________________
सनातनजेनग्रंथमालायांसुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः ।
विश्वतत्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ७४ ॥ योयस्तत्वतो विश्वतत्त्वज्ञताऽपेतः स स न निर्वाणमार्गस्य प्रतिपादको यथाकपिलादिस्तथा च सुगत इत्येवं नासिद्धं साधनं तत्त्वतो विश्वतत्त्वज्ञतापेतत्वस्य सुगते धर्मिणि सद्भावात् । स हि विश्वत
वान्यतीतानागतवर्तमानानि साक्षात्कुर्वस्तहेतुकोऽभ्युपगंतव्यः तेषां सुगतज्ञानहेतुत्वाभावे सुगतज्ञान विषयत्वविरोधात् । नाकारणं विषय इति स्वयमभिधानात् । तथाऽतीतानां तत्कारणत्वेऽपि न वर्तमानानामर्थानां सुगतज्ञानकारणत्वं समसमयभाविना कार्यकारणभावाभावादन्वयव्यतिरेकानुविधाना योगात् । नबननुकृतान्वयव्यतिरेकोऽर्थः कस्यचित्कारणमिति युक्तं वक्तुं । नाननुकृतान्वयव्यतिरेक कारणमिति प्रतीतेः । तथा भविष्यतां चार्थानां न सुगतज्ञानकरणता युक्ता यतस्तद्विषयं सुगतज्ञानं स्यादिति विश्वतत्त्वज्ञतापेतत्वं सुगतस्य सिद्धमेव तथा परमार्थतः स्वरूपमात्रावलंबित्वात् सर्वविज्ञानानां सुगतज्ञानस्यापि स्वरुपमात्रविषयत्वमेवोररीकर्तव्यं तस्य बहिरर्थविषयत्वे स्वार्थसंवेदकत्वात् सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति वचनं विरोधमध्यासीत । बहिराकारतयोत्पद्यमानत्वात् सुगतज्ञानस्य बहिरर्थविषयत्वोपचारकल्पनायां न परमार्थतो बहिरर्थविषयं सुगतज्ञानमतस्तत्त्वत इति विशेषणमपि नासिद्धं साधनस्य । नापि विरुद्धं विपक्षएव वृत्तेरभावात् कपिलादी सपक्षेऽपि सद्भावात् । ननु तत्त्वतोविश्वतत्त्वज्ञतापेतेन मोक्षमार्गस्य प्रतिपादकेन दिग्नागाचार्यादिना साधनस्य व्यभिचार इति चेन्न । तस्यापि पक्षीकृतत्वात् । सुगतग्रहणेन सुगतपतानुसारिणां सर्वेषां गृहीतत्वात् । तार्ह स्याद्वादिनाऽनुत्पन्नकेवलज्ञानेन तत्त्वतो विश्वतत्त्वज्ञतापेतेन सूत्रकारादिना निर्वाणमार्गस्यो पदेशकेनानैकांतिकं साधनमिति चेन्न । तस्यापि सर्वज्ञप्रतिपादितनिर्वाणमार्गोपदेशित्वेन तदनुवादफत्वात् प्रतिपादकत्वसिद्धेः । साक्षात्तत्त्वतो विश्वतत्त्वज्ञ एव हि निर्वाणमार्गस्य प्रवक्ता, गणधरदेनादयस्तु सूत्रकारपर्यंतास्तदनुवक्तारएव गुरुपर्वक्रमाविच्छेदादिति स्याद्वादिनां दर्शनं ततो न तैरनेकांतिको हेतुर्यतः सुगतस्य निर्वाणमार्गस्योपदेशित्वाभावं न साधयेत् । स्यान्मतं न सुगतज्ञानं विश्वतत्त्वेभ्यः समुत्पन्नं तदाकारतां चापनं तदध्यवसायि च तत्सक्षात्कारि सौगतैरभिधीयते । " भिन्नकालं कथं प्राह्यमितिचेग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षम " मित्यनेन तदुत्पत्तितादृप्ययोग्राह्यत्वलक्षणत्वेन व्यवहारिणः प्रत्यभिधानात् “यत्रैव जनयेदेनों तत्रैवास्य प्रमाणते" त्यनेनच तदध्य वसायित्वस्य प्रत्यक्षलक्षणत्वेन वचनमपि न सुगतप्रत्यक्षापेक्षया व्यवहारजनापेक्षयैवं तस्य व्याख्यानात् सुगतप्रत्यक्षे स्वसंवेदनप्रत्यक्ष इव तल्लक्षणस्यासंभवात् । यथैव हि स्वसंवेदनप्रत्यक्षं स्वस्मादनुत्पद्यमानमपि स्वाकारमननुकुवाणं स्वस्मिन् व्यवसायमजनयत् प्रत्यक्षमिप्यते कल्पनापोढाभ्रांतत्वलक्षणसद्भावात् तथा योगिप्रत्यक्षमपि वर्तमानातीतानागततत्त्वेभ्यः स्वयमनुत्पद्यमानं तदाकारमननुकुर्वत् तदव्यवसायमजनयत् प्रत्यक्षं तल्लक्षणयोगित्वात्प्रतिपद्यते । कथमन्यथा सकलार्थविषयं विधूतकल्पनाजालं च सुगतप्रत्यक्षं सिद्ध्येत् तस्य भावनाप्रकर्षपर्यंतजत्वाञ्च । न समस्तार्थजत्वं युक्तं 'भावना प्रकर्षपर्यंत घ योगिज्ञान' मिति वचनात् । भावना हि द्विविधा श्रुतमयी चिंतामयी च । तत्र श्रुतमयी श्रूयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कंदता निर्वृत्ता, परं प्रकर्ष प्रति पद्यमाना स्वार्थानुमानलक्षणया चिंतया निवृत्तां चिंतामयी भावनामारभते सा च प्रकृष्यमाणा परं प्रकर्षपर्यतं संप्राप्ता योगिप्रत्यक्षं जनयति ततस्तत्वतो विश्वतत्वज्ञतासिद्धेः सुगतस्य न तदपेतत्वं सिद्ध्यति यतो निर्माणमार्गस्य प्रतिपादकः सुगतो न भवेदिति । तदपि न विचारक्षमं । भावनाया विकल्पात्मिकायाः श्रुतमय्याश्चिंतामय्याश्वावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् कुतश्चिदतत्त्व
१ चित्तामा समूहः संततिरितियावत् । २ निर्विकल्पबुदि।