Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 56
________________ सनातनजेनग्रंथमालायांसुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः । विश्वतत्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ७४ ॥ योयस्तत्वतो विश्वतत्त्वज्ञताऽपेतः स स न निर्वाणमार्गस्य प्रतिपादको यथाकपिलादिस्तथा च सुगत इत्येवं नासिद्धं साधनं तत्त्वतो विश्वतत्त्वज्ञतापेतत्वस्य सुगते धर्मिणि सद्भावात् । स हि विश्वत वान्यतीतानागतवर्तमानानि साक्षात्कुर्वस्तहेतुकोऽभ्युपगंतव्यः तेषां सुगतज्ञानहेतुत्वाभावे सुगतज्ञान विषयत्वविरोधात् । नाकारणं विषय इति स्वयमभिधानात् । तथाऽतीतानां तत्कारणत्वेऽपि न वर्तमानानामर्थानां सुगतज्ञानकारणत्वं समसमयभाविना कार्यकारणभावाभावादन्वयव्यतिरेकानुविधाना योगात् । नबननुकृतान्वयव्यतिरेकोऽर्थः कस्यचित्कारणमिति युक्तं वक्तुं । नाननुकृतान्वयव्यतिरेक कारणमिति प्रतीतेः । तथा भविष्यतां चार्थानां न सुगतज्ञानकरणता युक्ता यतस्तद्विषयं सुगतज्ञानं स्यादिति विश्वतत्त्वज्ञतापेतत्वं सुगतस्य सिद्धमेव तथा परमार्थतः स्वरूपमात्रावलंबित्वात् सर्वविज्ञानानां सुगतज्ञानस्यापि स्वरुपमात्रविषयत्वमेवोररीकर्तव्यं तस्य बहिरर्थविषयत्वे स्वार्थसंवेदकत्वात् सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति वचनं विरोधमध्यासीत । बहिराकारतयोत्पद्यमानत्वात् सुगतज्ञानस्य बहिरर्थविषयत्वोपचारकल्पनायां न परमार्थतो बहिरर्थविषयं सुगतज्ञानमतस्तत्त्वत इति विशेषणमपि नासिद्धं साधनस्य । नापि विरुद्धं विपक्षएव वृत्तेरभावात् कपिलादी सपक्षेऽपि सद्भावात् । ननु तत्त्वतोविश्वतत्त्वज्ञतापेतेन मोक्षमार्गस्य प्रतिपादकेन दिग्नागाचार्यादिना साधनस्य व्यभिचार इति चेन्न । तस्यापि पक्षीकृतत्वात् । सुगतग्रहणेन सुगतपतानुसारिणां सर्वेषां गृहीतत्वात् । तार्ह स्याद्वादिनाऽनुत्पन्नकेवलज्ञानेन तत्त्वतो विश्वतत्त्वज्ञतापेतेन सूत्रकारादिना निर्वाणमार्गस्यो पदेशकेनानैकांतिकं साधनमिति चेन्न । तस्यापि सर्वज्ञप्रतिपादितनिर्वाणमार्गोपदेशित्वेन तदनुवादफत्वात् प्रतिपादकत्वसिद्धेः । साक्षात्तत्त्वतो विश्वतत्त्वज्ञ एव हि निर्वाणमार्गस्य प्रवक्ता, गणधरदेनादयस्तु सूत्रकारपर्यंतास्तदनुवक्तारएव गुरुपर्वक्रमाविच्छेदादिति स्याद्वादिनां दर्शनं ततो न तैरनेकांतिको हेतुर्यतः सुगतस्य निर्वाणमार्गस्योपदेशित्वाभावं न साधयेत् । स्यान्मतं न सुगतज्ञानं विश्वतत्त्वेभ्यः समुत्पन्नं तदाकारतां चापनं तदध्यवसायि च तत्सक्षात्कारि सौगतैरभिधीयते । " भिन्नकालं कथं प्राह्यमितिचेग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षम " मित्यनेन तदुत्पत्तितादृप्ययोग्राह्यत्वलक्षणत्वेन व्यवहारिणः प्रत्यभिधानात् “यत्रैव जनयेदेनों तत्रैवास्य प्रमाणते" त्यनेनच तदध्य वसायित्वस्य प्रत्यक्षलक्षणत्वेन वचनमपि न सुगतप्रत्यक्षापेक्षया व्यवहारजनापेक्षयैवं तस्य व्याख्यानात् सुगतप्रत्यक्षे स्वसंवेदनप्रत्यक्ष इव तल्लक्षणस्यासंभवात् । यथैव हि स्वसंवेदनप्रत्यक्षं स्वस्मादनुत्पद्यमानमपि स्वाकारमननुकुवाणं स्वस्मिन् व्यवसायमजनयत् प्रत्यक्षमिप्यते कल्पनापोढाभ्रांतत्वलक्षणसद्भावात् तथा योगिप्रत्यक्षमपि वर्तमानातीतानागततत्त्वेभ्यः स्वयमनुत्पद्यमानं तदाकारमननुकुर्वत् तदव्यवसायमजनयत् प्रत्यक्षं तल्लक्षणयोगित्वात्प्रतिपद्यते । कथमन्यथा सकलार्थविषयं विधूतकल्पनाजालं च सुगतप्रत्यक्षं सिद्ध्येत् तस्य भावनाप्रकर्षपर्यंतजत्वाञ्च । न समस्तार्थजत्वं युक्तं 'भावना प्रकर्षपर्यंत घ योगिज्ञान' मिति वचनात् । भावना हि द्विविधा श्रुतमयी चिंतामयी च । तत्र श्रुतमयी श्रूयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कंदता निर्वृत्ता, परं प्रकर्ष प्रति पद्यमाना स्वार्थानुमानलक्षणया चिंतया निवृत्तां चिंतामयी भावनामारभते सा च प्रकृष्यमाणा परं प्रकर्षपर्यतं संप्राप्ता योगिप्रत्यक्षं जनयति ततस्तत्वतो विश्वतत्वज्ञतासिद्धेः सुगतस्य न तदपेतत्वं सिद्ध्यति यतो निर्माणमार्गस्य प्रतिपादकः सुगतो न भवेदिति । तदपि न विचारक्षमं । भावनाया विकल्पात्मिकायाः श्रुतमय्याश्चिंतामय्याश्वावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् कुतश्चिदतत्त्व १ चित्तामा समूहः संततिरितियावत् । २ निर्विकल्पबुदि।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182