Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 90
________________ पत्रपरीक्षा | न च सर्वगतामूर्तनित्यैकात्मात्र युज्यते । वर्णो बाोंद्रियग्राह्यस्वभावत्वाद् घटादिवत् ॥१॥ इति वर्णव्यतिरिक्तं पदं वाक्यं वा स्फोटास्यमित्यपि न संभवति ग्राहकाभावात् अर्थप्रतिपत्त्यन्यथानुपपत्तिग्राहिकेति चेन्न तस्यास्तत्त्वतः कथंचिद्वर्णात्मकपदवाक्य हेतुत्वोपपत्तेः परोपगतस्फोटस्यानभिव्यक्तस्यार्थप्रतिपत्तिहेतुत्वविरोधात्, वर्णैस्तदभिव्यक्तेरपि प्रत्येकमयोगात्, वर्णातरोच्चारणवैयर्थ्यात्, पौनःपुन्येन वाक्यार्थ बोधनानुषंगात् समुदितैरपि तदभिव्यक्तेरसंभवात्, वर्णानां समुदायाघटनात् पूर्ववर्णश्रवणाहितसंस्कारस्य प्रतिपत्तुरंत्यवर्णश्रवणानंतरं तदभिव्यक्तौ तथार्थप्रतिपत्तेरेव सिद्धेः स्फोटपरिकल्पना वैयर्थ्या त्, प्रतीत्यतिलंघनाच्च क्रमविशिष्टवर्णविशेषेभ्य एवार्थप्रतीतिसद्भावात् तेषामेव पदवाक्यरूपत्वोपपत्तेः । न चागममात्रात् पद'वाक्यस्फोटप्रतिपत्तिस्तस्य प्रामाण्यसिद्धेः । न चान्यग्राहकमस्ति यतस्तद्व्यवस्था तत्वतः स्यात् तदुक्तं — ११ नर्ते वर्णात्पदं नाम नच वाक्यं पदादृते । स्फोटाख्यं ग्राहकाभावात् परेष्टस्यास्य तत्त्वतः ॥१॥ यस्य पुनः स्याद्वादिनः शब्दात्मकं बाह्यं वाक्यं पुद्गलरूपं चिदात्मकं चांतरंगमात्मस्वभावं प्रमाणासिद्धयति तस्य वाक्यं पत्रं भवेत् प्रोक्तलक्षणेनान्वितं सिद्धे धार्मेण वाक्ये तद्धर्मस्योदितलक्षणस्य परीक्षाविषयत्वघटनात् । ननु चानेकांतवादिनोऽपि वाक्यस्य ग्राहकं किं प्रमाणं यतस्तत्सिद्धिरिति चेत् चिदात्मनोंऽतरंगस्य स्वसंवेदनप्रत्यक्षं तदात्मरूपत्वात् वर्णपदवाक्यज्ञानपरिणतो ह्यात्मा भावतो वर्णः पदं वाक्यं च गीयते ततएवार्थप्रतिपत्तिघटनात् लिंगज्ञानात्मकभावलिंगालिंगि प्रतिपत्तिवत्, चक्षुरादिज्ञानाद्रूपादिप्रतिपत्तिवच्च, सर्वस्याचेतनस्यार्थप्रतिपत्तिहेतुविरोधात् अन्यत्रोपचारात् तत्कारणत्वात् तत्कार्यत्वाच्च तदुपचारसिद्धेः । तथा बाह्यस्येंद्रियप्रत्यक्षं ग्राहकं तत एव तत्पुद्गलात्मकं तदनात्मकस्येंद्रियप्रत्यक्षप्राह्यत्वानुपपत्तेरिति विचारितमन्यत्र प्रपंचेन । तदुक्तं बाह्यं शब्दात्मकं वाक्यमंतरंगं चिदात्मकं । पुद्गलात्मस्वरूपं तु प्रमाणाद्यस्य सिद्ध्यति ॥ १ ॥ तत्र वाक्यं भवेत् पत्रं तत्त्वतो लक्षणान्वितं । सिद्धे धर्मिणि धर्मस्य परीक्षाविषयत्वतः ॥२॥ इति स्वाभ्युपगममात्रात् सर्वथैकांतवादिनां विद्यमानमपि वाक्यं धर्मिणः स्वेष्टार्थसाधनत्वधर्माधिकरणं स्वसाध्यार्थाविनाभाविलिंगस्य कस्यचिदपि अनुपपत्तेः तदभिधानात् सर्वस्य हेतोरसिद्धत्वाच्च । तदुच्यते वाक्यं सदपि नैकांतपक्षे स्वेष्टार्थसाधनं । स्वासाध्यार्थाविनाभावि लिंगस्यानुपपत्तितः ॥ १॥ असिद्धत्वाच्च सर्वस्य हेतोस्तदभिधानतः । कार्थसिद्धिस्तथाचोक्तं तत्त्वार्थश्लोकवार्तिके ॥२॥ तत्र स्वरूपतोsसिद्धो वादिनः शून्यसाधने । सर्वे हेतुर्यथा ब्रह्मतत्त्वोपप्लवसाधने ॥ ३ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचित्तु सर्वथैकांतवादिनः || ४ || शब्दाविनश्वरत्वे तु साध्ये कृतकतादयः । हेतवोऽसिद्धतां यांति बौद्धादेः प्रतिवादिनः ||५|| जैनस्य सर्वथैकांते धूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धाः पर्वतादौ तथा मितः ॥ ६ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्ध इष्यते । निश्शेषोऽपि तथाशून्यब्रह्माद्वैतप्रवादिनोः ॥७॥ वाद्यसिद्धोभयासिद्धौ तत्र साध्याप्रसाधनौ । समर्थनविहीनः स्यादसिद्धः प्रतिवादिनः ॥ ८ ॥ हेतुर्यस्याश्रयो न स्यादाश्रयासिद्ध एव सः । स्वसाध्येन विनाभावाभावादगमको मतः ॥९॥ प्रत्यक्षादेः प्रमाणत्वे संवादित्वादयो यथा । शून्योपप्लवशब्दाद्यद्वैतवादावलंबिनां ॥ १० ॥ संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते । यथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः ॥११॥ सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धो विभाव्यते । सौगतादेर्यथा सर्वः सत्त्वादिः स्वेष्टसाधने ॥१२॥ न निर्विकल्पकाध्यक्षादस्ति हेतोर्विनिश्चयः । तत्पृष्ठजाद्विकल्पाच्चावस्तुगोचरतः कचित् ॥ १३॥ अनुमानांतराद्धेतुनिश्चये बानवस्थिति: । परापरानुमानानां पूर्वपूर्वत्र वृत्तितः ॥ १४ ॥ ज्ञानं ज्ञानांतराध्यक्षं वेदतानेनदर्शितः । सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः ॥ १५ ॥ अर्थापत्तिपरिच्छेद्यं परोक्षज्ञानमादृताः । सर्वे ये तेप्यनेनोक्ता स्वाज्ञातासिद्धिहेतवः ॥ १६ ॥ प्रत्यक्षं तु फलज्ञानमात्मानं वा स्वसंबिदं । प्राहुर्ये करणज्ञानं व्यर्थं तेषां निवेदितं ॥ १७॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182