिणामित्वं प्रत्याख्यातं गुणादिद्रव्ययोः समवायस्यापि भेदैकांते तद्वदनुपपत्तेरविशेषात् । देशाभेदात्तयोः संबंध इति चेन्न वातातपयोरात्माकाशयोर्वा तत्प्रसंगात् कालभेदादुभयाभेदाच्च स तयोंरित्यस्याप्यनेनापास्तं । तयोरविश्वग्भावादुपपन्नः संबंध: इति चेत् स यदि देशकालाभेद एव तदा सएव दोषः ततोन्यश्चेत् स्वभावाभेदः, प्रतिभासाभेदो, व्यपदेशाभेदो, वा न तावत्स्वभावाभेदः संभवति द्रव्यस्य गुणादेश्च भिन्नस्वभावत्वोपममात् । प्रतिभासव्यपदेशाभेदोऽपि न युक्तः, तस्यासिद्धत्वात् । कथंचिदेकद्रव्यतादात्म्यमविश्वग्भाव इति चेत् स्याद्वादमतसिद्धिः सैवास्तु गत्यंतराभावात् इति यथोक्तपरिणामेनैव परिणामित्वं सत्त्वस्य व्यापकं सिद्धं ततस्तस्यैव साधनमिति सिद्धः परिणामविशेषो हेतुः द्रव्यपर्याययोः कथंचिदैक्यं साधयति । यथैव हि द्रव्यस्य द्रव्यरूपतया स्थितिः, पूर्वापरपर्यायरूपतया तु नाशोत्पादौ परिणामविशेषस्तथा पर्यायस्यापि स्वरूपेणात्मलाभो विनाशश्च द्रव्यरूपतया तु स्थितिरिति तल्लक्षणः परिणामविशेषोऽस्त्येव । तथा द्रव्यपर्याययोः कथंचिदैक्यं शक्तिमच्छक्तिभावात् ययोस्तु नैक्यं न तयोः शक्तिमच्छक्तिभाव: यथा सह्यविन्ध्ययोः शक्तिमच्छक्तिभावश्च द्रव्यपर्याययोरिति व्यतिरेकी हेतुरन्यथानुपपत्तिलक्षणः साध्यं साधयति । शक्तिमद्धि द्रव्यं शक्तय: पर्यायाः प्रतीताएव तद्भावः शक्तिमच्छक्तिभावः सिद्धोन्यथानुपपत्त्यात्मको हेतुः । न चान्यथानुपपत्तिरसिद्धा कथंचिदैक्यमंतरेण द्रव्यपर्याययोर्भेदैकांते तदभेदैकांते च शक्तिमच्छक्तिभावस्यासंभवात् । अशक्यविवेचनलक्षणपरिणामविशेषवत् । तथा द्रव्यपर्याययोः कथंचिन्नानात्वं संज्ञासंख्यालक्षणप्रयोजनप्रतिभासभेदात्कुटपटवत् शक्रपुरंदरादिसंज्ञाभेदेन कलत्रं दारा इत्यादिसंख्याभेदेन ज्ञानादिस्वलक्षणभेदेन तापोद्योतादिप्रयोजनभेदेन स्पष्टास्पष्टादिप्रतिभासभेदेन च व्यभिचारी हेतुरितिचेन्न तस्यापि कथंचिद्भेदमंतरेणानुपपद्यमानत्वात् सर्वस्यैकानेकस्वभावताविनिश्वयात् संज्ञेयसंख्येयस्वलक्ष्य प्रयोज्यप्रतिभा स्वभावभेदार्पणायामेव संज्ञादिभेदव्यवहारसिद्धेरन्यथातिप्रसंगात् ततोऽनवद्यं द्रव्यपर्याययोः कथंचिद्भेदसाधनं कथंचिदैक्यसाधनवत् नचैवं विरोधवैयधिकरण्यादिदूषणं, प्रमाणसिद्धयोः कथंचिद्भेदाभेदयोस्तदगोचरत्वात् कचित्सर्वथा भेदाभेदयोरेव विरोधादिविषयतयावसायात् । ननु च द्रव्यपर्याययोर्यमात्मानमाश्रित्य भेदो यंचाश्रित्याभेदस्तौ यदि ततो भिन्नौ तदा भेदएव न हि भिन्नादभिन्नमभिन्नंनाम नानाभाजनस्थक्षीरादभिन्नक्षरांतरवत् अथाभिन्नौ तथापि न भेदः तदुक्तं
यावात्मानौ समाश्रित्य भेदाभेदौ द्वयोस्तयोः । तावभिन्नौ ततः स्यातां यदि भेदस्तदा न किम् ॥ १ ॥ किं भिन्नौ यदि तौ भेदः सर्वथा केन वार्यते । भिन्नादभिन्नयोर्भेदा भिन्नार्थादभेदवत् ॥२॥
१ नित्यस्थितस्यैव । २ भिन्नः कालो यस्य । ३ कारणाभावएव । ४ कार्यसद्भावात् । ५ कारणाभिन्नकालस्य । ६ कार्यकारणयोः। ७ क्षणिकस्वरूवपवत् । ८ अनुत्पद्यमानस्य ९ उत्पद्यमानस्य ।१० भिन्नो देशो यस्य कार्यस्य तस्य । ११ विस्तरेण । १२ अतिशयरहितत्वात् । १३ देवागमालंकारादी | १४ एकरूपतया तु यः कालव्यापी स कूटस्थाः । १५ व्याप्तावङ्गीक्रियमाणायां । १६ कूटस्थादाविर्भावतिरोभावौ भिन्नावभिनौ वा ।