Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 50
________________ सनातनजेनग्रंथमालायांस्योत्पादएव प्रागभावाभावस्ततोऽर्थातरस्यासंभवात् कथं तेन कार्यस्यप्रतिबंधः सिध्येत् कार्योत्पादामागभावाभावस्यार्थातरत्वे प्रागेव कार्योत्पादःस्यात् शश्वदभावाभावे शश्वत्सद्भाववत् । नान्यदैवाभावस्याभावोऽन्यदेव भावस्य सद्भाव इति अभावाभावसद्भाबयोः कालभेदो युक्तः सर्वत्राभावाभावस्यैव भावसद्भावप्रसिद्धेः भावाभावस्याभावप्रसिद्धिवत् तथा च कार्यसद्भाव एव तदभावाभावः कार्याभाव एव च तद्भावस्याभाव इत्यभावविनाशवद्भावविनाशप्रसिद्धः न भावाभावो परस्परमतिशयाते यतस्तयोरन्यतरस्यैवैकत्वनित्यत्वे नानात्वानित्यत्वे वा व्यवतिष्ठते ॥ तदनेनासत्वस्य नानात्वमनित्यत्वं च प्रतिजानता सत्त्वस्यापि तत्पतिज्ञातव्यमिति कथंचित्सत्तैका सदिति प्रत्ययाविशेषात् । कथंचिदनेकी प्राक्सदित्यादि सत्प्रत्ययभेदात् । कथंचिन्नित्या सैवयसत्ततिप्रत्यभिज्ञानात् कथंचिदनित्या कालभेदात पूर्वसत्ता पश्चात्सत्तेति सत्प्रत्ययभेदात् सकलबाधकामावादनुमंतव्या तत्प्रतिपक्षभूताऽस: त्तावत् । ततः समवायिविशेषणविशिष्टेहेदं प्रत्ययहेतुत्वात् समवायः समवायविशेषप्रतिनियमहेतु द्रव्यादिबिशेषणविशिष्टसत्प्रत्ययहेतुत्वा व्यादिविशेषप्रतिनियमहतुः सत्तावादतिविषमउपन्यासः सत्ताया नानाखसाधनात् तद्वत्समवायस्य नानात्वसिद्धेः सोऽपि हि कथंचिदक एव इहेदंप्रप्रत्ययाविशेषात् । कथंचिदनेक एव नानासमवायिविशिष्टहेदंप्रत्ययभेदात् । कथंचिन्नित्य एक प्रत्यभिज्ञायमानत्वात् । कथंचिदनित्य एव कालभेदेन प्रतीयमानत्वात् । नचैकत्राधिकरणे परस्परमेकत्वानेकत्वे नित्यत्वानित्यत्वे वा विरुद्धे सकलबाधकरहितत्वे सत्युपलभ्यमानत्वात् कथंचित्सत्वासत्ववत् । यदप्यभ्यधायि सत्त्वासत्त्वे नैकत्र वस्तुनि सकृत्संभवतस्त्रयोः विधिप्रतिषेधरूपत्वात् । ययोविधिप्रतिषेधरूपत्वं ते नैकत्र वस्तुनि सकृत्संभवतो यथा शीतत्वाशीतत्व । विधिप्रतिषेधरूपे च सत्त्वासत्त्वे तस्मान्नकत्र वस्तनि सकृत्संभवत इति । तदप्यनुपपन्नं वस्तुन्येकत्राभिधेयत्वानभिधेयत्वाभ्यां सकृत्संभवत्र्यां व्याभिचारात कस्यचित्स्वाभिधायकाभिधानापेक्षया अभिधेयत्वमन्याभिधायकाभिधानापेक्षया चानाभ धेयत्वं सकृदुपलभ्यमानमबाधितमेकत्राभिधेयत्वानाभधेयत्वयाः सत्संभवं साधयतीत्यभ्यनन्नाने स्वरूपाद्यपेक्षया सत्त्वं पररूपाचपेक्षया चासत्वं निर्बाधमनुभूयमानमेकत्र वस्तुनि सत्वासत्वयोः सकृत्संभवं किं न साधयेत् विधिप्रतिषेधरूपत्वाविशेषात् । कथंचिदुपलभ्यमानयोर्विरोधानवकाशात् यनैव स्वरूपेण सत्वं तेनैवासत्वमिति सर्वथाऽर्पितयारव सत्वासत्वयो युगपदकत्र विरोधसिद्धः । कथंचित्सत्वासत्वयोरेकत्र वस्तुनि सकृत्प्रसिद्धौ च तद्वदेकत्वानेकत्वयोनित्यत्वानित्यत्वयांश्च सकृदेकत्र निपायान्न किं: चिद्विप्रतिषिद्धं समवायस्यापि तथा प्रतीतरबाधितत्वात् । सर्वथैकत्व महश्वर एव ज्ञानस्य समवाया: वृत्तिन पुनराकाशादिस्विति प्रतिनियमस्य नियामकमपश्यतो निश्चयासंभवात् । न चाकाशादीनामचेतनता नियामिका चेतनात्मगुणस्य ज्ञानस्य चेतनात्मन्येव महेश्वरे समवायोपपत्तरचतनद्रव्यगगनादौ तदयोगात ज्ञानस्य तद्गुणत्वाभावादिति वक्तुं युक्तं । शंभोरपि स्वतोऽचेतनत्वप्रतिज्ञानात् खादिभ्यस्तस्य विशेषासिद्धः । स्यादाकूतं नेश्वरः स्वतश्चेतनोऽचेतनो वा चेतनसमवायातुचेतयिता खाद. यस्तु न घेसनासमवायाश्चेतयितारः कदाचिदतोऽस्ति तेभ्यस्तस्य विशेष इति । तदप्यसत् । स्वतामहे: श्वरस्य स्वरूपानवधारणानिःस्वरूपतापत्तेः । स्वयं तस्यात्मरूपत्वान्न स्वरूपहानिरितिचेन्न । आत्मनाऽप्या स्मत्वयोमादात्मत्वेन व्यवहारोपगमात् स्वतोऽनात्मत्वादात्मरूपस्याप्यासद्धः। यदि पुनः स्वयं नात्मामहेशो नाप्यनाल्मा केवलमात्मत्वयोदात्मेति मतं । तदा स्वतः किमसौस्यात् ? द्रव्यामिति चेन्नः । द्रव्य त्वयोगाहव्यव्यवहारवचनात् । सतो द्रव्यस्वरूपेणापि महेश्वरस्याव्यवस्थितेः । यदि तु न स्वतोऽसौ. द्रव्यं नाप्यद्रव्यं द्रव्यत्वयोगाहव्यामिति प्रतिपाद्यते । तदा न स्वयं द्रव्यं स्वरूपस्याप्यभावात किंस्वरूपः शंभुर्भवेदिति वक्तव्यं । सन्नेव स्वयमसाविति चेन्न । सत्वयोगात्सन्निति व्यवहारसाधनात् स्वतः सपस्याप्रसिद्धेः । अथ न स्वतः सन्नचासन् सत्वसमवायात्तु सन्नित्यभिधीयते तदा व्याघातो दुरु: सरः स्यात् सत्वासत्वयोरन्योन्यव्यवच्छेदरूपयोरेकतरस्य प्रतिषेधेऽन्यतरस्य. विधानप्रसंगात् उभय प्रतिषेधस्यासंभवात् । कथमेवं सर्वथा सत्वोसत्वयाः स्याद्वादिभिः प्रतिषेधे तेषां व्यघातो न भवेदिति चेन्न

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182